51064: छेदादिभ्यो नित्यम्

Padacheda: छेदादिभ्यः | S | 5 | 3 |

नित्यम् | S | 1 | 1 |

Sutrartha

छेदादिगणस्य शब्देभ्यः ‘नित्यमर्हति’ अस्मिन् अर्थे यथाविहितं प्रत्ययः भवति ।

तदर्हति (5.1.63) अनेन सूत्रेण सर्वेभ्यः प्रातिपदिकेभ्यः ‘अर्हति’ अस्मिन् अर्थे प्रत्यनविधानं भवति । तद् बाधित्वा अनेन सूत्रेण ‘नित्यम् (= सर्वदा) अर्हति’ अस्मिन्नेव अर्थे छेदादिगणस्य शब्देभ्यः प्रत्ययविधानम् क्रियते । इत्युक्ते, ‘क्वचित् अर्हति’ अस्मिन् अर्थे छेदादिगणस्य शब्देभ्यः प्रत्ययविधानम् न भवति, केवलं ‘नित्यमर्हति’ अस्मिन्नेव अर्थे भवति - इति स्मर्तव्यम् । छेदादिगणः अयम् - छेद, भेद, द्रोह, दोह, वर्त, कर्ष, संप्रयोग, विप्रयोग, प्रेषण, संप्रश्न, विप्रकर्ष, विराग विरङ्गं च (गणसूत्रम्) । एतेभ्यः सर्वेभ्यः शब्देभ्यः आर्हादगोपुच्छसङ्ख्यापरिमाणात् ठक् (5.1.19) इत्यनेन ठक्-प्रत्ययः भवति । यथा - 1. छेदं नित्यमर्हति सः छैदिकः वंशः । स्त्रीत्वे टिड्ढाणञ्.. (4.1.15) इति ङीप् - छैदिकी वेणुः । 2. भेदं नित्यमर्हति सः भैदिकः । 3. द्रोहं नित्यमर्हति सः द्रौहिकः । अस्मिन् गणे एकं गणसूत्रमपि विद्यते - ‘विराग विरङ्गं च’ । इत्युक्ते, ‘विराग’ शब्दस्य प्रक्रियायाम् ‘विरङ्ग’ आदेशः अपि भवति । यथा - विरागं नित्यमर्हति सः = विराग + ठक् → वैरङ्ग + ठक् → वैरङ्गिकः । विशेषः - भाष्यकारः पन्थो ण नित्यम् (5.1.76) इत्यत्र वदति - ‘छेदादिपथिभ्यः नित्यग्रहणमनर्थकम्’ । सामान्यभाषायाम्, अस्मिन् सूत्रे ‘नित्यग्रहणम्’ अनावश्यकमस्तीति सः प्रतिपादयति, यतः तस्य मतेन छेदादिगणस्य शब्देभ्यः ‘कदाचित् अर्हति’ अस्मिन् अर्थे अपि ठक्-प्रत्ययः कृतः दृश्यते । एतदेव विषयम् स्वीकृत्य बालमनोरमाकारः अग्रे वदति - ‘सूत्रमेवेदं न आरब्धव्यम्’ । इत्युक्ते, यदि नित्यग्रहणमत्र न आवश्यकम्, तर्हि अस्य सूत्रस्यैव न किमपि प्रयोजनम् - यतः छेदादिगणस्य शब्देभ्यः तदर्हति (5.1.63) इत्यनेनैव प्रत्ययविधानं क्रियते ।

Vasu English Summary

After the words छेद etc. in the Accusative -2nd case in construction, the above mentioned affixes have the sense of ‘who deserves that under all circumstances’.

Vasu English Translation

After the words छेद etc. in the Accusative -2nd case in construction, the above mentioned affixes have the sense of ‘who deserves that under all circumstances’. Thus छेदं नित्यमर्हति = छैदिकः, so also भैदिकः ॥

1 छेद, 2 भेद, 3 द्रोह, 4 दोह, 5 मर्त (वर्त), 6 कर्ष, 7 तीर्थ, 8 संप्रयोग, 9 विप्रयोग, 10 प्रयोग, 11 विप्रकर्ष, 12 प्रेषण, 13 संप्रश्न, 14 विप्रश्न, 15 विकर्ष, 16 प्रकर्ष, 17 विराग विरङ्गं च (from विराग is formed वैरङ्गिक), ॥

Bhashya

छेदादिभ्यो नित्यम् (1946)

Kashika

नित्यग्रहणं प्रत्ययार्थविशेषणम्। छेदादिभ्यो द्वितीयासमर्थेभ्यो नित्यमर्हतीत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। छेदं नित्यमर्हति छैदिकः। भैदिकः॥ छेद। भेद। द्रोह। दोह। वर्त। कर्ष। संप्रयोग। विप्रयोग। प्रेषण। संप्रश्न। विप्रकर्ष। विराग विरङ्गं च (ग०सू०११२)। वैरङ्गिकः। छेदादिः॥

Siddhanta Kaumudi

नित्यमाभीक्ष्ण्यम् । छेदं नित्यमर्हति छैदिको वेतसः । छिन्नप्ररूढत्वात् । (गणसूत्रम् -) विराग विरङ्गं च । विरागं नित्यमर्हति । वैरागिकः । वैरङ्गिकः ॥

Balamanorama

छेदादिभ्यो नित्यम् - छेदादिभ्यो आभीक्ष्ण्यमिति । पौनःपुन्यमित्यर्थः । तन्नित्यमर्हतीत्यर्थे द्वितीयान्तेभ्यश्छेदादिभ्यो यथाविहितं प्रत्ययः स्यादित्यर्थः । छैदिको वेतस इति ।आर्हा॑दिति ठक् । ‘तदर्हति’ इत्येव सिद्धे आभीक्ष्ण एवेति नियमार्थमिदं सूत्रम् । वस्तुतस्तु नित्यमिति नाभीक्ष्ण्यार्थकं प्रत्ययार्थकोटि प्रविष्टं, किंतु अपाक्षिकार्थकम्समर्थानां प्रथमाद्वा॑ इति वाग्रहणानुवृत्तिनिवृत्त्यर्थमित्यभिप्रेत्य विग्रहवाक्यस्यापि लोके दर्शनान्नित्यग्रहणं न कर्तव्यमित्युक्तं भाष्ये । एवंच छेदादिभ्यः पाक्षिकप्रत्ययस्यतदर्हती॑त्येव सिद्धत्वात्सूत्रमेवेदं नारब्धव्यमिति । फलति । विराग विरङ्गं चेति । गणसूत्रमिदम् । उक्तेऽर्थे विरागशब्दो विरङ्गादेशं लभत इत्यर्थः चादार्हीयष्ठक् ।

Tattvabodhini

छेदादिभ्यो नित्यम् - छेदादिभ्यो । नित्यग्रहणमिहनित्यं क्रीडाजीविकयो॑रित्यत्रेव महाविभाषया प्राप्तस्य वाक्यस्य निवृत्त्यर्थं न भवति, आरम्भसामर्थ्यादेव तन्निवृत्तिसिद्धेः, किं तु प्रत्ययार्थविशेषणमिति द्वनयति -छेदं नित्यमर्हतीति । भाष्ये तु नित्यग्रहणं प्रत्याख्यातं । सूत्रमेव मास्त्विति तदाशय इति मनोरमा । अयं भावः — — नित्यग्रहणमिह प्रत्ययार्थविशेषणं न भवति, नित्यं छेदमर्हतीत्यस्यार्थस्यासम्भवात् । कालान्तर एव तस्य छेदप्रवर्तनात् । न चात्र नित्यग्रहणत्यागेऽपि छेदमर्हतीत्यादिविग्रहवाक्यनिवृत्तये सूत्रस्यावश्यकत्वातत्तत्प्रत्याख्यानं न युज्यत इति शङ्क्यम् । विग्रहवाक्यस्य भाष्यादिसंमतत्वादिति दिक् । छेद भेद द्रोह दोषेत्यादयश्छेदादयः । गणसूत्रमाह -विरागेति ।

Nyaas

नित्यग्रहणम् इति। अथ विभाषाया निवृत्त्यर्थं नित्यग्रहणेन कस्मान्न विज्ञयते? अशक्यं तन्निवृत्त्यर्थं विज्ञातुम्। विनापि नित्यग्रहणेन महाविभाषानिवृत्तिः शक्यते विज्ञातुम्। तथा हि - छेदादिभ्यः पूर्वेणैव ठकि सिद्धे पुनर्वचनादेव नित्यविधिर्भविष्यति, किं नित्यग्रहणेन? ततो नित्यग्रहणमहन्यहन्यर्हत्वात्? तदर्हति (5.1.62) इत्यस्यार्थस्य विशेषणं विज्ञायते। तथा च जातमारम्भस्य प्रयोजनमिति वाक्यं न निवर्तते। विरागो विरङ्गञ्च इति। विरागशब्दष्ठकमुत्पादयति विरङ्गादेशं चापद्यते। नित्यं विरागमर्हति वैरङ्गिकः। प्रत्ययसन्नियोगेन चायसादेश इति प्रत्ययाभावाद्वाक्ये न भवति॥

Prakriyasarvasvam

एभ्यो नित्यमर्हतीत्यर्थे ठगादिः । ‘छेदभेदद्रोहदोहनर्तकर्षसम्प्रयोगविप्रयोग- विप्रकर्षप्रेषणसम्प्रश्नेभ्यः (स० ५-९-५९)’ । छेदं सर्वदार्हन्ति छैदिका दस्यवः । भैदिकाः । द्रौहिकाः । दौहिकाः । नर्तों नर्तनं, नार्त्तिकाः नटाः । कार्षिकः । साम्प्रयोगिकः । वैप्रयोगिकः । वैप्रकर्षिकः । साम्प्रश्निकः । ‘विरागस्य विरङ्गादेशश्च, (ग०) विरागं नित्यमर्हन्ति वैरङ्गिका विषयाः ॥