51062: त्रिंशच्चत्वारिंशतोर्ब्राह्मणे संज्ञायां डण्

Padacheda: त्रिंशत्-चत्वारिंशतोः | S | 6 | 2 |

ब्राह्मणे | S | 7 | 1 |

संज्ञायाम् | S | 7 | 1 |

डण् | S | 1 | 1 |

Sutrartha

‘एषाम् ब्राह्मणानाम् परिमाणम्’ अस्मिन् अर्थे प्रथमासमर्थात् त्रिंशत्-शब्दात् चत्वारिंशत्-शब्दात् च संज्ञां दर्शयितुम् ‘डण्’ प्रत्ययः भवति ।

‘त्रिंशत् परिमाणम् एषाम् ब्राह्मणानाम्’ तथा च ‘चत्वारिंशत् परिमाणम् एषाम् ब्राह्मणानाम्’ अनयोः अर्थयोः भाषायां प्रयुज्यमाणौ ‘त्रैंश’ तथा ‘चात्वारिंश’ एतौ संज्ञावाचिनौ शब्दौ अनेन सूत्रेण सिद्ध्यतः । अत्र ‘ब्राह्मण’शब्दः ‘वेदस्य मन्त्रभिन्नः भागः’ अस्मिन् अर्थे प्रयुक्तः अस्ति, न हि ‘ब्राह्मणजातिः’ अस्मिन् अर्थे । यथा - 1. त्रिंशत् अध्यायाः परिमाणम् एषाम् ब्राह्मणानाम् = त्रिंशत् + डण् → त्रैंशत् + अ [इत्संज्ञालोपः, णित्वात् तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → त्रैंश् + अ [टेः (6.4.143) इति टिलोपः] → त्रैंश 2. तथैव - चत्वारिंशत् सूक्तानि परिमाणम् एषाम् ब्राह्मणानाम् = चात्वारिंश । यथा - त्रैंशानि ब्राह्मणानि, चात्वरिंशानि ब्राह्मणानि - एतादृशाः प्रयोगाः दृश्यते । तेषाम् समर्थनार्थम् इदम् सूत्रम् निर्मितमस्ति ।

Vasu English Summary

The affix अञ् (+/- अ) comes in the sense of ‘this is its measure’ after the words 1. त्रिंशत् and 2. चत्वारिशत् when it is a Name denoting a ब्राहमण-book.

Vasu English Translation

The affix अञ् (+/- अ) comes in the sense of ‘this is its measure’ after the words 1. त्रिंशत् and 2. चत्वारिशत् when it is a Name denoting a ब्राहमण-book. The word वर्ग does not govern this sutra. The indicatory ड् causes the elision of the last vowel with the consonant that follows it (6.4.143). The force of the locative case in ब्राह्मणे is that of अभिधेय and not विषय, i. e. when the word means a Brahmana itself. Had the force been that of विषय, it would have meant, ‘in the Brahmana literature’. As त्रिंशदध्यायाः परिमाणमेषां ब्राह्मणानां = त्रैंशानि ब्राह्मणानि ‘The Brahmana containing thirty Adhyayas’. So चत्वारिंशानि ब्राह्मणानि ॥ These being the names of certain Brahmanas.

Kashika

तदस्य परिमाणमित्येव। वर्ग इति निवृत्तम्। त्रिंशच्चत्वारिंशच्छब्दाभ्यां संज्ञायां विषये डण् प्रत्ययो भवति तदस्य परिमाणमित्येतस्मिन् विषये ब्राह्मणेऽभिधेये। अभिधेयसप्तम्येषा, न विषयसप्तमी। तेन मन्त्रभाषयोरपि भवति। त्रिंशदध्यायाः परिमाणमेषां ब्राह्मणानां त्रैंशानि ब्राह्मणानि। चात्वारिंशानि ब्राह्मणानि। कानिचिदेव ब्राह्मणान्युच्यन्ते॥

Siddhanta Kaumudi

त्रिंशदध्यायाः परिमाणमेषां ब्राह्मणानां त्रैंशानि । चात्वारिंशानि ॥

Balamanorama

त्रिंशच्चत्वारिंशतोर्ब्राह्मणे संज्ञायां डण् - तिंरशच्चत्वारिंशतोः । तदस्य परिमाणमित्यर्थे परिमाणिनि ब्राआहृणे वाच्ये त्रिशच्चत्वारिंशद्भ्यां डण्स्यादित्यर्थः । ब्राआहृणं=वेदेषु मन्त्रव्यतिरिक्तो भागः । त्रैंशानीति । डित्त्वात् ‘टेः’ इति टिलोपः ।

Tattvabodhini

त्रिंशच्चत्वारिंशतोर्ब्राह्मणे संज्ञायां डण् - तिंरशच्चत्वारिंशतोः । व्यत्ययेन पञ्चम्यर्थे षष्ठीद्विवचनम् ।चत्वारिंशतो ब्राआहृणे॑इति पाठे तु समाहारद्वन्द्वात्पञ्चम्येकवचनम् । इहब्राआहृणसंज्ञाया॑मिति षष्ठीसमासेन निर्देष्टुमुचितम् । तथा हि सतिब्राआहृणस्य चेत्संज्ञा॑इतिस्फुटीभवति । अन्यथा तु यस्य कस्यचित्संज्ञायां ब्राआहृणस्थे च प्रयोगे इत्यनिष्टोऽर्थः सम्भाव्येत । ततश्च मन्त्रे भाषायां च डण्न सिध्येत् । इष्यते च सः । तस्मादिष्टानुरोधेन षष्ठर्थे सप्तमीति व्याख्येयम् ।ब्राआहृणेऽभिधेये॑इति तु काशिकायां व्याख्यातम् । ठञादय इति । ठञ उदाहरणं तु — — प्रस्थमर्हति प्रास्थिकः,द्रौणिकः इत्याद्यूह्रम् । आदिशब्दग्राह्रस्य ठक उदाहरणमाह ।

Padamanjari

न विषयसप्तमीति। ब्राह्मणविषयश्चेत्प्रयोगो भवतीति नैवमत्रार्थः, नैवमत्रार्थः, तथा हि सति मन्त्रे भाषायां च प्रयोगो न स्यात्, ब्राह्मणादन्यस्य च संज्ञायां शङ्क्येत, एवं च’ब्राह्मणसंज्ञायाम्’ इति षष्ठीसमासेन निर्देअष्टव्यम्, तथा तु न कृतमितेयेव सूत्रे च ये ओकारादन्तरं रेफमधीयते तेषां पञ्चम्यर्ये षष्ठीद्विवचनम्। ये तु न, तेषां समाहारद्वन्द्वे पञ्चम्येकवचनम् ॥

Nyaas

तिंरशच्छब्दात्? विंशतितिंरशद्भ्याम् (5.1.24) इति योगविबागेन कनि प्राप्ते चत्वारिंशच्छब्दादपि प्राग्वतेष्ठञ् (5.1.18) इति ठञि प्राप्तेऽयमारभ्यते। अभिधेये सप्तम्येषा इत्यादि। विषयसप्तम्यामस्यां ब्राआहृणविषयश्चेत्? प्रयोगो भवतीत्येषोऽर्थः स्यात्, तथा चान्यत्र प्रत्ययान्तस्य प्रयोगो न स्यात्, तस्मान्न विषयसप्तम्येषा। एतच्च संज्ञाग्रहणादेव विज्ञायते। न हि ब्राआहृणग्रहणात्? तिंरशच्चत्वारिंशतौ डण्णन्तौ कस्यचित्? पदार्थस्य संज्ञिनौ स्तः, ब्राआहृणानां तु विद्यते॥

Prakriyasarvasvam

आभ्यां ब्राह्मणनाम्नि डण् । त्रिंशदध्यायपरिमितं ब्राह्मणं त्रैंशम् । चात्वारिंशम् ॥