51034: पणपादमाषशताद्यत्

Padacheda: पण-पाद-माष-शतात् | S | 5 | 1 |

यत् | S | 1 | 1 |

Sutrartha

सर्वेषु आर्हीय-अर्थेषु ‘पण’, ‘पाद’, ‘माष’, ‘शत’ - एतेषां विषये अध्यर्धपूर्व/द्विगुसमासात् यत्-प्रत्ययः भवति ।

‘पण’, ‘पाद’, ‘माष’ (त्रीणि अपि मापनस्य परिमाणानि) उत ‘शत’ शब्दस्य विषये तद्धितार्थे विहितः यः अध्यर्धपूर्वसमासः द्विगुसमासः वा, तस्मात् आर्हीयेषु अर्थेषु यत्-प्रत्ययः भवति । 1. द्वौ पणौ परिमाणमस्य तत् द्विपण्यम् । 2. अध्यर्धेन पादेन क्रीतम् तत् अध्यर्धपाद्यम् । 3. त्रयः माषाः परिमाणमस्य तत् त्रिमाष्यम् । अत्र त्रिषु अपि उदाहरणेषु औत्सर्गिकरूपेण विहितं ठञ्-प्रत्ययं बाधित्वा यत्-प्रत्ययः विधीयते । 4. अध्यर्धेन शतेन क्रीतमध्यर्धशत्यम् । द्वाभ्याम् शताभ्याम् क्रीतम् द्विशत्यम् । अत्र ‘शत’ शब्दात् संख्याया अतिशदन्तायाः कन् (5.1.22) इत्यस्य अपवादरूपेण यत्-प्रत्ययः भवति । तथा च, अत्र नित्यरूपेण विहितः यत्-प्रत्ययः अग्रिमसूत्रे निर्दिष्टेन शताच्चेति वक्तव्यम् अनेन वार्त्तिकेन विकल्प्यते, अतः पक्षे कन्-प्रत्ययः अपि विधीयते, तस्य च अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् (5.1.28) इत्यनेन लुक् भवति । यथा - द्वाभ्यां शताभ्यां क्रीतम् द्विशतम् । ज्ञातव्यम् - 1. पाद-शब्दस्य विषये पद् यत्यतदर्थे (6.3.53) इत्यनेन पद्-आदेशः न भवति यतः तस्मिन् सूत्रे ‘पाद’ इत्यनेन केवलं शरीरस्य अवयवः एव गृह्यते, न हि परिमाणवाची पादशब्दः । 2. अध्यर्धपूर्व/द्विगुसमासस्य विषये आर्हीय-प्रत्ययस्य अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् (5.1.28) इत्यनेन वस्तुतः लुक्-भवति । परन्तु अत्र निर्देशसामर्थ्यात् लुकं बाधित्वा यत्-प्रत्ययः क्रियते ।

Vasu English Summary

The affix यत् (य) comes in the आर्हीय senses (5.1.37)-63 after the words पण, माष and शत , when preceded by the word अध्यर्ध or a Numeral occasioning a द्विगु।

Vasu English Translation

The affix यत् (य) comes in the आर्हीय senses (5.1.37)-63 after the words पण, माष and शत , when preceded by the word अध्यर्ध or a Numeral occasioning a द्विगु। Thus अध्यर्द्धपण्यम्, द्विपण्यम्, त्रिपण्यम् so also अध्यर्द्धपाद्यम्, द्विपाद्यम्, त्रिपाद्यम् ॥ Here पाद is not changed into पद, by (6.3.53). The substitution enjoined by (6.3.53) takes place when पाद means the foot of a living being, while here it means a measure of capacity. So also अध्यर्द्धमाष्यम्, द्विमाष्यम्, त्रिमाष्यम्, अध्यर्द्धशत्यम्, द्विशत्यम्, त्रिशत्यम् ॥

Kashika

अध्यर्धपूर्वाद् द्विगोरित्येव। अध्यर्धपूर्वाद् द्विगोश्च पणपादमाषशतशब्दान्तादार्हीयेष्वर्थेषु यत् प्रत्ययो भवति। अध्यर्धपण्यम्। द्विपण्यम्। त्रिपण्यम्। पाद — अध्यर्धपाद्यम्। द्विपाद्यम्। त्रिपाद्यम्। पद्भावो न भवति पद्यत्यतदर्थे (६.३.५३) इति। प्राण्यङ्गस्य स इष्यते, इदं तु परिमाणम्। माष — अध्यर्धमाष्यम्। द्विमाष्यम्। त्रिमाष्यम्। शत — अध्यर्धशत्यम्। द्विशत्यम्। त्रिशत्यम्॥

Siddhanta Kaumudi

अध्यर्धपण्यम् । द्विपण्यम् । अध्यर्धपाद्यम् । द्विपाद्यम् । इह पादः पत् (SK414) इति न । यस्य-(SK311) इति लोपस्य स्थानिवद्भावात् । पद्यत्यतदर्थे (SK991) इत्यपि न, प्राण्यङ्गार्थस्यैव तत्र ग्रहणात् ॥

Balamanorama

पणपादमाषशतादत् - प्राण्यङ्गार्थस्येति । व्याख्यानादिति भावः । इह सूत्रे पणमाषसाहचर्यात्पादशब्दोऽपि परिमाणविशेषवाची गृह्रते ।

Tattvabodhini

पणपादमाषशतादत् - प्राण्यङ्गार्थस्यैवेति । अयं भावः -॒पादस्य पदाज्यातिदोपहतेषु॑इत्यत्र प्राण्यङ्गस्यैव हि पादस्य ग्रहणं , तस्यै वाज्यातिभिर्गतिवचनैः संबन्धसंभवात् । तथा चपद्यती॑त्यादावपि तस्यैवानुवृत्तिः । इह तु पणमाषाभ्यां साहचर्यात्परिमाणवाचिनो ग्रहणमिति ।

Padamanjari

पद्बावोऽत्र न भवतीति।’पद्यत्यतदर्थे’ इत्यनेन। किं कारणमित्याह - प्राण्यङ्गस्येति।’पादस्य पदाज्यातिगोपहतेषु’ इत्यत्र तावत् प्राण्यङ्गस्य पादस्य ग्रहणं तस्यैवाज्यादिभिर्गतिवचनैः सबन्धसद्भावात् पद्यतीत्यादावपि तस्यैवानुवृत्तिः। इह तु परिमाणमिति। गृह्यते इति शेषः। पणमाभ्यां साहचर्यादिति भावः ॥

Nyaas

पणपादमाषेभ्यः असमासे निष्कादिभ्यः (5.1.20) इति असमासे ठको विधानाट्ठञि प्राप्ते तस्य लुकि शतशब्दादप्यसमासे शताच्च ठन्यतावशते (5.1.21) इति ठन्यतोर्विधानात्? समासे संख्यालक्षणे कनि यद्? विधीयते। द्विपाद्यम् इत्यादि। ननु पद्भावः कस्मान्न भवति पद्यत्यतदर्थे (6.3.53) इति? सत्यम्; पादस्य पदाज्यातिगोपहतेषु (6.3.52) इत्यत्र प्राण्यङ्गस्यैव पद्भावविधानात्। कृत एतत्? आज्याति इत्यादिना गतिवचनेन सम्बन्धस्तस्यैवोपपद्यते; न परिमाणशब्दस्य। स एव प्राण्यङ्गवाच्युत्तरसूत्रेऽप्यनुवर्तिष्यत इति तस्यैव पद्भाव इष्यते। स्यादेतत् - अयमपीह पादशब्दः प्राण्यङ्गवाची, अतो भवितव्यमेवेह पद्भावेन? इत्यत आह - पद्भावो न भवति इति। पद् यत्यतदर्थे (6.3.53) इति पद्भावः प्राप्नोति, स न भवति। किं कारणमित्याह - प्राण्यङ्गस्य इत्यादि। पादस्य पदाज्यातिगोपहतेषु (6.3.52) इत्यत्र प्राण्यङ्गस्य पादस्य ग्रहणम्। इदं तु परिमाणग्रहणम् [`परिमाणम्-काशिका] इति। पणादिभिः परिमाणैः साहचर्यात्? परिमाणं पादो गृह्रते, न प्राण्यङ्गमिति पद्भावस्याप्रसङ्गः॥

Prakriyasarvasvam

अध्यर्धपण्यम् । द्विपण्यम् । प्राण्यङ्गपादस्यैव पद्भावादिह ‘पद्यत्यतदर्थे’ (६-३-५३) इत्येतन्न । द्विपाद्यम् । द्विमाष्यम् । द्विशत्यम् । एवमध्यक्षर्धादपि ॥