51035: शाणाद्वा

Padacheda: शाणात् | S | 5 | 1 |

वा | S | 0 | 0 |

Sutrartha

सर्वेषु आर्हीय-अर्थेषु ‘शाण’ शब्दस्य विषये अध्यर्धपूर्व-द्विगुसमासात् विकल्पेन यत्-प्रत्ययः भवति ।

‘शाण’ (मापनस्य किञ्चन परिमाणम्) शब्दस्य विषये तद्धितार्थे विहितः यः अध्यर्धपूर्वसमासः द्विगुसमासः वा, तस्मात् आर्हीयेषु अर्थेषु यत्-प्रत्ययः भवति । पक्षे औत्सर्गिकः ठञ्-प्रत्ययः अपि विधीयते । यथा - 1. पञ्च शाणं परिमाणमस्य = पञ्चशाण + यत् → पञ्चशाण्यम् । पक्षे ठञ् - पञ्चशाण + ठञ् → पञ्चशाणम् । अत्र अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् (5.1.28) इत्यनेन प्रत्ययस्य लुक् भवति । 2. अध्यर्धेन शाणेन क्रीतमध्यर्धशाण्यमध्यर्धशाणम् वा । अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - <!शताच् चेति वक्तव्यम्!> । इत्युक्ते, ‘शत’ शब्दस्य विषये द्विगुसमासे कर्तव्ये पणमाषपादशताद्यत् (5.1.34) इत्यनेन यत्-प्रत्यये नित्यरूपेण प्राप्ते अनेन वार्त्तिकेन सः विकल्प्यते । पक्षे संख्याया अतिशदन्तायाः कन् (5.1.22) इत्यनेन कन्-प्रत्ययः भवति, तस्य च अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् (5.1.28) इत्यनेन लुक् भवति । यथा - पञ्च शतम् परिमाणमस्य तत् पञ्चशत्यम्, पञ्चशतम् वा ।

Vasu English Summary

The affix यत् comes optionally after the word शन, in the आर्हीय-senses (5.1.63), when it is preceded by the word अध्यर्ध or a Numeral occasioning a द्विगु।

Vasu English Translation

The affix यत् comes optionally after the word शन, in the आर्हीय-senses (5.1.63), when it is preceded by the word अध्यर्ध or a Numeral occasioning a द्विगु। This debars ठञ् which also comes in the alternative, and is then elided by (5.1.28). Thus अध्यर्द्धशाण्यम् or अध्यर्द्धशाणम्, द्विशाण्यम् or द्विशाणम्, त्रिशाण्यम् or त्रिशाणम् ॥

Vart:- So also optionally after the word शत, as, अध्यर्द्धशत्यम् or शतम्, द्विशत्यम् or शतम्, त्रिशत्यम् or शतम् ॥

Bhashya

शाणाद्वा (1917) (यतोऽधिकरणम्) (5628 उपसंख्यानवार्तिकम्॥ 1 ॥) - शतशाणाभ्यां वा - (भाष्यम्) शतशाणाभ्यां वेति वक्तव्यम्। अध्यर्धशतम्, अध्यर्धशत्यम्। पञ्ञ्चशतम्, पञ्ञ्चशत्यम्। अध्यर्धशाणम्, अध्यर्धशाण्यम्। पञ्ञ्चशाणम्, पञ्ञ्चशाण्यम्॥ (5629 उपसंख्यानवार्तिकम्॥ 2 ॥) - द्वित्रिपूर्वादण्च - (भाष्यम्) द्वित्रिपूर्वादण्चेति वक्तव्यम्। द्विशाणम्, त्रिशाणम्। द्वैशाणम्, त्रैशाणम्। द्विशाण्यम्, त्रिशाण्यम्॥

Kashika

अध्यर्धपूर्वाद् द्विगोरित्येव। शाणशब्दादध्यर्धपूर्वाद् द्विगोरार्हीयेष्वर्थेषु वा यत् प्रत्ययो भवति। ठञोऽपवादः। पक्षे सोऽपि भवति, तस्य च लुक्। अध्यर्धशाण्यम्, अध्यर्धशाणम्। द्विशाण्यम्, द्विशाणम्। त्रिशाण्यम्, त्रिशाणम् ॥ शताच्चेति वक्तव्यम्॥ अध्यर्धशत्यम्, अध्यर्धशतम्। द्विशत्यम्, द्विशतम्। त्रिशत्यम्, त्रिशतम् ॥

Siddhanta Kaumudi

यत्स्यात् । पक्षे ठञ् । तस्य लुक् । अध्यर्धशाण्यम् । अध्यर्धशाणम् ॥

Balamanorama

शाणाद्वा (द्वित्रिपूर्वादण् च) - अथ शाणान्तद्विगोरुदाहरणं वक्ष्यन्विशेषमाह — द्वित्रिपूर्वादण् । च वार्तिकमिदम् । चाद्यदिति । पाक्षिको यत् चकारेण समुच्चीयत इत्यर्थः । ततश्च यतो ।ञभावे ठञपि लभ्यते । तदाह-तेन त्रैरूप्यमिति । अणा, यता, ठञा चेत्यर्थः । अणि परिमाणान्तस्येत्युत्तरपदवृद्धिमाशङ्क्याह — परिमाणान्तस्येति । ठञादयस्त्रयोदशेति ।प्राग्वते॑रिति ठञ्,आर्हा॑दिति ठक्,शताच्चे॑ति ठन्यतौ, ‘संज्ञायाः’ इति कन्,विंशतितिंरशद्भ्या॑ति ड्बुन्,कंसा॑दिति टिठन्,शूर्पा॑दित्यञ्,शतमाने॑त्यण्, ‘विंशतिकात्खः’ इति खः, खार्याः॑ इति ईकन्,पणपादे॑ति यत्,द्वित्री॑ति वार्तिकोक्ताऽण् । इत्येव त्रयोदशेत्यर्थः । प्रकृता इति । प्रक्रान्ता इत्यर्थः । समर्थविभक्तय इति ।समर्थानां प्रथमाद्वे॑ति सूत्रलभ्यसमर्थविशेषणीभूतप्रथमोच्चारिततत्तद्विभक्तय इत्यर्थः ।

Tattvabodhini

शाणाद्वा (द्वित्रिपूर्वादण् च) - द्वित्रिपूर्वादण् । वार्तिकमिदं वृत्तिकृता सूत्रेषु प्रक्षिप्तम् । भाष्यादिप्रामाण्याच्छतग्रहणमिह न संबध्यत इत्याशयेनाह — — शाणादित्येवेति । न्यासकृता त्वण्विधायके वार्तिके सूत्रत्वभ्रमणे व्याख्यातम् -॒शत शाणाभ्यां वे॑ति सूत्रयितव्येपणवादे॑कति पूर्वसूत्रे शतग्रहणं क्रियते तस्येदं फलं, -शतशब्दः स्वरितत्वेनानुवर्तमानोऽपिशाणाद्वा॑इत्यत्रैव संबध्यते, तदुत्तरसूत्रेद्वित्रिपूर्वादण् चे॑त्यत्र तु न संबध्यते, तेन शतशब्दादण् नेति । तदिदं सामर्थ्यवर्णनमण्विधायकं यदि सूत्रं स्यात्तदा सङ्गच्छते नान्यथेत्यास्तां तावत् । त्रैरूप्यमिति । तदेतद्दर्शयति — — द्वैशाणमित्यादिना । अण्येकं, ठञो लुकि द्वितीयं, यति तृतीयम् । ठञादयस्त्रयोदशेति । ननु एकदशैव प्रत्ययाः प्रकृताः, सूत्रभेदेन विहितत्वाद्यत्प्रत्ययस्य द्विर्गणने तु द्वादशेति त्रयोदशेत्येतद्दुरुपपादमेव । न चशूर्पादञन्यतरस्या॑मित्यन्यतरस्याङ्ग्रहणलभ्यठञमादाय त्रयोदशत्वं सूपपादिमिति वाच्यं, तुल्यन्यायेनशाणाद्वे॑ति सूत्रलभ्ययट्ठञोग्र्रहणेन पञ्चदशत्वप्रसङ्गात् । नापि सूत्रोपात्तैद्र्वादशभिः सहद्वित्रिपूर्वादण् चे॑ति वार्तिकोपात्ताऽण्प्रत्ययस्य गणनेन निर्वाहः ।उक्तरीत्या॒कंसाट्टिठ॑न्निति सूत्रेअर्धाच्चेति वक्तव्यं॑,कार्षापणाट्टिठन्इति सूत्रस्थ एव टिठन् अध्यर्धकार्षापणशब्दाभ्यां परामष्ट इति स नभिद्यते ।द्वित्रिपूर्वादण् चे॑ति स वार्तिकस्थोऽण् तु भिद्यते,शतमानविंशतिके॑त्यणो दूरस्थत्वेन परामर्ष्टुंमशक्यत्वादिति ।

Padamanjari

ठञोऽपवाद इति। यद्यप्युन्मानवचनः शाणशब्दः, तथाप्यार्हादित्यत्र क्रियापरिमाणस्य ग्रहणादस्यपि पर्युदासाट्ठञ एव प्रसङ्ग इति भावः। शताच्चेति वक्तव्यमिति। पूर्वेण नित्ये यति प्राप्ते वचनम्। यदभावपक्षे सङ्खयालक्षणस्य कनो लुक् ॥