51034: पणपादमाषशताद्यत् ======================= **Padacheda:** पण-पाद-माष-शतात् | S | 5 | 1 | यत् | S | 1 | 1 | Sutrartha --------- **सर्वेषु आर्हीय-अर्थेषु 'पण', 'पाद', 'माष', 'शत' - एतेषां विषये अध्यर्धपूर्व/द्विगुसमासात् यत्-प्रत्ययः भवति ।** 'पण', 'पाद', 'माष' (त्रीणि अपि मापनस्य परिमाणानि) उत 'शत' शब्दस्य विषये तद्धितार्थे विहितः यः अध्यर्धपूर्वसमासः द्विगुसमासः वा, तस्मात् आर्हीयेषु अर्थेषु यत्-प्रत्ययः भवति । 1. द्वौ पणौ परिमाणमस्य तत् द्विपण्यम् । 2. अध्यर्धेन पादेन क्रीतम् तत् अध्यर्धपाद्यम् । 3. त्रयः माषाः परिमाणमस्य तत् त्रिमाष्यम् । अत्र त्रिषु अपि उदाहरणेषु औत्सर्गिकरूपेण विहितं ठञ्-प्रत्ययं बाधित्वा यत्-प्रत्ययः विधीयते । 4. अध्यर्धेन शतेन क्रीतमध्यर्धशत्यम् । द्वाभ्याम् शताभ्याम् क्रीतम् द्विशत्यम् । अत्र 'शत' शब्दात् **संख्याया अतिशदन्तायाः कन्** (5.1.22) इत्यस्य अपवादरूपेण यत्-प्रत्ययः भवति । तथा च, अत्र नित्यरूपेण विहितः यत्-प्रत्ययः अग्रिमसूत्रे निर्दिष्टेन **शताच्चेति वक्तव्यम्** अनेन वार्त्तिकेन विकल्प्यते, अतः पक्षे कन्-प्रत्ययः अपि विधीयते, तस्य च **अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्** (5.1.28) इत्यनेन लुक् भवति । यथा - द्वाभ्यां शताभ्यां क्रीतम् द्विशतम् । ज्ञातव्यम् - 1. पाद-शब्दस्य विषये **पद् यत्यतदर्थे** (6.3.53) इत्यनेन पद्-आदेशः न भवति यतः तस्मिन् सूत्रे 'पाद' इत्यनेन केवलं शरीरस्य अवयवः एव गृह्यते, न हि परिमाणवाची पादशब्दः । 2. अध्यर्धपूर्व/द्विगुसमासस्य विषये आर्हीय-प्रत्ययस्य **अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्** (5.1.28) इत्यनेन वस्तुतः लुक्-भवति । परन्तु अत्र निर्देशसामर्थ्यात् लुकं बाधित्वा यत्-प्रत्ययः क्रियते । Vasu English Summary -------------------- The affix यत् (य) comes in the आर्हीय senses (5.1.37)-63 after the words पण, माष and शत , when preceded by the word अध्यर्ध or a Numeral occasioning a द्विगु। Vasu English Translation ------------------------ The affix यत् (य) comes in the आर्हीय senses (5.1.37)-63 after the words पण, माष and शत , when preceded by the word अध्यर्ध or a Numeral occasioning a द्विगु। Thus अध्यर्द्धपण्यम्, द्विपण्यम्, त्रिपण्यम् so also अध्यर्द्धपाद्यम्, द्विपाद्यम्, त्रिपाद्यम् ॥ Here पाद is not changed into पद, by (6.3.53). The substitution enjoined by (6.3.53) takes place when पाद means the foot of a living being, while here it means a measure of capacity. So also अध्यर्द्धमाष्यम्, द्विमाष्यम्, त्रिमाष्यम्, अध्यर्द्धशत्यम्, द्विशत्यम्, त्रिशत्यम् ॥ Kashika ------- अध्यर्धपूर्वाद् द्विगोरित्येव। अध्यर्धपूर्वाद् द्विगोश्च पणपादमाषशतशब्दान्तादार्हीयेष्वर्थेषु यत् प्रत्ययो भवति। अध्यर्धपण्यम्। द्विपण्यम्। त्रिपण्यम्। पाद — अध्यर्धपाद्यम्। द्विपाद्यम्। त्रिपाद्यम्। पद्भावो न भवति **पद्यत्यतदर्थे** (६.३.५३) इति। प्राण्यङ्गस्य स इष्यते, इदं तु परिमाणम्। माष — अध्यर्धमाष्यम्। द्विमाष्यम्। त्रिमाष्यम्। शत — अध्यर्धशत्यम्। द्विशत्यम्। त्रिशत्यम्॥ Siddhanta Kaumudi ----------------- अध्यर्धपण्यम् । द्विपण्यम् । अध्यर्धपाद्यम् । द्विपाद्यम् । इह पादः पत् (SK414) इति न । यस्य-(SK311) इति लोपस्य स्थानिवद्भावात् । पद्यत्यतदर्थे (SK991) इत्यपि न, प्राण्यङ्गार्थस्यैव तत्र ग्रहणात् ॥ Balamanorama ------------ **पणपादमाषशतादत्** - प्राण्यङ्गार्थस्येति । व्याख्यानादिति भावः । इह सूत्रे पणमाषसाहचर्यात्पादशब्दोऽपि परिमाणविशेषवाची गृह्रते । Tattvabodhini ------------- **पणपादमाषशतादत्** - प्राण्यङ्गार्थस्यैवेति । अयं भावः -॒पादस्य पदाज्यातिदोपहतेषु॑इत्यत्र प्राण्यङ्गस्यैव हि पादस्य ग्रहणं , तस्यै वाज्यातिभिर्गतिवचनैः संबन्धसंभवात् । तथा चपद्यती॑त्यादावपि तस्यैवानुवृत्तिः । इह तु पणमाषाभ्यां साहचर्यात्परिमाणवाचिनो ग्रहणमिति । Padamanjari ----------- पद्बावोऽत्र न भवतीति।'पद्यत्यतदर्थे' इत्यनेन। किं कारणमित्याह - प्राण्यङ्गस्येति।'पादस्य पदाज्यातिगोपहतेषु' इत्यत्र तावत् प्राण्यङ्गस्य पादस्य ग्रहणं तस्यैवाज्यादिभिर्गतिवचनैः सबन्धसद्भावात् पद्यतीत्यादावपि तस्यैवानुवृत्तिः। इह तु परिमाणमिति। गृह्यते इति शेषः। पणमाभ्यां साहचर्यादिति भावः ॥ Nyaas ----- पणपादमाषेभ्यः **असमासे निष्कादिभ्यः** (5.1.20) इति असमासे ठको विधानाट्ठञि प्राप्ते तस्य लुकि शतशब्दादप्यसमासे **शताच्च ठन्यतावशते** (5.1.21) इति ठन्यतोर्विधानात्? समासे संख्यालक्षणे कनि यद्? विधीयते। `द्विपाद्यम्` इत्यादि। ननु पद्भावः कस्मान्न भवति `पद्यत्यतदर्थे` (6.3.53) इति? सत्यम्; **पादस्य पदाज्यातिगोपहतेषु** (6.3.52) इत्यत्र प्राण्यङ्गस्यैव पद्भावविधानात्। कृत एतत्? `आज्याति` इत्यादिना गतिवचनेन सम्बन्धस्तस्यैवोपपद्यते; न परिमाणशब्दस्य। स एव प्राण्यङ्गवाच्युत्तरसूत्रेऽप्यनुवर्तिष्यत इति तस्यैव पद्भाव इष्यते। स्यादेतत् - अयमपीह पादशब्दः प्राण्यङ्गवाची, अतो भवितव्यमेवेह पद्भावेन? इत्यत आह - `पद्भावो न भवति` इति। **पद् यत्यतदर्थे** (6.3.53) इति पद्भावः प्राप्नोति, स न भवति। किं कारणमित्याह - `प्राण्यङ्गस्य` इत्यादि। **पादस्य पदाज्यातिगोपहतेषु** (6.3.52) इत्यत्र प्राण्यङ्गस्य पादस्य ग्रहणम्। `इदं तु परिमाणग्रहणम्` [`परिमाणम्-काशिका] इति। पणादिभिः परिमाणैः साहचर्यात्? परिमाणं पादो गृह्रते, न प्राण्यङ्गमिति पद्भावस्याप्रसङ्गः॥ Prakriyasarvasvam ----------------- अध्यर्धपण्यम् । द्विपण्यम् । प्राण्यङ्गपादस्यैव पद्भावादिह 'पद्यत्यतदर्थे' (६-३-५३) इत्येतन्न । द्विपाद्यम् । द्विमाष्यम् । द्विशत्यम् । एवमध्यक्षर्धादपि ॥