51033: खार्या ईकन्

Padacheda: खार्याः | S | 5 | 1 |

ईकन् | S | 1 | 1 |

Sutrartha

सर्वेषु आर्हीय-अर्थेषु ‘खारी’शब्दस्य विषये तद्धितार्थे विहितात् अध्यर्धपूर्व/द्विगुसमासात् ईकन्-प्रत्ययः भवति ।

‘खारी’ (= मापनस्य किञ्चन परिमाणम्, quintal इत्यर्थः) शब्दस्य विषये तद्धितार्थे विहितः यः अध्यर्धपूर्वसमासः द्विगुसमासः वा, तस्मात् आर्हीयेषु अर्थेषु ख-प्रत्ययः भवति । द्वे खार्यौ परिमाणमस्य तत् = द्वि + खारी + ईकन् → द्वि + खार + ईकन् [<!भस्याढेः तद्धिते पुंवद्भावो वक्तव्यः!> अनेन वार्त्तिकेन पुंवद्भावः] → द्विखार् + ईक [यस्येति च (6.4.148) इति अकारलोपः] → द्विखारीक तथैव, तिस्रः खार्यः परिमाणमस्य तत् त्रिखारीकम् । अध्यर्धा खारी परिमाणमस्य तत् अध्यर्धखारीकम् । विशेषः - अस्मिन् सूत्रे ‘कन्’ इति प्रत्ययः उच्यते चेदपि तदेव रूपम् स्यात् - इति भासते । यथा - द्वि + खारी + कन् → द्विखारीक’ । परन्तु वस्तुतः ककारादौ प्रत्यये परे केऽणः (7.4.13) इत्यनेन अङ्गस्य ह्रस्वादेशः विधीयेत, येन ‘खारिक’ इति अनिष्टं रूपं सिद्ध्येत । अतः अत्र ‘कन्’ प्रत्ययविधानम् भवितुम् न अर्हति । अतएव आचार्यः अत्र ‘ईकन्’ इति प्रत्ययं पाठयति । अत्र द्वे वार्त्तिके ज्ञातव्ये - 1. <!केवलायाश्चेति वक्तव्यम् !> । इत्युक्ते, केवलात् ‘खारी’शब्दात् अपि आर्हीय-अर्थेषु ईकन्-प्रत्ययः भवति । खारी परिमाणमस्य तत् खारीकम् । 2. <! काकिण्याश्च उपसङ्ख्यानम्; केवलायाश्च!> । इत्युक्ते, ‘काकिणी’(=अन्तरस्य किञ्चन परिमाणम्) अस्य शब्दस्य विषये अध्यर्धपूर्व/द्विगुसमासात्, तथा च केवलात् ‘काकिणी’शब्दात् अपि सर्वेषु आर्हीय-अर्थेषु ईकन्-प्रत्ययः भवति । द्वे काकिण्यौ परिमाणमस्य तत द्विकाकिणीकम् । अध्यर्धया काकिण्या क्रीतमध्यर्धकाकिणीकम् । काकिणी परिमाणमस्य तत् काकिणीकम् । ज्ञातव्यम् - अध्यर्धपूर्व/द्विगुसमासस्य विषये आर्हीय-प्रत्ययस्य अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् (5.1.28) इत्यनेन वस्तुतः लुक्-भवति । परन्तु अत्र निर्देशसामर्थ्यात् लुकं बाधित्वा ईकन्-प्रत्ययः क्रियते ।

Sutrartha (English)

Vasu English Summary

The affix ईकन् (-/- -ईक) comes in the आर्हीय senses (5.1.37)-63 after the word खारी , when preceded by the word अध्यर्ध or a Numeral occasioning a द्विगु।

Vasu English Translation

The affix ईकन् (-/- -ईक) comes in the आर्हीय senses (5.1.37)-63 after the word खारी , when preceded by the word अध्यर्ध or a Numeral occasioning a द्विगु। Thus अध्यर्द्धखारीकम्, द्विखारीकम् ॥

Vart:- So also after the word खारी alone, as खारीकम् ॥

Vart:- So also after the word काकिणी, as, अध्यर्द्धकाकिणीकम्, द्विकाकिणीकम्, त्रिकाकिणीकम् ॥ So also when the word is alone: as, काकिणीकम् ॥

Bhashya

खार्या इर्कन् (1915) (ःइर्कन्प्रत्ययाधिकरणम्) (5625 इष्टाख्याने वार्तिकम्॥ 1 ॥) - खार्या इर्कन् केवलायाश्च - (भाष्यम्) खार्या इर्कन् केवलायाश्चेति वक्तव्यम्। खारीकम्॥ (5626 उपसंख्यानवार्तिकम्॥ 2 ॥) - काकिण्याश्चोपसंख्यानम् - (भाष्यम्) काकिण्याश्चोपसंख्यानं कर्तव्यम्। अध्यर्धकाकिणीकम्, द्विकाकिणीकम्॥ (5627 इष्टाख्याने वार्तिकम्॥ 3 ॥) - केवलायाश्च - (भाष्यम्) केवलायाश्चेति वक्तव्यम्। काकिणीकम्॥

Kashika

अध्यर्धपूर्वाद् द्विगोरित्येव। अध्यर्धपूर्वात् प्रातिपदिकाद् द्विगोश्च खारीशब्दान्तादार्हीयेष्वर्थेषु ईकन् प्रत्ययो भवति। अध्यर्धखारीकम्। द्विखारीकम्॥ केवलायाश्चेति वक्तव्यम्॥ खारीकम्॥ काकिण्याश्चोपसंख्यानम्॥ अध्यर्धकाकिणीकम्। द्विकाकिणीकम्। त्रिकाकिणीकम्॥ केवलायाश्च॥ काकिणीकम्॥

Siddhanta Kaumudi

अध्यर्धखारीकम् । द्विखारीकम् ।<!केवलायाश्चेति वक्तव्यम् !> (वार्तिकम्) ॥ खारीकम् ॥

Balamanorama

खार्या ईकन् - खार्या ईकन् ।अध्यद्र्धपूर्वा॑दिति द्विगोरिति चानुवर्तत इत्यभिप्रेत्योदाहरति — अध्यर्थखारीकं, द्विखारीकमिति ।तदस्य परिमाण॑मिति ठञि तस्य च लुकि प्राप्ते ईकन् ।

Tattvabodhini

खार्या ईकन् - खार्याः ।तदस्य परिमाण॑मिति ठञि प्राप्ते तस्य च लुकि प्राप्ते ईकन्विधीयते । कन्विधौकेऽणः॑इति ह्रस्वः स्यात् । इकन्विधावपियस्येति चे॑ति लोपादिष्टं न सिध्यतीति भावः ।

Padamanjari

खारि परिमाणमिति ठञि प्राप्ते तस्य च लुकि ईकन्विधीयते। केवलायाश्चेति। ठध्यर्द्धपूर्वद्विगोःऽ इत्यधिकारात्केवलाया न प्राप्नोतीति वचनम्। अथाध्यर्धपूर्वेति न सम्बध्येत, ततः केवलायामीकनश्चरितार्थत्वादध्यर्धपूर्वद्विगोर्लुक् प्राप्नोति, दीर्घोच्चारणं किमर्थं नेकनेवोच्येत, सवर्णदीर्घत्वे सति सिद्धम् ? यस्येतिलोपः प्राप्नोति, इकारोच्चारणसामर्थ्यान्न भविष्यति, अन्यथा कनमेव विदध्यात्,’के’ मःऽ इति ह्रस्वत्वे कृते सति सिद्धम्। अवग्रहः प्राप्नोति ? न लक्षणेन पदकारा अनुवर्त्त्याः, पदकारैर्नाम लक्षणमनुवर्त्यम् ॥

Prakriyasarvasvam

प्राग्वत् । अध्यर्धखारीकम् । द्विखारीकम् ।<!केवलायाश्च वाच्यम्!> (वा० ५-१-३३) । खारीकम् । ‘काकण्याश्च’ । अध्यर्धकाकणीकम् । द्विकाकणीकम् । काकणीकम् ॥

Vartika

केवलायाश्चेति वक्तव्यम् ।