51020: असमासे निष्कादिभ्यः ========================== **Padacheda:** अ-समासे | S | 7 | 1 | निष्क-आदिभ्यः | S | 5 | 3 | Sutrartha --------- **प्राग्वतीय-अर्थेषु 'तदर्हति' अर्थपर्यन्तम् ये अर्थाः पाठिताः सन्ति, तेषां विषये निष्कादिगणस्य शब्देभ्यः समासं विहाय अन्यत्र ठक्-प्रत्ययः भवति ।** **प्राग्वतेष्ठञ्** (5.1.18) अनेन सूत्रेण सर्वेषु प्राग्वतीय-अर्थेषु औत्सर्गिकरूपेण ठञ्-प्रत्ययः उच्यते । तं बाधित्वा प्रायः सर्वेभ्यः शब्देभ्यः आर्हीय-अर्थेषु **आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्** (5.1.19) इत्यनेन ठक्-प्रत्ययः विधीयते । परन्तु ये शब्दाः सङ्ख्यावाचिनः परिमाणवाचिनः वा सन्ति, तेषां विषये **आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्** (5.1.19) इत्यस्य प्रसक्तिः नास्ति, अतः तेषाम् विषये सर्वेषु आर्हीय-अर्थेषु अपि औत्सर्गिकः ठञ्-प्रत्ययः एव विधीयते । अयम् ठञ्-प्रत्ययः निष्कादिगणस्य शब्दानां विषये वर्तमानसूत्रेण बाध्यते, तथा च तस्य स्थाने ठक्-प्रत्ययविधानम् भवति । निष्कादिगणः अयम् - निष्क, पण, पाद, माष, वाह, द्रोण, षष्टि । अस्मिन् निष्कादिगणे सर्वे शब्दाः परिमाणवाचिनः सङ्ख्यावाचिनः वा सन्ति । अतः एतेषां सर्वेषां आर्हीय-अधिकारे विषये औत्सर्गिकरूपेण ठञ्-प्रत्ययविधानमेव जायते । परन्तु यदि निष्कादिगणस्य शब्दाः समासं विहाय अन्यत्र आर्हीय-अर्थेषु प्रयुज्यन्ते, तर्हि तेभ्यः ठक्-प्रत्ययः कर्तव्यः, न हि ठञ्-प्रत्ययः - इति वर्तमानसूत्रेण स्पष्टीभवति । यथा, 'निष्क' (सुवर्णमुद्रा) इति परिमाणवाची शब्दः । **तेन क्रीतम्** (5.1.37) इति प्रथमः आर्हीयः अर्थः । अस्मिन् अर्थे 'निष्केन क्रीतम्' इति स्थिते निष्क-शब्दात् ठञ्-प्रत्ययं बाधित्वा वर्तमानसूत्रेण ठक्-प्रत्ययः भवति । यथा - निष्क + ठक् → नैष्किक । निष्केन क्रीतम् नैष्किकम् रत्नम् । अन्यानि उदाहरणानि एतानि - 1. पणेन (ताम्रमुद्रया) क्रीतम् = पण + ठक् → पाणिक । 2. पादेन (मुद्रायाः 1/4-भागः पाद-नाम्ना ज्ञायते । यथा - 25 paisa) क्रीतम् = पाद + ठक् → पादिक । 3. माषेन (माष इति मापनस्य परिमाणम्) क्रीतम् = माष + ठक् → माषिक । 4. वाहः (जलस्य किञ्चन परिमाणम् - यथा liter etc) अस्य परिमाणम् = वाह + ठक् → वाहिक । अत्र **तदस्य परिमाणम्** (5.1.57) इति दशमः आर्हीयः अर्थः प्रयुक्तः अस्ति । 5. द्रोणः (= परिमाणवाचिशब्दः) यस्य परिमाणम् = द्रोण + ठक् → द्रौणिक । 6. षष्ट्या (= सङ्ख्यावाचिशब्दः) क्रीतम् = षष्टि + ठक् → षाष्टिक । परन्तु यदि निष्कादिगणस्य शब्दाः समासे विद्यन्ते, तर्हि वर्तमानसूत्रस्य प्रयोगः न भवतीति स्मर्तव्यम् । यथा, परमनिष्केन क्रीतम् = → परमनिष्क + ठञ् → परमनिष्क + इक [**ठस्येकः** (7.3.50) इति इक-आदेशः] → परमनैष्क + इक [**परिमाणान्तस्यासंज्ञाशाणयोः** (7.3.17) इति उत्तरपदवृद्धिः] → परमनैष्क् + इक [**यस्येति च** (6.4.148) इति अकारलोपः] → परमनैष्किक तथैव - 1. द्विपादेन क्रीतम् = द्विपाद + ठञ् → द्विपादम्। अत्र औत्सर्गिकस्य ठञ्-प्रत्ययस्य **अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्** (5.1.28) इत्यनेन लुक् भवति । 2. द्विषष्ट्या क्रीतम् = द्विषष्टि + ठञ् → द्विषाष्टिक । अत्र **संख्यायाः संवत्सरसंख्यस्य च** (7.3.15) इत्यनेन उत्तरपदवृद्धिः भवति । ज्ञातव्यम् - वस्तुतः **ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते** अनया परिभाषया प्रत्ययविधौ तदन्तविधिः नैव इष्यते, अतः 'निष्कादिभ्यः' इति उच्यते चेदपि 'परमनिष्क' आदिभ्यः शब्देभ्यः वर्तमानसूत्रस्य प्रसक्तिः तादृशी एव न स्यात् । तर्हि अत्र पुनः 'असमासे' इति किमर्थमुक्तम् - इति प्रश्नः जायते । अस्य उत्तरार्थम् काशिकायाम् भाष्ये च वार्त्तिकद्वयम् दीयते । तदित्थम् - 1. । इत्युक्ते, अस्मिन् सूत्रे 'असमास'ग्रहणम् 'पूर्वसूत्रेषु तदन्तविधिः अनुमन्यते' इत्यस्य ज्ञापकमस्ति । पूर्वसूत्रेषु इत्युक्ते कुत्र कुत्र ? सम्पूर्णा आवली तु शास्त्रेषु न विद्यते, परन्तु कानिचन उदाहरणानि एतानि - [1] प्राक्क्रीतीय-अधिकारे **उगवादिभ्यो यत्** (5.1.2) इत्यनेन उगवादिगणस्य शब्दानां विषये यः यत्-प्रत्ययः पाठ्यते, सः तदन्ते अपि भवति । यथा, गवे हितम् गव्यम्, सुगवे हितम् सुगव्यम् । [2] प्राक्क्रीतीय-अधिकारे **विभाषा हविरपूपादिभ्यः** (5.1.4) इत्यनेन यः यत्-प्रत्ययः पाठ्यते, सः तदन्ते अपि स्यात् । यथा, अपूपेभ्यो हितमपूप्यमपूपीयम् वा । यवापूपेभ्यो हितम् यवापूप्यपम् यवापूपीयम् वा । [3] प्राक्क्रीतीय-अधिकारे **शरीरावयवात् यत्** (5.1.6) इत्यनेन शरीरस्य अवयववाचिभ्यः शब्देभ्यः पाठितः यत्-प्रत्ययः तदन्तेभ्यः अपि भवति । दन्ताय हितम् दन्त्यम् ; राजदन्ताय हितम् राजदन्त्यम् । [4] प्राक्क्रीतीय-अधिकारे **खलयवमाषतिलवृषब्रह्मणश्च** (5.1.7) इत्यनेन उक्तः यत्-प्रत्ययः तदन्तेभ्यः अपि भवति । यथा - कृष्णतिलेभ्यो हितः कृष्णतिल्यः , राजमाषेभ्यो हितं राजमाष्यम् । 2. । इत्युक्ते, प्राग्वतीय-अधिकारे अपि सङ्ख्यापूर्वपदवाचिभ्यः अलुगन्तेभ्यः प्रातिपदकेभ्यः तदन्तविधिः भवति । यथा - [अ] **पारायणतुरायणचान्द्रायणं वर्तयति** (5.1.72) अस्मिन् अर्थे पारायणशब्दात् तु औत्सर्गिकः ठञ्-प्रत्ययः भवत्येव, परन्तु 'द्विपारायञण' शब्दात् अपि तदन्तविधिना ठञ्-प्रत्ययः एव भवति । द्विपारायणं वर्तयति सः द्वैपारायणिकः । यदि अत्र तदन्तविधिः न अभविष्यत्, तर्हि' द्विपारायणं वर्तयति' इत्यत्र कस्यापि प्रत्ययस्य प्रसक्तिः न अजनिष्यत - यतः **पारायणतुरायणचान्द्रायणं वर्तयति** (5.1.72) इत्यत्र पाठितः 'वर्तयति' इति अर्थः पारायण-तुरायण-चान्द्रायण-एतेभ्यः त्रिभ्यः प्रातिपदिकेभ्यः एव उक्तः अस्ति । [आ] 'अलुगन्तेभ्यः' इति किम् तत् पश्यामः - द्वाभ्यां शूर्पाभ्यां क्रीतम् = द्वि + शूर्प + अञ् [**तद्धितार्थोत्तरपदसमाहारे च** (2.1.51) इत्यनेन द्विगुः समासः, **शूर्पादञन्यतस्याम्** (5.1.26) इति अञ्-प्रत्ययः । अत्रापि सङ्ख्यापूर्वपदत्वात् तदन्तविधिना अञ्-प्रत्ययः भवति] → द्विशूर्प [**अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्** (5.1.28) इति अञ्-प्रत्ययस्य लुक्] एतादृशम् निर्मितः 'द्विशूर्प' अयम् शब्दः 'लुप्तप्रत्ययान्तः' अस्ति । अग्रे 'द्विशूर्पेण क्रीतम्' इति स्थिते द्विशूर्प-शब्दात् अपि तदन्तविधिना **शूर्पादञन्यतस्याम्** (5.1.26) इत्यनेन वैकल्पिकः अञ् भवेत् वा - इति प्रश्नः आगच्छति । अस्य उत्तरार्थम् काशिकाकारः वदति - 'लुगन्तायाः प्रकृतेः न इष्यते' । इत्युक्ते, अत्र प्रकृतिः स्वयं लुप्तप्रत्ययान्ता अस्ति, अतः अत्र तदन्तविधिः न कर्तव्यः, इति । अतः अत्र तु औत्सर्गिकः ठञ्-प्रत्ययः एव भवति । द्विशूर्पेण क्रीतम् द्विशौर्पिकम् । Vasu English Summary -------------------- The affix ठक् comes after the words निष्क etc., when they are not parts of a compound, the sense of the affix being that taught in the subsequent sutras up to (5.1.63). Vasu English Translation ------------------------ The affix ठक् comes after the words निष्क etc., when they are not parts of a compound, the sense of the affix being that taught in the subsequent sutras up to (5.1.63). The word आर्हात् is understood in this *sutra* also. This ठक् debars ठञ्. Thus नैष्किक꣡म्, पाणिक꣡म्, पादिक꣡म्, माषिक꣡म् ॥ Why do we say असमासे 'when not compounds'? Observe प꣡रमनैष्किकम् उ꣡त्तमनैष्किकम् formed by ठञ् (V. I.18.) Compare (7.3.17) by which the *Vriddhi* of the second term takes place and not of the first. Q. Is not the employment of the word असमासे in the *Sutra* redundant? For by the maxim ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति "that which cannot possibly be anything but a *pratipadika*, does, contrary to (1.1.72), not denote that which ends with it, but it denotes only itself;" the *pratipadika* निष्क being especially mentioned in the *sutra*, the rule will apply to the word निष्क and not to a word ending with निष्क ॥ A. The employment of the word असमासे in this *Sutra*, indicates by implication *jnapaka*), that in spite of the above maxim, the तदन्तविधिः (1.1.72) applies in the previous *sutras*, while in the subsequent *sutras* its does not. As उगवादिभ्यो यत् (5.1.2), the यत् applies not only to गो &c but to words ending in गो &c. As गव्यम् and सुगव्यम्, अतिसुगव्यम् ॥ Not only अपूप्यम् अपूपीयम् (V. I.4.) but also यवापूप्यम्, यवापूपीयम् ॥ Not only दन्त्यम् (5.1.6) but also राजदन्त्यम् ॥ While in the *sutras* subsequent to this (5.1.20), the *tadanta*-*vidhi* applies only to words preceded by a *Sankhya* and that also in *Sutras* upto (5.1.115) and not there after as, द्वैपारायणिकः and त्रैपारायणिक (5.1.72). Even in this latter case, when an affix is elided by लुक् the *tadanta* *vidhi* does not apply. Thus द्वाभ्यां शूर्पाभ्यां क्रीतं = द्वि शूर्प + ठञ् (V. I 18) = द्विशूर्पम्, the affix being elided by (5.1.28). Now in forming a tertiary derivative from this word द्विशूर्पम्, the *tadanta* *vidhi* will not apply. Thus द्विशूर्पेण क्रीतं, here what affix are we to subjoin? If *tadanta* *vidhi* applied, we get the affix अञ् (5.1.26) in the alternative. But *tadanta* *vidhi* not applying, we get the general affix ठञ् (5.1.8) and have द्विशौर्पिकम् ॥ Here the affix ठञ् is not elided by (5.1.28), as there is no *Dvigu* compounding. The above rule is summarised in the following *ishti* प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि ॥ The words 1. निष्क, 2. पण, 3. माष, 4. वाहद्रोण and 5. षष्टि belong to निष्कादि class. Bhashya ------- असमासे निष्कादिभ्यः (1902) (पदकृत्यभाष्यम्) असमास इति किमर्थम्? परमनिष्केण क्रीतम्-परमनैष्किकम्। नैतदस्ति। निष्कशब्दात्प्रत्ययो विधीयते, तत्र कः प्रसङ्गो यत्परमनिष्कशब्दात्स्यात्। नैव प्राप्नोति, नार्थः प्रतिषेधेन। तदन्तविधिना प्राप्नोति। ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते॥ अत उत्तरं पठति - (5613 असमासपदप्रयोजनवार्तिकम्॥ 1 ॥) - निष्कादिष्वसमासग्रहणं ज्ञापकं पूर्वत्र तदन्ताप्रतिषेधस्य - (भाष्यम्) निष्कादिष्वसमासग्रहणं क्रियते ज्ञापकार्थम्। किं ज्ञाप्यम्? एतज्ज्ञापयत्याचार्य्यः - पूर्वत्र तदन्तविधेः प्रतिषेधो न भवतीति। किमेतस्य ज्ञापने प्रयोजनम्? प्राग्वतेष्ठञ्ञ् (5.1.18) इत्यत्र तदन्तविधिः सिद्धो भवति॥ नैतदस्ति प्रयोजनम्। ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते, न च ठञ्ञ्विधौ काचित्प्रकृतिर्गृह्यते। इदं तर्हि प्रयोजनम् - आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् (5.1.19) - परमगोपुच्छेन क्रीतं पारमगोपुच्छिकम्। अत्र तदन्तविधिः सिद्धो भवति॥ एतदपि नास्ति प्रयोजनम्। विधौ प्रतिषेधः, प्रतिषेधश्चायम्। एवं तर्हि ज्ञापयत्याचार्यः - ःइत उत्तरं तदन्तविधेः प्रतिषेधो न भवतीति। किमेतस्य ज्ञापने प्रयोजनम्? पारायणतुरायणचान्द्रायणं वर्तयति (5.1.72) द्वैपारायणिकः, त्रैपारायणिकः। अत्र तदन्तविधिः सिद्धो भवति॥ एतदपि नास्ति प्रयोजनम्। वक्ष्यत्येतत् - प्राग्वतेः संख्यापूर्वंपदानां तदन्तग्रहणमलुकीति। पूर्वत्रैव तर्हि प्रयोजनम्। खलयवमाषतिलवृषब्रह्मणश्च (5.1.7) इति। कृष्णतिलेभ्यो हितः- कृष्णतिल्यः, राजमाषेभ्यो हितं - राजमाष्यम्॥ (5614 उपसङ्ख्यानवार्तिकम्॥ 2 ॥) - प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि - (भाष्यम्) प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि कर्तव्यम्। पारायणतुरायणचान्द्रायणं वर्तयति। द्वैपारायणिकः। त्रैपारायणिकः। अलुकीति किमर्थम्? द्वाभ्यां शूर्पाभ्यां क्रीतम् - द्विशूर्पम्, त्रिशूर्पम्। द्विशूर्पेण क्रीतम् - द्विशौर्पिकम्, त्रिशौर्पिकम्॥ Kashika ------- आर्हादित्येव। निष्कादिभ्यः शब्देभ्योऽसमासे ठक् प्रत्ययो भवत्यार्हीयेष्वर्थेषु। ठञोऽपवादः। नैष्किकम्। पाणिकम्। पादिकम्। माषिकम्। असमास इति किम्? द्विनैष्किकम्। त्रिनैष्किकम्। ठञेव भवति,**परिमाणान्तस्या०**(७.३.१७)इत्युत्तरपदवृद्धिः। अथ किमर्थमसमास इत्युच्यते, यावता **ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते**? निष्कादिष्वसमासग्रहणं ज्ञापकं पूर्वत्र तदन्ताप्रतिषेधस्य। **उगवादिभ्यो यत्** (५.१.२) — गव्यम्। सुगव्यम्। अतिसुगव्यम्। **विभाषा हविरपूपादिभ्यः** (५.१.४) — अपूप्यम्, अपूपीयम्। यवापूप्यम्, यवापूपीयम्। **शरीरावयवाद् यत्** (५.१.६) — दन्त्यम्, राजदन्त्यमित्येवमादि सिद्धं भवति। इत उत्तरं च संख्यापूर्वपदानां तदन्तविधिरिष्यते। **पारायणतुरायणचान्द्रायणं वर्तयति** (५.१.७२) — द्वैपारायणिकः। त्रैपारायणिकः। लुगन्तायास्तु प्रकृतेर्नेष्यते। द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम्। त्रिशूर्पम्। द्विशूर्पेण क्रीतमिति तदन्तविधिप्रतिषेधात् **शूर्पादञन्यतरस्याम्** (५.१.२६) इत्यञ् न भवति। सामान्यविहितष्ठञेव भवति। द्विशौर्पिकम्। ठञो द्विगुं प्रत्यनिमित्तत्वाद् लुगभावः। तथा चोक्तम् — **प्राग् वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि** (महाभाष्य — वा० ५.१.२०) इति॥ निष्क। पण। पाद। माष। वाह। द्रोण। षष्टि। निष्कादिः ॥ Siddhanta Kaumudi ----------------- आर्हादित्येतत् तेन क्रीतम् (SK1702) इति यावत्सप्तदशसूत्र्यामनुवर्तते । निष्कादिभ्योऽसमासे ठक्स्यादार्हीयेष्वर्थेषु । नैष्किकम् । समासे तु ठञ् ॥ Balamanorama ------------ **असमासे निष्कादिभ्यः** - असमासे । इति यावदिति ।तेनक्रिती॑मित्येतत्पर्यन्तमित्यर्थः । ठगिति । पूर्वसूत्रात्तदनुवृत्तेरिति भावः । आर्हीयेष्विति ।तदर्हती॑त्येतत्पर्यन्तमनुक्रान्तेषुतेन क्रीत॑मित्याद्यर्थेष्वित्यर्थः । नैष्किकमिति । निष्केण क्रीतमित्यर्थः । यथायोगं क्रीताद्यर्थान्वयः । समासे तु ठञ्ेव]इति । परमनिष्कादिशब्दादित्यर्थः । Tattvabodhini ------------- **असमासे निष्कादिभ्यः** - असमासे निष्कादिभ्यः । निष्क, पण, पाद, माष,वाह,द्रोण, षष्टि — इति सप्त निष्कादयः । तत्र द्रोणशब्दः परिमाणवाची, षष्टिशब्दः सङ्ख्यावाची, ताभ्यां ठञि प्राप्ते वचनम् । इतरेषां तु पञ्तानामुन्मानवाचित्वेन पूर्वसूत्रेणैव ठकि सिद्धे समासप्रतिषेधार्थं वचनमित्येके । अन्ये त्वाहुः — — पूर्वसूत्रे परिच्छेदकमात्रं सङ्ख्याभिन्नं परिमाणशब्देन गृह्रते । तेन सर्वेभ्यष्ठञि प्राप्ते ठग्विधानार्थं वचनम् । न चैवंपरिमाणं तु सर्वतः॑इति भेदेन व्युत्पादनं व्यर्थमिति वाच्यं,प्रमाणपरिमाणाभ्या सङ्ख्यायाश्चापि संशये॑इत्यादावस्योपयोगादिति पक्ष द्वयमप्येतत्पदमञ्जार्यां स्पष्टम् । Padamanjari ----------- ठञोऽपवाद इति। येन नाप्राप्तिन्यायेन निष्कादिभ्यो हि द्रोणपर्यन्तेभ्यः परिमाणशब्दात्षष्ठिशब्दाट्ठकः पर्युदासे ठञेव प्राप्नोति, अतस्तस्यैवायमपवादः। तदन्ताप्रतिषेधस्येति। तदन्तविधावप्रतिषेधस्येत्यर्थः। यदि तर्हि तदन्तात्प्रत्ययो विज्ञायते, एवं तर्हि'व्यपदेशिवद्भावो' प्रातिपदिकेनऽ इति केवलेभ्यो नोपपद्यते ? नैष दोषः; अस्मासग्रहणेन हि ग्रहणवत्परिभाषाया निवृत्तिराख्याता, तन्निवृतौ'येन विधिस्तदन्तस्य' इति तदन्तता, अत्र स्वस्य च रूपस्य प्रकृतत्वात्केवलादपि भवति। यस्तु मन्यते - पूर्वत्रोपादानसामर्थ्यात्केवलादपि स्यादिति, तस्य हि लाघवार्थं केवलानां पाठः स्यादिति यत् किञ्चिदेतत्। इत उतरं चेति। कथं पुनरिष्यमाणोऽपि तदन्तविधिर्लभ्यते, यावता'ग्रहणत्रता प्रातिपदिकेन तदन्तविधिर्न भवति' इति प्रतिष्ध्यते ? अस्याः परिभाषाया अनित्यत्वं च तस्या गर्गादिषु'वाजासे' इति समासप्रतिषेधाद् गम्यते। नित्यत्वे हि सति वाजशब्दादुत्प्द्यमानस्य प्रत्ययस्य समासे प्राप्तिरेव नास्तीति समासे प्रतिषेधं न कुर्यात्। द्विशूर्पमिति। द्वाभ्यां शूर्पाभ्यां क्रीतमिति तद्धितार्थे द्विगुं कृत्वा न तावगदेषा लुगन्ता प्रकृतिरिति'संख्यापूर्वपदादपि'शूर्पादञ्न्यतरस्याम्' इत्यञेव क्रियते, तस्य ठध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्' इति लुक्। द्विशोर्पिकमिति।'परिमाणान्तस्यासंज्ञाशाणयोः' इत्युतरपदवृद्धिः। यदुक्तम् - ठित उतरं संख्यापूर्वपदानं तदन्तविधिरिष्यतेऽ इति, यच्चोक्तम् -'लुगन्तायास्तु प्रकृतेर्नेष्यते' इति, तदुभयमाप्तागमेन स्थिरीकर्तुमाह - तथा चोक्तमित्यादिना ॥ Nyaas ----- `ठञोऽपवादः` इति। येन नाप्राप्तित्यायेन (व्या।प।49)। निष्कादिभ्यो द्रोणपर्यन्तेभ्यः परिमाणशब्दत्वात्? षष्ठिशब्दस्य संख्याशब्दत्वाट्ठकि पर्युदस्ते ठञेव प्राप्नोति, अतस्तस्यैवायमपवादः। `तेदन्ताप्रतिषेधस्य` इति तदन्तविधेरप्रतिषेधस्येत्यर्थः। यदि तर्हि तदन्तात्? प्रत्ययो विज्ञायते, एवं तर्हि `व्यपदेशिवद्भावोऽप्रातिपदिकेन` (शा।प।65) इति केवलेभ्य- प्रत्ययो नोपपद्यते? नैष दोषः; असमासगरहणेन हि ग्रहणवत्परिभाषाया (व्या।प।89) निवृत्तिराख्याता, निवृत्तायाञ्च **येन विधिस्तदन्तस्य** (1.1.72) इति तदन्ताद्भवति। तत्र च `स्वस्य च रूपस्य` (काशिका।1.1.73) इति प्रकृतत्वात्? केवलादपि भवति। यत्तु मन्यते-`अपूर्वोपादानसामर्थ्यात्? केवलादिति लाघवार्थं केवलानां पाठः स्यात्` इति, यत्किञ्चदेतत्। `इत उत्तरञ्च` इत्यादि। कथं पुनरिष्यमाणोऽपि तदन्तविधिर्लभ्यते, यावता `ग्रहणवता प्रातिपदिकेन तदन्तविधिर्न` (व्या।प।89) इति प्रतिषिध्यते? अस्याः परिभाषाया अनित्यत्वात्। अनित्यत्वं तु तस्या गर्गादिषु `वाजासे` इति समासे प्रत्ययप्रतिषेधाद्गम्यते। नित्यत्वे हि वाजशब्दादुत्पद्यमानस्य प्रत्ययस्य समासे प्राप्तिरेव नास्तीति प्रतिषेधं कुर्यात्। `द्विशूर्पम्` इति। द्वाभ्यां शूर्पाभ्यां क्रीतमिति तद्धितार्थे द्विगुं कृत्वा। न तावदेषा लुगन्ता प्रकृतिरिति संख्यापूर्वपदादपि **शूर्पादञन्यतरस्याम्** (5.1.26) इत्यञेव क्रियते, तस्य `अव्यद्र्धपूर्वद्विगोर्लुगसंज्ञायाम्` (5.1.28) इति लुक्। `द्विशौर्पिकम्` इति। **परिमाणान्तस्यासंज्ञाशाणयोः** (7.3.17) इत्युत्तरपदवृद्धिः। यदुक्तम् - `संख्यापूर्वपदानां तदन्तविधिरितीष्यते` इति, यच्चोक्तम् - `लुगन्तायास्तु प्रकृतेर्नेष्यते` इति, तदुभयमाप्तागमेन स्थिरीकर्त्तुमाह - `तथा चोक्तम्` इत्यादि॥`कनोऽपवादः` इति। उत्तरसूत्रेण प्राप्तस्य। `शतिकम्` इति। **तदस्य परिमाणम्** (5.1.57) इति वर्तमाने **संख्यायाः संज्ञासंघसूत्राध्ययनेषु** (5.1.58) इति सङ्घे प्रत्ययार्थे विविक्षित उत्तरसूत्रेण कन्नेव भवति। `प्रत्ययार्थोऽत्र सङ्घः` इति। शतमध्यायानां परिमाणं यस्य निदानख्यग्रन्थस्य, स चेह प्रत्ययार्थः। स च शतसंख्याव्यवच्छिन्नाव्यायसमुदायात्मक इति सङ्घ एव परत्ययार्तो भवति। `शतमेव वस्तुतः` इति। अव्यायशतस्यानन्यार्थत्वात् ततस्च प्रकृत्यर्थात्? न भिद्यते। तदेव ह्रध्यायानां शतं प्रकृत्याभिधीयते, प्रत्ययान्तेनापि तदेवेति नेह प्रकृत्यर्थात्? प्रत्ययार्थभेदः। तदेतेन यत्र चाव्यतिरिक्तः प्रकृत्यार्थात्? प्रत्ययार्थस्तत्र प्रतिषेधो भविष्यति। न च व्यतिरिक्त इत्येतदाख्यातम्। ननु च `सङ्घे चानौत्तराधर्ये` (3.3.42) , **संख्यायाः संज्ञासंघसूत्राध्ययनेषु** (5.1.58) इत्यत्र च प्राणिसमूहे सङ्घशब्दो गृह्रते, ततर कथं ग्रन्थविषयो गृह्रते/ उपचारेणेत्यदोषः। यदि वा संख्यासूत्रे संज्ञाशब्दसाहचर्याद्विशिष्टः सङ्घो गृह्रते। `सङ्घे चानौत्तराधर्ये` इत्यत्रापि **छन्दोनाम्नि च** (8.3.94) इत्यतो नामग्रहणानुवृत्तेः प्राणिसङ्घो गृह्रते। इह तु यत्वाभावाद्? गन्थस्यापि ग्रहणमित्यविशेषः। `इह तु` इत्यादि। ननु च शतेऽभिधेये प्रतिषेधेन भवितव्यम्, इह च शतद्यं शाटकशतम्, शतिकं शाटकशतमित्युक्ते शतं प्रतीयत एव, तत्किमिति प्रतिषेधो न भवति? इत्याह - `वाक्येन` इत्यादि। शत्यशतिकशब्दौ हि सायान्यशब्दौ, सामान्यशब्दाश्च न प्रकरणादिकमन्तरेण विशेषे वर्तन्ते। तेन यावच्छाटकशतिमित्येतत्पदान्तरं न प्रयुज्यते, तावत्? प्रत्ययार्थस्य शतत्वं नावसीयते। तस्मात्? पदान्तरसन्निधौ गम्यमानत्वात्? पदान्तरार्थो भवति, न प्रत्यायार्थः। `न श्रुत्या` इति। गम्यत इति सम्बन्धः। यत्र प्रत्ययान्तेन पदान्तरनिरपेक्षेण प्रत्ययार्थस्य शतताऽऽख्यायते, तत्र श्रुत्या प्रत्ययान्तश्रवणमात्रेणैव गम्यते, यथा - प्रत्युदाहरणे शतं परिमाणमस्य शतकमित्युक्ते गम्यत एवैतत् - प्रत्ययार्थोऽपि शतमेवेति। इह तु वाक्याच्छतत्वं प्रतीयते। न च पदसंस्कारकाले वाक्यार्थस्तयाङ्गभावोऽस्ति। तदा तस्योपसर्जनत्वात्? प्रकृत्यर्थादतिरिक्ते प्रत्ययार्थे प्रतिषेधो भवति, न तु व्यतिरिक्तवाक्यगम्य इति। तदाप्तवचनेन द्रढयितुमाह - `तथा चोक्तम्` इत्यादि। शतप्रतिषेधे कर्तव्ये प्रकृत्यर्थादन्यस्य प्रत्ययार्थस्य शतत्वेऽप्रतिषेध इत्येतदुक्तं भवति। तत्रान्यत्? प्रकृत्यर्थः शतम्, अन्यत्? प्रत्ययार्थः शतम्। तत्र विधिरेव भवति; न प्रतिषेध इति। केन पनः समासे प्राप्नोति, यतस्तत्प्रतिषेदार्थोऽसमासानुकर्षणार्थश्चकारः क्रियते? इत्याह - `प्राग्वतेः` इत्यादि॥ Prakriyasarvasvam ----------------- एभ्यो समास एव ठक् । निष्कपणपादमाषवाहद्रोणषष्टिभ्यः (स० ५-१-४) । निष्कादयः परिमाणभेदा वक्ष्यन्ते । नैष्किकं, पाणिकमित्यादि । समासे तु ठञ् ॥ Vartika ------- इत ऊर्ध्वं तु संख्यापूर्वपदानां तदन्तग्रहणं प्राग्वतेरिष्यते तच्चालुकि ।