51018: प्राग्वतेष्ठञ् ===================== **Padacheda:** प्राक् | S | 0 | 0 | वतेः | S | 5 | 1 | ठञ् | S | 1 | 1 | Sutrartha --------- **प्राक्-वतीय-अर्थेषु ठञ्-प्रत्ययः औत्सर्गिकरूपेण भवति ।** तद्धिताधिकारे पाठितेभ्यः पञ्च-महोत्सर्गेभ्यः पञ्चम (अन्तिमः) महोत्सर्गः अस्मात् सूत्रात् आरभ्यते । वर्तमानसूत्रतः **तेन तुल्यं क्रिया चेद्वतिः** (5.1.115) इति यावत्सु सूत्रेषु आहत्य सप्तविंशतिः अर्थाः पाठिताः सन्ति । एते सर्वे अर्थाः 'प्राक्-वतीय-अर्थाः' नाम्ना ज्ञायन्ते । एतेषां सर्वेषाम् विषये औत्सर्गिकरूपेण ठञ्-प्रत्ययः भवति । अस्य ठञ्-प्रत्ययस्य अपवादरूपेण भिन्नैः सूत्रैः भिन्नासु अवस्थासु विविधानाम् प्रत्ययानाम् विधानम् क्रियते । ठञ्-प्रत्ययस्य कानिचन उदाहरणानि - अ) शूर्पेण क्रीतम् = शूर्प + ठञ् = शौर्पिक आ) योजनं शतं गच्छति = योजन + ठञ् = यौजनिक इ) मासं ब्रह्मचर्यं यस्य = मास + ठञ् = मासिक प्रक्रिया इयम् - शूर्प + ठञ् → शूर्प + इक [**ठस्येकः** (7.3.50) इति ठकारस्य इक-आदेशः] → शौर्प + इक [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] → शौर्प् + इक [**यस्येति च** (6.4.148) इति अकारलोपः] → शौर्पिक 27 प्राग्वतीयाः अर्थाः एते - 1. **तेन क्रीतम्** (5.1.37) 2. **तस्य निमित्तं संयोगोत्पातौ** (5.1.38) 3. **तस्येश्वरः** (5.1.42) 4. **तत्र विदित इति च** (5.1.43) 5. **तस्य वापः** (5.1.45) 6. **तदस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयते** (5.1.47) 7. **तद्धरति वहत्यावहति भाराद्वंशादिभ्यः** (5.1.50) 8. **सम्भवत्यवहरति पचति** (5.1.52) 9. **सोऽस्यांशवस्नभृतयः** (5.1.56) 10. **तदस्य परिमाणम्** (5.1.57) 11. **तद् अर्हति** (5.1.63) 12. **पारायणतुरायणचान्द्रायणं वर्तयति** (5.1.72) 13. **संशयमापन्नः** (5.1.73) 14. **योजनं गच्छति** (5.1.74) 15. **उत्तरपथेनाहृतं च** (5.1.77) 16. **तेन निर्वृत्तम्** (5.1.79) 17. **तमधीष्टो भृतो भूतो भावी** (5.1.80) 18. **षष्टिकाः षष्टिरात्रेण पच्यन्ते** (5.1.90) 19. **तेन परिजय्यलभ्यकार्यसुकरम्** (5.1.93) 20. **तदस्य ब्रह्मचर्यम्** (5.1.94) 21. **तस्य च दक्षिणा यज्ञाख्येभ्यः** (5.1.95) 22. **तत्र च दीयते कार्यं भववत्** (5.1.96) 23. **सम्पादिनि** (5.1.99) 24. **तस्मै प्रभवति** (5.1.101) 25. **समयस्तदस्य प्राप्तम्** (5.1.104) 26. **प्रकृष्टे ठञ्** (5.1.108) 27. **प्रयोजनम्** (5.1.109) Sutrartha (English) ------------------- The ठञ् प्रत्यय is used as a default for the प्राग्वतीय meanings. Vasu English Summary -------------------- Up to sutra (5.1.115) (excluding that) the affix ठञ् (+/- इक or +/- क) bears rule. Vasu English Translation ------------------------ Up to sutra (5.1.115) (excluding that) the affix ठञ् (+/- इक or +/- क) bears rule. The affix ठञ् governs all the succeeding *sutras* upto तेन त्य्ल्यं क्रिय चेद्वात, and has the senses given to it in *Sutras* (5.1.37) &c. Strictly speaking the affix ठञ् governs only upto (5.1.110) and not upto (5.1.115). Thus in *Sutra* (5.1.72), the affix ठञ् must be read as पारायणिकः, तौरायणिकः, चान्द्रायणिकः ॥ Kashika ------- **तेन तुल्यं क्रिया चेद् वतिः** (५.१.११५) इति वक्ष्यति। प्रागेतस्माद् वतिसंशब्दनाद् यानित ऊर्ध्वमनुक्रमिष्यामः, ठञ् प्रत्ययस्तेष्वधिकृतो वेदितव्यः। वक्ष्यति — **पारायणतुरायणचान्द्रायणं वर्तयति** (५.१.७२) — पारायणिकः। तौरायणिकः। चान्द्रायणिकः॥ Siddhanta Kaumudi ----------------- तेन तुल्यम् (SK1778) इति वर्तिं वक्ष्यति ततः प्राक्ठञधिक्रियते ॥ Laghu Siddhanta Kaumudi ----------------------- तेन तुल्यमिति वतिं वक्ष्यति, ततः प्राक् ठञधिक्रियते ॥ Balamanorama ------------ **प्राग्वतेष्ठञ्** - अथ आर्हीयाः । प्राग्वतेः । वतिशब्दस्तद्धटितसूत्रपरः । तदाह — तेन तुल्यमिति ।तेनतुल्य॑मित्यतः प्राग्येषु सूत्रेषु अर्था एव निर्दिश्यन्ते नतु प्रत्ययाः, तत्र ठञित्युपतिष्ठत इति यावत् । Tattvabodhini ------------- **प्राग्वतेष्ठञ्** - प्राग्वतेष्ठञ् ।ठ॑ञित्येव वक्तव्येप्राग्वते॑रिति वचनं मध्ये योऽगदिकारवानपवादः,सर्वभूमिपृथिवीभ्यामणञौ॒॑शीर्षच्चेदाद्यच्चे॑त्येवमादिः, तेन विच्छेदेऽपिपारायणतुरायणे॑त्यादौ ठञेव यथा स्यादित्येवमर्थम् । न चैवं पारायणादिसूत्र एव ठञ्निर्दिश्यतामिति वाच्यम्, उत्तरसूत्रे येषां पर्युदासः क्रियते गोपुच्छादीनां तेभ्याष्ठञः प्रकृतसूत्रं विनाऽलाभात् । तथा च गौपुच्छिकः साप्ततिक इत्यादौ ठञर्थमिदं सूत्रमत्र प्रदेशे आरब्धमिति बोध्यम् । Padamanjari ----------- वक्ष्यति पारायणतुरायणेति। अत्र तु प्रदेशेऽस्य करणमुतरसूत्रे येषां पर्यु दासस्तेभ्यष्ठञ्यथा स्यादिति - गौपुच्छिकः, साम्प्रतिकः। ठञित्येवाधिकारे सिद्धे'प्राग्वतेः' इति वचनं मध्ये योऽधिकारवानपवादः'सर्वभूमिपृथिवीभ्यामणञौ' ,'शीर्षच्छेदाद्यच्च' इत्येवमादिस्तेन विच्छेदेऽपि'पारायणतुरायण' इत्येवमादौ ठञेव यथा स्यादित्येवमर्थम्। यद्यप्यत्र प्रत्ययोऽवधित्वेन गृहीतः, तथाप्यर्थेष्वेवोपतिष्ठते, न तु प्रकृतिषु; तेनापवादविषये न भवति। तता च'शूर्पादञन्यतरस्याम्' इत्यन्यतरस्यांग्रहणमर्थवद्भवति ॥ Nyaas ----- प्राग्वचनं **शीर्षच्छेदाद्यच्च** (5.1.65) , **दण्डादिभ्यः** (5.1.66) इत्येवमादिनाधिकारवता ठञि विच्चिन्ने **पारायणतुरायणचान्द्रायणं वर्तयति** (5.1.72) इत्येवमादावर्थनिर्देशे ठञेव यथा स्यादित्येवमर्थम्॥ Prakriyasarvasvam ----------------- ये तेन क्रीतमित्याद्या अर्था वतिविधेः पुरा । ठञधिक्रियते तेषु ठगादिरहिते स्थले ॥ २९२ ॥ सप्तत्या क्रीतं साप्ततिकम् । प्रास्थिकम् ॥