51013: छदिरुपधिबलेर्ढञ् ======================= **Padacheda:** छदिर्-उपधि-बलेः | S | 5 | 1 | ढञ् | S | 1 | 1 | Sutrartha --------- **चतुर्थीसमर्थात् विकृतिवाचकेभ्यः 'छदिष्', 'उपधि', 'बलि' एतेभ्यः शब्देभ्यः कारणभूतां प्रकृतिं निर्देशयितुम् ढञ्-प्रत्ययः भवति ।** **तदर्थम् विकृतेः प्रकृतौ** (5.1.12) इत्यत्र पाठितस्य औत्सर्गिकस्य छ-प्रत्ययस्य अपवादरूपेण 'छदिष्' (= गृहस्य छत्रम्), 'उपधि' (रथस्य चक्रम्), तथा 'बलि' (यज्ञे यस्य आहूतिः दीयते तत्) एतेभ्यः चतुर्थीसमर्थेभ्यः शब्देभ्यः ढञ्-प्रत्ययः भवति । 1. छदिषः निर्माणम् तृणानां परिवर्तनेन भवति, द्वयोर्मध्ये 'तादर्थ्य'सम्बन्धः अपि अस्ति - अतः 'छदिषे एतानि तृणानि' इत्यत्र 'छदिः' इति विकृतिः अस्ति, तृणम् इति प्रकृतिः अस्ति । अतः तृणानाम् निर्देशार्थम् 'छदिष्' शब्दात् ढञ्-प्रत्ययः भवति । छदिष् + ढञ् → छदिष् + एय [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति एय्-आदेशः] → छादिष् + एय [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] → छादिषेय छदिषे एतानि छादिषेयानि तृणानि । 2. 'उपधिः' (रथस्य चक्रम्) इत्यस्य निर्माणम् दारुणः (wood) भवति, अतः 'उपधये इदम् दारु' इत्यत्र दारुणः निर्देशार्थम् 'उपधि' शब्दात् ढञ्-प्रत्ययः भवति । उपधि + ढञ् → उपधि + एय [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति एय्-आदेशः] → औपधि + एय [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] → औपध् + एय [**यस्येति च** (6.4.148) इति अकारलोपः] → औपधेय । उपधये इदम् औपधेयम् दारु । अत्र एकं वार्त्तिकं ज्ञातव्यम् - - इत्युक्ते, 'उपधि' शब्दात् स्वार्थे अपि छ-प्रत्ययः भवति । उपधिः एव औपधेयम् । 3. 'बलिः' (यज्ञे दीयमाना आहूतिः) तण्डुलैः निर्मीयते । अत्र 'बलिः' इति विकृतिः, तण्डुलाः इति प्रकृतिः । अतः 'बलये एते तण्डुलाः' इत्यत्र तण्डुलानाम् निर्देशार्थं बलि-शब्दात् ढञ्-प्रत्ययः भवति । बलि + ढञ् → बलि + एय [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति एय्-आदेशः] → बालि + एय [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] → बाल् + एय [**यस्येति च** (6.4.148) इति अकारलोपः] → बालेय बलये एते बालेयाः तण्डुलाः । विशेषः - 'प्रकृतिः', 'विकृतिः' तथा 'तदर्थम्' - एतेषामर्थः **तदर्थम् विकृतेः प्रकृतौ** (5.1.12) इत्यत्र विस्तारेण प्रोक्तः अस्ति, सः तत्रैव द्रष्टव्यः । Vasu English Summary -------------------- The affix ढञ् (+/- एय) comes, in the sense of a primitive serviceable for a product after the words छदिस् , उपधि and बालि, denoting the product. Vasu English Translation ------------------------ The affix ढञ् (+/- एय) comes, in the sense of a primitive serviceable for a product after the words छदिस् , उपधि and बालि, denoting the product. This debars छ. Thus छादिषेयाणि तृणानि, औषधेयं दारु, बालेयास्तण्डुलाः ॥ The affix comes after the word उपाधि without changing the sense. उपधीयत इत्युपधिः = रथांगम् 'part of a wheel between the nave and the circumference or the wheel istelf'. The word औषधेय also means the same. Bhashya ------- छदिरुपधिबलेर्ढञ्ञ् (1895) (ढञ्ञोऽधिकरणम्) (5607 आक्षेपवार्तिकम्॥ 1 ॥) - उपध्यर्थमिति प्रत्ययानुपपत्तिरुपध्य भावात् - (भाष्यम्) उपध्यर्थमिति प्रत्ययस्यानुपपत्तिः। किं कारणम्? उपध्यभावाद्। विकृतेः प्रकृतावभिधेयायां प्रत्ययेन भवितव्यम्, न चोपधिसंज्ञिकाया विकृतेः प्रकृतिरस्ति। यद्धि तद्रथाङ्गं तदौपधेयमित्युच्यते॥ (5608 एकदेशिसमाधानवार्तिकम्॥ 2 ॥) - सिद्धं तु कृदन्तस्य स्वार्थेऽञ्ञ्वचनात् - (भाष्यम्) सिद्धमेतत्। कथम्? कृदन्तस्य स्वार्थे अञ्ञ्वक्तव्यः। उपधीयते - उपधेयम्, उपधेयमेवौपधेयम्। सिद्ध्यति। सूत्रं तर्हि भिद्यते॥ (सिद्धान्तभाष्यम्) यथान्यासमेवास्तु। ननु चोक्तम् - उपध्यर्थमिति प्रत्ययानुपपत्तिरुपध्यभावात् इति। नैतदस्ति। अयमुपधिशब्दोऽस्त्येव कर्मसाधनः - उपधीयते - उपधिरिति। अस्ति भावसाधनः - उपधानमुपधिरिति। तद्यो भावसाधनस्तस्येदं ग्रहणम्। एवमपि न सिध्यति। किं कारणम्? विकृतेः प्रकृताविति वर्तते। प्रकृतिविकृतिग्रहणं निवर्तिष्यते। तच्चावश्यं निर्वत्यम्, इहार्थमुत्तरार्थं च। इहार्थं तावत् - बालेयास्तण्डुलाः। उत्तरार्थम् - ऋषभोपानहोर्ञ्ञ्यः (5.1.14) आर्षभ्यो वत्स इति॥ (अनुवृत्तिनिश्चायकभाष्यम्) अथ तदर्थमित्यनुवर्तते, उताहो न। किं चार्थोऽनुवृत्त्या? बाढमर्थः - तदस्य तदस्मिन् स्यादिति (5.1.16) तदर्थे यथा स्यात्, इह मा भूत् - प्रासादो देवदत्तस्य स्यादिति, प्राकारो नगरस्य स्यादिति। यदि तदर्थमित्यनुवर्तते ऋषभोपानहोर्ञ्ञ्यः ऋषभार्थः घासः, उपानदर्थस्तिलकल्क इत्यत्रापि प्राप्नोति। एवं तर्हि - अनुवर्तते प्रकृतिविकृतिग्रहणम्। ननु चोक्तं बल्यृषभयोर्न सिध्यतीति। कं पुनर्भवान् विकारं मत्वाऽऽह - वल्यृषभयोर्न सिध्यतीति? (विकारपदार्थबोधकं भाष्यम्) यदि तावद्यः प्रकृत्युपमर्देन भवति स विकारः, वैभीतिको यूपः, खादिरं चषालमिति न सिध्यति। अथ मतमेतत्तदेव गुणान्तरयुक्तं विकार इति, बल्यृषभयोरपि सिद्धं भवति। गुणान्तरयुक्ता हि तण्डुला बालेयाः, गुणान्तरयुक्तश्च वत्स आर्षभ्यः। औपधेयं तु न सिध्यति। वचनात्स्वार्थिको भविष्यति॥ Kashika ------- छदिरादिभ्यः शब्देभ्यो ढञ् प्रत्ययो भवति तदर्थं विकृतेः प्रकृतावित्येतस्मिन् विषये। छस्यापवादः। छादिषेयाणि तृणानि। औपधेयं दारु। बालेयास्तण्डुलाः। उपधिशब्दात् स्वार्थे प्रत्ययः। उपधीयत इत्युपधिः रथाङ्गम्। औपधेयमपि तदेव दारु॥ Siddhanta Kaumudi ----------------- छादिषेयाणि तृणानि । बालेयास्तण्डुलाः । (वार्तिकम्) ॥ उपधीयत इत्युपधी रथाङ्गं तदेव औषधेयम् ॥ Balamanorama ------------ **छदिरुपधिबलेः ढञ्** - छदिरुपधिबलेर्ढञ् । छदिष्, उपधि, बलि-एषां समाहारद्वन्द्वे सौत्रं पुस्त्वम् । एभ्यस्तादथ्र्यचतुथ्र्यन्तेभ्यः प्रकृतौ वाच्यायां ढञित्यर्थः । छादिषेयाणीति । छदिस्तृणपटलः । तस्मै इमानीति विग्रहः । छदिरर्थानीत्यर्थः । ढञि एयादेशे षात्परत्वाण्णत्वम् । बालेयास्तण्डुला इति । बलये इमे इति विग्रहः । बल्यर्था इत्यर्थः ।करोपहारयोः पुंसि बलि॑रित्यमरः ।भागधेयः करो वलि॑रिति च । उपधिशब्दादिति । वार्तिकमिदम् । उपधीयते इति । अक्षदण्डाग्रे उपधीयते=प्रोतं क्रियते इत्युपधिः । 'उपसर्गे घोः किः' इति धाञः किप्रत्ययः ।आता लोप इटि चे॑त्याल्लोपः । उपधी रथाङ्गमिति । तथा भाष्यादिति भावः । Tattvabodhini ------------- **छदिरुपधिबलेः ढञ्** - छदिरुपधि । समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । छस्यापवादोऽयम् । छादिषेयाणीति । छाद्यतेऽनेनेति छदिः ।अर्चिशुचिहुसृपिच्छादिच्छर्दिभ्य इसिः॑ ।इस्मन्त्रन्क्विषु च॑इति ह्रस्वत्वम् । यदा तु चर्मविकारश्छदिस्तदा परत्वात्चर्मणोऽ॑ञित्यञ् प्राप्नोति । पूर्वविप्रतिषेधेन तु ढञेवेष्यते । छादिषेयं चर्म । आह चयञ्ञ्यावञः पूर्वविप्रतिषिद्धम्ढञ् चे॑ति । यत उदाहरणं स्त[स]नङ्गव्यं । स्त[स]नङ्गुश्चर्मविकारस्तदर्थं चर्म ।उगवादिभ्यः॑इति यत् । ञ्यस्योदाहरणमौपानह्रमिति अनुपदं वक्ष्यति । बालेया इति ।करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्तरिया॑मित्यमरः ।उपधिशब्दात्स्वार्थे इष्यते । उपधिरिति ।उपसर्गे घोः कि॑रिति धाञःकिः ।॒आतो लोप इति चे॑त्यलोपः विप्रतिषेधेनेति ।यञ्ञ्यावञ॑इत्यादिवार्तिकेनेत्यर्थः । ननु ढञ्विधौ छदिरित्यस्य, ञ्यविधौ उपानहश्च विशिष्य ग्रहणेनप्रतिपदोक्तं बलीयः॑इति सिद्धे किमनेन पूर्वविप्रतिषेधेन । अत्राहुः — ॒निरवकाशत्वे सत्येव प्रतिपदविधित्वं बलीयस्त्वे प्रयोजकं॑, न तु सावकाशत्वे॑इत्यनेन मुनिवचनेनाऽनुमीयते । तेनस्वम्पि तडाकानि॑इत्येव युक्तं, परत्वान्नुम्प्वृत्तेः । प्रतिपदोक्तत्वाद्दीर्घमाश्रित्यस्वाम्पि तडाकानी॑ति मतं दुर्बलम् ।अप्तृन् इति दीर्घस्यआपस्तिष्ठन्ती॑त्युदाहरणे सावकाशतया प्रतिपदोक्तत्वस्याऽबलीयस्त्वादिति । Padamanjari ----------- छाद्यतेऽनेनेति च्छदिः, ठर्चिशुचिहुसृपिच्चदिभ्य इसिःऽ ठिस्मन्त्रन्क्विषु चऽ इति ह्रस्वत्वम्। छादिषेयाणि तृणानीति। यधा तु चर्मविकारश्च्छदिस्तदा परत्वात्'चर्मणो' ञ्ऽ इत्यञप्राप्नोति, तत्र पूर्वविप्रतिषेधेन ढञेवेष्यते-छादिषेयं चर्मेति, आह च'यञ्ञ्यावञः पूर्वविप्रतिषेधेन ढञ्च' इति। वृत्तिकारेण तु प्रतिपदविधेर्बलीयस्त्वान्नैतदुपन्यस्तमित्याहुः। नेति व्यम्; ढञोऽपि छादिषेयाणि तृणानीत्यत्र चरितार्थत्वात्। बालेयास्तण्कडुला इति। कथं पुनरत्र प्रकृतिविकृतिभावः, यदा बल्यवस्थायामपि त एव तण्कडुलाः ? नावश्यं यत्प्रकृत्युपमर्दनेनैव भवति स एव विकारः, तदेव गुणान्तरयुक्तमपि विकारः। अस्ति च बल्यवस्तायां हरिद्रायोगेन तण्डुलानां गुंणान्तरयोगः, अन्ततः प्रक्षालनेन श्वैत्यमार्द्रता मार्दवं सान्निवेशविशेषो वा भवति। उपधिशब्दात्स्वार्थे प्रत्यय इति। इष्टिरेषा। किं पुनः कारणमधिकारप्राप्तो नेष्यते ? इत्या - उपधीयत् इत्युपधिरित्यादि। यदेव हि तद्रथाङ्गमुपधीयमानत्वादुपधिशब्देन कर्मणि किप्रत्ययान्तेनोच्यते, यद्यपि तस्य प्रकृतिरस्ति, तथापि तत्र न ढञन्तं वर्तते, किं तर्हि? तत्रैव हि रथाङ्गे। स्वभावश्चात्र हेतुः, न च तदेव तस्य प्रकृतिर्भवति, अतः स्वार्थे प्रत्यय एषितव्यः। अथायमुपधानमुपधिरिति ? क्रियावचन उपधिशब्दस्तादर्थ्यमपि सम्भवति, उपधानक्रियार्थत्वाद् द्रव्यस्येत्युच्यते। एवमपि क्रियाविकारो न भवति, क्रियापि विकारो बवति; बहुविकारोऽयं मनुष्यो हसति नृत्यति गायतीति दर्शनात् ? सत्यम्;'तदर्थ विकृतेः प्रकृतौ' इत्यत्र तु विशिष्ट एव प्रकृतिविकारभावो गृह्यते - यत्र प्रकृतेरुच्छेदः, यत्र वा रूपान्तरापतिः। अत एव तत्र विवक्षितः प्रकृतिविकारभाव इत्युक्तम् ॥ ऋषबोपानहोर्ञ्यः ॥ Nyaas ----- यदा छदिश्चर्मविकारो विवक्ष्यते तदापि ढञेवेष्यते - छादिषेयं चर्मेति। ननु च परत्वात्? **चर्मणोऽञ्** (5.1.15) इत्यञ्? प्राप्नोति? नैष दोषः; `चर्मणोऽञ्` इत्यत्र छदिषो ढञनुवर्त्तिष्यते। यथा छदिःशब्दाद्वलिशब्दाच्चतुर्थीसमर्थात्? प्रकृतिविकारभावे प्रत्यय उपजायते, तथोपधिंशब्दादपि भवतिव्यमित्याशङ्क्याह - `उपधिशब्दात्` इत्यादि। अत्र युक्तिमाह - `उपधीयते` इत्यादि। तेन `कर्मण्युपसर्गे घोः किः` इति दर्शयति। तेन च द्रव्यस्यानासादितोत्तरावस्थस्याभिधानम्। यद्युपधिंशब्दाद्विकृतिवाचिनः स्यात्, एवमर्थान्तरे स्यात्। न चासौ प्रकृतिविशेषे भवति। न तूपधिशब्दाद्वाच्यस्य प्रत्यान्तरस्य प्रकृतिविकारभावोऽस्ति, अबेदात्। तथा हि - यदेव रथाङ्गमुपधिशब्देनोच्यते तदेवानासादितोत्तरावस्थमौपधेयशब्देनापि। स्यादेतत् - यदा भावसाधन उपधिंशब्द उपधानमुपधिरिति तदा नास्ति भेदः, क्रियाभिधानात्; यदाप्युपधिशब्देन क्रियाद्रव्यस्य विकार उच्यते तदौपधेयशब्देन च तत्प्रकृति द्रव्यम्, अतः प्रकृतिविशेषे परप्रत्ययौ भविष्यतीति? एतच्चायुक्तम्; न हि क्रियाद्रव्यस्य विकारो युज्यते; अत्यन्तभेदात्। तस्मात्? स्थार्थं एवोपधिंशब्दात्? प्रत्ययो विज्ञायते॥ Sutra Prayogas -------------- * **बालेयं** (रघुवंशम्): `छदिरुपधिबलेर्ढञ्` इति ढञ्प्रत्ययः।