44143: शिवशमरिष्टस्य करे

Padacheda: शिव-शम्-अरिष्टस्य | S | 6 | 1 |

करे | S | 7 | 1 |

Sutrartha

‘करोति’ अस्मिन् अर्थे षष्ठीसमर्थात् ‘शिव’शब्दात्, ‘शम्’शब्दात्, ‘अरिष्ट’शब्दात् च वेदेषु संज्ञायाः विषये तातिल्-प्रत्ययः कृतः दृश्यते ।

‘करे’ इति ‘कर’ इत्यस्य सप्तम्येकवचनम् । कृ-धातोः अच्-प्रत्ययं कृत्वा ‘कर’ इति प्रातिपदिकं सिद्ध्यति । करोति सः करः । अस्मिन्नेव अर्थे ‘शिव’, ‘शम्’ तथा ‘अरिष्ट’ - एतेभ्यः शब्देभ्यः वेदेषु संज्ञायाः विषये तातिल्-प्रत्ययः कृतः दृश्यते । 1. शिवस्य करः = शिवम् करोति सः = शिव + तातिल् → शिवताति । 2. शमः करः = शमं करोति सः = शम् + ताति → शन्ताति । 3. अरिष्टस्य करः = अरिष्टं करोति सः = अरिष्ट + ताति = अरिष्टताति । वेदेषु प्रयोगः - 1. (शिवताति) - पैप्पलादसंहिता (अथर्ववेदः) 5.36.1 - ये भौमा भूम्या अधि संबभूवुस्ते त्वा न हिंसाञ्छिवतातिरस्तु ते । 2. (शन्ताति) - ऋग्वेदः 8.18.7 - उ॒त स्या नो॒ दिवा॑ म॒तिरदि॑तिरू॒त्या ग॑मत् । सा शंता॑ति॒ मय॑स्कर॒दप॒ स्रिध॑: ॥ 3. (अरिष्टताति) - ऋग्वेदः 10.60.8 - ए॒वा दा॑धार ते॒ मनो॑ जी॒वात॑वे॒ न मृ॒त्यवेऽथो॑ अरि॒ष्टता॑तये ॥ ज्ञातव्यम् - 1. सूत्रे विद्यमानः ‘शिव-शम्-अरिष्टस्य’ इति प्रथमः शब्दः षष्ठीसामर्थ्यम् निर्देशयति । 2. ‘तातिल्’ इत्यत्र लकारः इत्संज्ञकः अस्ति, तस्य लोपं कृत्वा ‘ताति’ इत्यवशिष्यते ।

Vasu English Summary

The affix तातिल् comes in the छन्दस् (Vedas) after the words 1. शिव 2. शम् and 3. अरिष्ट in the Genitive 6th-Case in construction when the sense is ‘he does’.

Vasu English Translation

The affix तातिल् comes in the छन्दस् (Vedas) after the words 1. शिव 2. शम् and 3. अरिष्ट in the Genitive 6th-Case in construction when the sense is ‘he does’. The word करः is equivalent to करोति formed by अच् (3.1.134)

This shows that the construction must be genitive. With a krit-formed word, it has accusative force, as, शिवस्य करः = शिवं करोति ॥

Thus शिवस्य करः = शिवतातिः, So श॑तातिः and अरिष्टतातिः ॥ As याभिः॒ शन्ता॑ती॒ भव॑थो ददा॒शुषे॑ (Rig I.112.20) शंताती being dual of शन्तातिः, and meaning सुखस्य कर्तारौ; so also अथो अरिष्टतातये ॥

Kashika

करोतीति करः प्रत्ययार्थः। तत्सामर्थ्यलभ्या षष्ठी समर्थविभक्तिः। शिवादिभ्यः शब्देभ्यः षष्ठीसमर्थेभ्यः कर इत्येतस्मिन्नर्थे तातिल् प्रत्ययो भवति। शिवं करोतीति शिवतातिः (पै०सं०५.३६.१)। शंता॑तिः॒ (ऋ०८.१८.७)। अरि॒ष्टता॑तिः (ऋ०१०.६०.८)॥

Siddhanta Kaumudi

करोतीति करः । पचाद्यच् । शिवं करोतीति शिवतातिः । याभिः शन्ताती भवथो ददादुषे (याभिः॒ शन्ता॑ती॒ भव॑थो द॒दा॒दुषे॑) । अथो अरिष्टतातये (अथो॑ अरि॒ष्टता॑तये ॥

Prakriyasarvasvam

एभ्यः करेऽर्थे तातिल् । शिवंकरः, शिवतातिः । शन्तातिः । अरिष्टतातिः क्षेमकृत् ॥