44142: सर्वदेवात् तातिल्

Padacheda: सर्व-देवात् | S | 5 | 1 |

तातिल् | S | 1 | 1 |

Sutrartha

‘सर्व’ शब्दात् तथा च ‘देव’शब्दात् वेदेषु संज्ञायाः विषये स्वार्थे ‘तातिल्’ प्रत्ययः कृतः दृश्यते ।

‘सर्व’ तथा ‘देव’ एताभ्याम् शब्दाभ्याम् स्वार्थे (स्वस्य अर्थे एव) तातिल्-प्रत्ययः वेदेषु संज्ञायाः विषये कृतः दृश्यते । ‘तातिल्’ इत्यस्मिन् प्रत्यये लकारः इत्संज्ञकः अस्ति, तस्य लोपं कृत्वा ‘ताति’ इत्यवशिष्यते । सर्वः एव = सर्व + तातिल् → सर्वताति । देवः एव = देव + तातिल् → देवताति । वेदेषु प्रयोगः - 1. (सर्वताति-शब्दप्रयोगः) ऋग्वेदः 10.36.14 - स॒वि॒ता न॑: सुवतु स॒र्वता॑तिं सवि॒ता नो॑ रासतां दी॒र्घमायु॑: । 2. (देवताति-शब्दप्रयोगः) ऋग्वेदः 3.19.2 - प्र॒द॒क्षि॒णिद्दे॒वता॑तिमुरा॒णः सं रा॒तिभि॒र्वसु॑भिर्य॒ज्ञम॑श्रेत् ।

Vasu English Summary

The affix तातिल् comes in the छन्दस् (Vedas) after the words 1. सर्व and 2. देव without altering the meaning.

Vasu English Translation

The affix तातिल् comes in the छन्दस् (Vedas) after the words 1. सर्व and 2. देव without altering the meaning. As सर्वतातिः and देवतातिः in the following hymns : “सविता नः सुवतु सर्वतातिम् and प्रदक्षिणिद्देवतातिर्मुराणः ॥

Kashika

सर्वदेवशब्दाभ्यां तातिल् प्रत्ययो भवति छन्दसि विषये स्वार्थिकः। स॒र्वता॑तिम् (ऋ०१०.३६.१४)। दे॒वता॑तिम् (ऋ०३.१९.२)॥

Siddhanta Kaumudi

स्वार्थे । सविता नः सुवतुसर्वतातिम् (स॒वि॒ता नः॑ सुवतु स॒र्वता॑तिम्) । प्रदक्षिणिद्देवतातिमुराणः (प्र॒द॒क्षि॒णिद्दे॒वता॑तिमुरा॒णः) ॥

Balamanorama

सर्वदेवात् तातिल् - शम्याः ष्लञ् । शमीशब्दो गौरादिङीषन्तः, तस्मात्षष्ठन्तादवयवे विकारे च ष्लञ् स्यादित्यर्थः । षकारलकारावितौ ।अनुदात्तादेश्चे॑त्यञो ।ञपवादः । शामीलं भस्मेति । शम्या विकार इत्यर्थः । शामीली रुआउगिति । शम्या विकार इत्यर्थः । वरुणप्रघासेषु शमीमय्यः रुआउचः प्रसिद्धाः । अवयवे तु शामीली शाखा ।

Prakriyasarvasvam

लः स्वरार्थः । सर्व एव सर्वतातिः । देवतातिः ।