44144: भावे च¶
Padacheda: भावे | S | 7 | 1 |
च | S | 0 | 0 |
Sutrartha¶
‘भावः’ अस्मिन् अर्थे षष्ठीसमर्थात् शिव-शब्दात्, शम्-शब्दात् तथा अरिष्ट-शब्दात् वेदेषु संज्ञायाः विषये तातिल्-प्रत्ययः कृतः दृश्यते ।
वेदेषु संज्ञायाः विषये ‘भावः’ अस्मिन् अर्थे षष्ठीसमर्थात् ‘शिव’शब्दात्, ‘शम्’शब्दात् तथा ‘अरिष्ट’शब्दात् तातिल्-प्रत्ययः कृतः दृश्यते । शिवस्य भावः = शिव + तातिल् → शिवताति । शमः भावः = शम् + तातिल् → शन्ताति । अरिष्टस्य भावः = अरिष्ट + तातिल् → अरिष्टताति । वेदेषु प्रयोगः - (सामवेद-पूर्वार्चिकम् 2.1.1.6) - सा शन्ताता मयस्करदप स्रिधः । अत्र ‘शन्ताति’ शब्दस्य सप्तम्येकवचने ‘ङि’ प्रत्ययस्य सुपां सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः (7.1.39) इति डा-आदेशं कृत्वा अङ्गस्य टेः (6.4.143) इति टिलोपे कृते ‘शन्ताता’ इति रूपम् सिद्ध्यति । ‘शमः यः भावः, तस्मिन्’ इत्यर्थः । ज्ञातव्यम् - 1. सूत्रे अनुवर्तमानः ‘शिव-शम्-अरिष्टस्य’ इति प्रथमः शब्दः षष्ठीसामर्थ्यम् निर्देशयति । 2. ‘तातिल्’ इत्यत्र लकारः इत्संज्ञकः अस्ति, तस्य लोपं कृत्वा ‘ताति’ इत्यवशिष्यते । स्मर्तव्यम् - तद्धिताधिकारे ये पञ्च महोत्सर्गाः पाठ्यन्ते, तेषु तृतीयः महोत्सर्गः (यदधिकारः) - यस्य प्रारम्भः प्राग्घिताद्यत् (4.4.75) इत्यत्र भवति - सः अत्र समाप्यते ।
Vasu English Summary¶
The affix तातिल् comes in the छन्दस् (Vedas) after the words 1. शिव 2. शम् and 3. अरिष्ट in the Genitive 6th-Case in construction, the sense being that of condition.
Vasu English Translation¶
The affix तातिल् comes in the छन्दस् (Vedas) after the words 1. शिव 2. शम् and 3. अरिष्ट in the Genitive 6th-Case in construction, the sense being that of condition. Thus शिवस्य भावः = शिवतातिः ‘the condition of blissfulness’. शन्तातिः ‘the state of happiness or peace’, अरिष्टतातिः ॥ Here these words have the force of Verbal noun.
Kashika¶
भावे चार्थे छन्दसि विषये शिवादिभ्यस्तातिल् प्रत्ययो भवति। शिवस्य भावः शिवतातिः (पै०सं०५.३६.१)। शंता॑तिः॒ (ऋ० ८.१८.७) । अरि॒ष्टता॑तिः (ऋ०१०.६०.८)। यतः पूर्णोऽवधिः। अतः परमन्यः प्रत्ययोऽधिक्रियते॥
॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ चतुर्थाध्यायस्य चतुर्थः पादः॥
Siddhanta Kaumudi¶
शिवादिभ्यो भावे तातिः स्याच्छन्दसि । शिवस्य भावः शिवतातिः । शन्तातिः । अरिष्टतातिः ॥
Prakriyasarvasvam¶
शिवत्वमेव शिवतातिरित्यादि ॥ इति यद्भागः ॥ शं ताती भवथः । अथोऽरिष्टतातये ।