44143: शिवशमरिष्टस्य करे ======================== **Padacheda:** शिव-शम्-अरिष्टस्य | S | 6 | 1 | करे | S | 7 | 1 | Sutrartha --------- **'करोति' अस्मिन् अर्थे षष्ठीसमर्थात् 'शिव'शब्दात्, 'शम्'शब्दात्, 'अरिष्ट'शब्दात् च वेदेषु संज्ञायाः विषये तातिल्-प्रत्ययः कृतः दृश्यते ।** 'करे' इति 'कर' इत्यस्य सप्तम्येकवचनम् । कृ-धातोः अच्-प्रत्ययं कृत्वा 'कर' इति प्रातिपदिकं सिद्ध्यति । करोति सः करः । अस्मिन्नेव अर्थे 'शिव', 'शम्' तथा 'अरिष्ट' - एतेभ्यः शब्देभ्यः वेदेषु संज्ञायाः विषये तातिल्-प्रत्ययः कृतः दृश्यते । 1. शिवस्य करः = शिवम् करोति सः = शिव + तातिल् → शिवताति । 2. शमः करः = शमं करोति सः = शम् + ताति → शन्ताति । 3. अरिष्टस्य करः = अरिष्टं करोति सः = अरिष्ट + ताति = अरिष्टताति । वेदेषु प्रयोगः - 1. (शिवताति) - पैप्पलादसंहिता (अथर्ववेदः) 5.36.1 - ये भौमा भूम्या अधि संबभूवुस्ते त्वा न हिंसाञ्छिवतातिरस्तु ते । 2. (शन्ताति) - ऋग्वेदः 8.18.7 - उ॒त स्या नो॒ दिवा॑ म॒तिरदि॑तिरू॒त्या ग॑मत् । सा शंता॑ति॒ मय॑स्कर॒दप॒ स्रिध॑: ॥ 3. (अरिष्टताति) - ऋग्वेदः 10.60.8 - ए॒वा दा॑धार ते॒ मनो॑ जी॒वात॑वे॒ न मृ॒त्यवेऽथो॑ अरि॒ष्टता॑तये ॥ ज्ञातव्यम् - 1. सूत्रे विद्यमानः 'शिव-शम्-अरिष्टस्य' इति प्रथमः शब्दः षष्ठीसामर्थ्यम् निर्देशयति । 2. 'तातिल्' इत्यत्र लकारः इत्संज्ञकः अस्ति, तस्य लोपं कृत्वा 'ताति' इत्यवशिष्यते । Vasu English Summary -------------------- The affix तातिल् comes in the छन्दस् (Vedas) after the words 1. शिव 2. शम् and 3. अरिष्ट in the Genitive 6th-Case in construction when the sense is 'he does'. Vasu English Translation ------------------------ The affix तातिल् comes in the छन्दस् (Vedas) after the words 1. शिव 2. शम् and 3. अरिष्ट in the Genitive 6th-Case in construction when the sense is 'he does'. The word करः is equivalent to करोति formed by अच् (3.1.134) This shows that the construction must be genitive. With a *krit*-formed word, it has accusative force, as, शिवस्य करः = शिवं करोति ॥ Thus शिवस्य करः = शिवतातिः, So श॑तातिः and अरिष्टतातिः ॥ As याभिः॒ शन्ता॑ती॒ भव॑थो ददा॒शुषे॑ (*Rig* I.112.20) शंताती being dual of शन्तातिः, and meaning सुखस्य कर्तारौ; so also अथो अरिष्टतातये ॥ Kashika ------- करोतीति करः प्रत्ययार्थः। तत्सामर्थ्यलभ्या षष्ठी समर्थविभक्तिः। शिवादिभ्यः शब्देभ्यः षष्ठीसमर्थेभ्यः कर इत्येतस्मिन्नर्थे तातिल् प्रत्ययो भवति। शिवं करोतीति शिवतातिः (पै०सं०५.३६.१)। शंता॑तिः॒ (ऋ०८.१८.७)। अरि॒ष्टता॑तिः (ऋ०१०.६०.८)॥ Siddhanta Kaumudi ----------------- करोतीति करः । पचाद्यच् । शिवं करोतीति शिवतातिः । याभिः शन्ताती भवथो ददादुषे (याभिः॒ शन्ता॑ती॒ भव॑थो द॒दा॒दुषे॑) । अथो अरिष्टतातये (अथो॑ अरि॒ष्टता॑तये ॥ Prakriyasarvasvam ----------------- एभ्यः करेऽर्थे तातिल् । शिवंकरः, शिवतातिः । शन्तातिः । अरिष्टतातिः क्षेमकृत् ॥