44132: ख च

Padacheda: ख | S | | | 1

च | S | 0 | 0 |

Sutrartha

यस्य आदौ ‘वेशस् ‘/ ‘यशस्’ अस्ति तथा च यस्य अन्ते ‘भग’ अस्ति तादृशात् प्रथमासमर्थात् मत्वर्थे वेदेषु संज्ञायाः विषये ख-प्रत्ययः भवति ।

आदौ पदपरिचयः - 1. ‘मतुप्’ इति कश्चन तद्धितप्रत्ययः । तदस्यास्त्यस्मिन्निति मतुप् (5.2.94) इत्यनेन ‘तत् अस्य अस्मिन् वा अस्ति’ अस्मिन् अर्थे मतुप्-प्रत्ययः विधीयते , अतः अयमर्थः ‘मत्वर्थः’ नाम्ना अपि ज्ञायते । 2. ‘वेशस्’ इत्युक्ते बलम् । ‘यशस्’ इत्युक्ते पराक्रमः । ‘भग’ इत्यस्य ‘श्रीकाम’, ‘प्रयत्न’, ‘माहात्म्य’, ‘वीर्य’, ‘यशः’ एते अर्थाः सन्ति । यस्य शब्दस्य आदौ वेशस् / यशस् इति विद्यते, तथा अन्ते ‘भग’ इति विद्यते, तादृशात् शब्दात् मत्वर्थे वेदेषु संज्ञायाम् वेशोयशआदेर्भगाद्यल् (4.4.131) इत्यनेन यल्-प्रत्यये प्राप्ते वर्तमानसूत्रेण ‘ख’ प्रत्ययः अपि कृतः दृश्यते । यथा - 1. वेशश्च भगश्च वेशोभगः । वेशोभगः अस्मिन् अस्ति सः = वेशोभग + ख → वेशोभगीन । 2. यशश्च भगश्च यशोभगः । यशोभगः अस्मिन् अस्ति सः = यशोभग + ख → यशोभगीन । ज्ञातव्यम् - यदि वेशोयशआदेर्भगाद्यल् (4.4.131) इत्यत्रेव ख-प्रत्ययस्य विधानम् क्रियेत तर्हि ‘यथासङ्ख्यत्वात्’ ‘वेशादि’शब्दात् यल्-प्रत्ययविधानम् तथा च ‘यशादि’शब्दात् ख-प्रत्ययविधानम् भवेत् । परन्तु अत्र उभाभ्यामपि शब्दाभ्यामाचार्यः द्वावपि प्रत्ययौ पाठयितुम् इच्छति । अतएव ख-प्रत्ययविधानार्थम् ‘ख च’ इति भिन्नसूत्रस्य निर्माणम् कृतमस्ति ।

Vasu English Summary

The affix ख comes after the words 1. वेशोभग and 2. यशोभग in the छन्दस् (Vedas) with the force of मतुप्।

Vasu English Translation

The affix ख comes after the words 1. वेशोभग and 2. यशोभग in the छन्दस् (Vedas) with the force of मतुप्। Thus देशोभगीनः and यशोभगीनः ॥ This sutra has been separated from last in order to prevent the application of the यथासंख्य rule (1.3.10). For had the sutra been वेशोयश आदेर्भगाद् यल्खौ, as it occurs in Siddhanta Kaumudi, then the affix यल् would apply to देशोभग, and the affix ख to यशोभगः which is not what is intended. Another reason for making it a distinct aphorism is that the anuvritti of ख runs in the next sutra, not so of यल् ॥

Kashika

वेशोयशआदेर्भगान्तात् प्रातिपदिकाद् मत्वर्थे खः प्रत्ययो भवति। योगविभागो यथासंख्यनिरासार्थ उत्तरार्थश्च। चकाराद् यत्। वेशोभगीनः। वेशोभग्यः। यशोभगीनः। यशोभग्यः॥

Siddhanta Kaumudi

योगविभाग उत्तरार्थः क्रमनिरासार्थश्च ॥

Padamanjari

योगविभाग इत्यादि । केचित्पुनरेकमेव योगमधीयते । तथा च -‘यथासंख्यामनुदेशः समानाम्’ प्रत्ययविध्यर्थो बहुवचननिर्देशः, बहुवचनान्तात् प्रत्ययोत्पतौ यथासंख्यमिष्यत इति । उतरार्थश्चेति । उतरत्र खस्यैवानुवृत्तिर्यथा स्यात्, यतो मा भूदिति ॥

Nyaas

योगविभागः इत्यादि। यदि पूर्वसूत्र एव खग्रहणं क्रियते; द्वे प्रकृती प्रत्ययावपि द्वावेवेति सामर्थ्याद्यथासंख्यं प्रसज्येत। तस्मात् तन्निरासार्थो योगविभागः।ननु यथासंख्यमनुदेशः समानाम् (1.3.10) इत्यत्र इह कस्मान्न भवति - वेशोयशञादेर्भगाद्यल् ख च इति दर्शयितवा स्वरितेन लिङ्गेन यथासंख्यमित्युक्तम्? तदेकयोगतामभ्युपेत्य। भवतु नामैकयोगः, तथापि यथासंख्यं न भवतीति दर्शनार्थम्, तत कुतो यथासंख्य निरासार्थो योगविभाग? अत आह - उत्तरार्थश्च इति॥

Prakriyasarvasvam

उक्तात् ख च स्यात् । वेशो भगीनः । यशो भगीनः ।