44133: पूर्वैः कृतमिनयौ च¶
Padacheda: पूर्वैः | S | 3 | 3 |
कृतम् | S | 1 | 1 |
इन-यौ | S | 2 | 1 |
च | S | 0 | 0 |
Sutrartha¶
तृतीयासमर्थात् ‘पूर्व’शब्दात् ‘कृतम्’ अस्मिन् अर्थे वेदेषु संज्ञायाः विषये ‘इन’, ‘य’ तथा ‘ख’ प्रत्ययाः कृताः दृश्यन्ते ।
‘पूर्वैः कृतम्’ अस्मिन् अर्थे तृतीयासमर्थात् ‘पूर्व’शब्दात् वेदेषु संज्ञायाः विषये ‘इन’, ‘य ‘तथा ‘ख’ - एते प्रत्ययाः कृताः दृश्यन्ते । 1. पूर्वैः कृतम् = पूर्व + इन → पूर्विण । 2. पूर्वैः कृतम् = पूर्व + य → पूर्व्य । 3. पूर्वैः कृतम् = पूर्व + ख → पूर्व + ईन [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति ईन्-आदेशः] → पूर्वीण । वेदेषु उदाहरणम् - (आश्वलायन-श्रौत्रसूत्रम् 2.7.9) अथैनान् प्रवाहयेत् परेतन पितरः सोम्यासो गम्भीरेभिः पथिभिः पूर्विणेभिः । (ज्ञातव्यम् - अत्र ‘पूर्विण’शब्दात् तृतीया-बहुवचनस्य भिस्-प्रत्यये कृते अतो भिस ऐस् (7.1.9) इत्यनेन ऐस्-आदेशे प्राप्ते बहुलं छन्दसि (7.1.10) इत्यनेन अयमादेशः न कृतः अपि दृश्यते ।) ज्ञातव्यम् - 1. अस्मिन् सूत्रे प्रथमः विद्यमानः शब्दः ‘पूर्वैः’ इत्यनेन तृतीयासामर्थ्यम् दर्श्यते, अतः सूत्रार्थे ‘तृतीयासमर्थात्’ इति निर्देशः कृतः अस्ति । 2. अस्मिन् सूत्रे ‘पूर्वैः’ इति बहुवचनान्तप्रयोगः कृतः अस्ति । अस्मिन् विषये काशिकाकारः वदति - ‘ पूर्वैः इति बहुवचनान्तेन पूर्वपुरुषाः उच्यन्ते’ । इत्युक्ते, अस्य सूत्रस्य प्रयोगः तत्रैव कृतः दृश्यते यत्र ‘पूर्व’ शब्दस्य अर्थः ‘पूर्वपुरुषः’ इति वर्तते । यथा, उपरिनिर्दिष्टे उदाहरणे ‘पूर्विण’ इत्युक्ते ‘पूर्वपुरूषैः कृतम् तत्’ ।
Vasu English Summary¶
The affixes इन , ख and य come in the sense of ‘made by them’ after the word पूर्व ‘fore-fathers’ in the Instrumental -3rd case in construction.
Vasu English Translation¶
The affixes इन , ख and य come in the sense of ‘made by them’ after the word पूर्व ‘fore-fathers’ in the Instrumental -3rd case in construction. The ख is read into the sutra by force of the word च; the anuvritti of मत्वर्थ ceases. Thus पूर्वैः कृतं = पूर्विणः ‘made by the ancestors’ i. e. a road. So also पूर्व्यः and पूर्वीणः ॥ The word पूर्वैः in the plural means पूर्वपुरुषाः “past generations, ancestors”. These words occur generally in the plural, and mean “roads widened by the forefathers”. Thus गम्भीरेभिः पथिभिः पूर्विणेभिः ॥ So also, ये ते पन्थाः सविताः पूर्व्यासः (Rig I.35. II) Another reading of this sutra is पूर्वैः कृतमिनियौच; the affixes then will be इनि (इन्), and य; and ख will be drawn in by virtue of च ॥ The examples then will be पूर्विन्; 3rd pl. पूर्विभिः (with इन्), as पथिभिः पूर्विभिः, or पूर्वीणैः (ख) or पूर्व्यैः (य) ॥
Kashika¶
मत्वर्थ इति निवृत्तम्। निर्देशादेव समर्थविभक्तिः। पूर्वशब्दात् तृतीयासमर्थात् कृतमित्येतस्मिन्नर्थ इन य इत्येतौ प्रत्ययौ भवतः। चकारात् ख च। गम्भीरे॑भिः पथि॑भिः पूर्विणे॑भिः(काठ०सं०९.६.१९)। पू॒र्व्यैः (तै०सं०१.८.५.२)। पूर्वीणैः। पूर्वैरिति बहुवचनान्तेन पूर्वपुरुषा उच्यन्ते। तत्कृताः पन्थानः प्रशस्ता इति पथां प्रशंसा॥
Siddhanta Kaumudi¶
गम्भीरेभिः पथिभिः पूर्विणेभिः (ग॒म्भी॒रेभिः॑ प॒थिभिः॑ पूर्वि॒णेभिः) । ये ते पन्थाः सवितः पूर्व्यासः (ये ते॒ पन्थाः॑ सवितः पूर्व्यासः॑) ॥
Padamanjari¶
बहुवचनान्तेनेत्यादि । बहुवचनान्तात्प्रत्ययविध्यर्थो बहुवचननिर्देशः । बहुवचनान्तात्प्रत्ययोत्पतौ यथा प्रशंसा गम्यते - पूर्वैर्बहुभिः क्रियत इति प्रतीतेः, तेन पूर्वशब्दश्च वृद्धेषु पुरुषेषु प्रवर्तत इत्यर्थः ॥
Nyaas¶
पूर्वः कृत मिनयौ च इति। ख एव यथा स्यात्, यन्मा भूत्। पूर्वैरिति बहुवचनान्तेन ` इत्यादि। `पथिभिः पूर्वैःर इत्येवमादिभिर्वेदवाक्यैः पूर्वपुरुषकृतत्वेनयदा प्रशंसां प्रतिपादयितुं निष्ठा साध्वेव शक्यते विज्ञातुम्, तदा पूर्वपुरुषाभिधायिनः पूर्वशब्दात् प्रत्यय उपपद्यते। तस्मात् पूर्वैरिति बहुवचनान्तेन पूर्वपुरुषा अभिधीयन्ते। छन्दसामर्थपरत्वाद्बहुवचनस्य।तेन पूर्वपुरुषाणां पन्था आस्थितः सम्पद्यत इति दर्शयितुमाह
Prakriyasarvasvam¶
पूर्वैः कृतमित्यर्थे इनयौ खश्च स्यात् । पूर्वपुरुषैः कृतमित्यर्थे पथिभिः । पूर्विणोभिः पूर्व्यैः । एवं पूर्विणः ।