44132: ख च ========== **Padacheda:** ख | S | | | 1 च | S | 0 | 0 | Sutrartha --------- **यस्य आदौ 'वेशस् '/ 'यशस्' अस्ति तथा च यस्य अन्ते 'भग' अस्ति तादृशात् प्रथमासमर्थात् मत्वर्थे वेदेषु संज्ञायाः विषये ख-प्रत्ययः भवति ।** आदौ पदपरिचयः - 1. 'मतुप्' इति कश्चन तद्धितप्रत्ययः । **तदस्यास्त्यस्मिन्निति मतुप्** (5.2.94) इत्यनेन 'तत् अस्य अस्मिन् वा अस्ति' अस्मिन् अर्थे मतुप्-प्रत्ययः विधीयते , अतः अयमर्थः 'मत्वर्थः' नाम्ना अपि ज्ञायते । 2. 'वेशस्' इत्युक्ते बलम् । 'यशस्' इत्युक्ते पराक्रमः । 'भग' इत्यस्य 'श्रीकाम', 'प्रयत्न', 'माहात्म्य', 'वीर्य', 'यशः' एते अर्थाः सन्ति । यस्य शब्दस्य आदौ वेशस् / यशस् इति विद्यते, तथा अन्ते 'भग' इति विद्यते, तादृशात् शब्दात् मत्वर्थे वेदेषु संज्ञायाम् **वेशोयशआदेर्भगाद्यल्** (4.4.131) इत्यनेन यल्-प्रत्यये प्राप्ते वर्तमानसूत्रेण 'ख' प्रत्ययः अपि कृतः दृश्यते । यथा - 1. वेशश्च भगश्च वेशोभगः । वेशोभगः अस्मिन् अस्ति सः = वेशोभग + ख → वेशोभगीन । 2. यशश्च भगश्च यशोभगः । यशोभगः अस्मिन् अस्ति सः = यशोभग + ख → यशोभगीन । ज्ञातव्यम् - यदि **वेशोयशआदेर्भगाद्यल्** (4.4.131) इत्यत्रेव ख-प्रत्ययस्य विधानम् क्रियेत तर्हि 'यथासङ्ख्यत्वात्' 'वेशादि'शब्दात् यल्-प्रत्ययविधानम् तथा च 'यशादि'शब्दात् ख-प्रत्ययविधानम् भवेत् । परन्तु अत्र उभाभ्यामपि शब्दाभ्यामाचार्यः द्वावपि प्रत्ययौ पाठयितुम् इच्छति । अतएव ख-प्रत्ययविधानार्थम् 'ख च' इति भिन्नसूत्रस्य निर्माणम् कृतमस्ति । Vasu English Summary -------------------- The affix ख comes after the words 1. वेशोभग and 2. यशोभग in the छन्दस् (Vedas) with the force of मतुप्। Vasu English Translation ------------------------ The affix ख comes after the words 1. वेशोभग and 2. यशोभग in the छन्दस् (Vedas) with the force of मतुप्। Thus देशोभगीनः and यशोभगीनः ॥ This *sutra* has been separated from last in order to prevent the application of the यथासंख्य rule (1.3.10). For had the *sutra* been वेशोयश आदेर्भगाद् यल्खौ, as it occurs in *Siddhanta* *Kaumudi*, then the affix यल् would apply to देशोभग, and the affix ख to यशोभगः which is not what is intended. Another reason for making it a distinct aphorism is that the *anuvritti* of ख runs in the next *sutra*, not so of यल् ॥ Kashika ------- वेशोयशआदेर्भगान्तात् प्रातिपदिकाद् मत्वर्थे खः प्रत्ययो भवति। योगविभागो यथासंख्यनिरासार्थ उत्तरार्थश्च। चकाराद् यत्। वेशोभगीनः। वेशोभग्यः। यशोभगीनः। यशोभग्यः॥ Siddhanta Kaumudi ----------------- योगविभाग उत्तरार्थः क्रमनिरासार्थश्च ॥ Padamanjari ----------- योगविभाग इत्यादि । केचित्पुनरेकमेव योगमधीयते । तथा च -'यथासंख्यामनुदेशः समानाम्' प्रत्ययविध्यर्थो बहुवचननिर्देशः, बहुवचनान्तात् प्रत्ययोत्पतौ यथासंख्यमिष्यत इति । उतरार्थश्चेति । उतरत्र खस्यैवानुवृत्तिर्यथा स्यात्, यतो मा भूदिति ॥ Nyaas ----- `योगविभागः` इत्यादि। यदि पूर्वसूत्र एव खग्रहणं क्रियते; द्वे प्रकृती प्रत्ययावपि द्वावेवेति सामर्थ्याद्यथासंख्यं प्रसज्येत। तस्मात् तन्निरासार्थो योगविभागः।ननु **यथासंख्यमनुदेशः समानाम्** (1.3.10) इत्यत्र इह कस्मान्न भवति - `वेशोयशञादेर्भगाद्यल् ख च` इति दर्शयितवा स्वरितेन लिङ्गेन यथासंख्यमित्युक्तम्? तदेकयोगतामभ्युपेत्य। भवतु नामैकयोगः, तथापि यथासंख्यं न भवतीति दर्शनार्थम्, तत कुतो यथासंख्य निरासार्थो योगविभाग? अत आह - `उत्तरार्थश्च` इति॥ Prakriyasarvasvam ----------------- उक्तात् ख च स्यात् । वेशो भगीनः । यशो भगीनः ।