44131: वेशोयशआदेर्भगाद्यल्¶
Padacheda: वेशस्-यशस्-आदेः | S | 5 | 1 |
भगात् | S | 5 | 1 |
यल् | S | 1 | 1 |
Sutrartha¶
यस्य आदौ ‘वेशस् ‘/ ‘यशस्’ अस्ति तथा च यस्य अन्ते ‘भग’ अस्ति तादृशात् प्रथमासमर्थात् मत्वर्थे वेदेषु संज्ञायाः विषये यल्-प्रत्ययः भवति ।
आदौ पदपरिचयः - 1. ‘मतुप्’ इति कश्चन तद्धितप्रत्ययः । तदस्यास्त्यस्मिन्निति मतुप् (5.2.94) इत्यनेन ‘तत् अस्य अस्मिन् वा अस्ति’ अस्मिन् अर्थे मतुप्-प्रत्ययः विधीयते , अतः अयमर्थः ‘मत्वर्थः’ नाम्ना अपि ज्ञायते । 2. ‘वेशस्’ इत्युक्ते बलम् । ‘यशस्’ इत्युक्ते पराक्रमः । ‘भग’ इत्यस्य ‘श्रीकाम’, ‘प्रयत्न’, ‘माहात्म्य’, ‘वीर्य’, ‘यशः’ एते अर्थाः सन्ति । यस्य शब्दस्य आदौ वेशस् / यशस् इति विद्यते, तथा अन्ते ‘भग’ इति विद्यते, तादृशात् शब्दात् मत्वर्थे वेदेषु संज्ञायाम् ‘यल्’ प्रत्ययः कृतः दृश्यते । यथा - 1. वेशश्च भगश्च वेशोभगः । वेशोभगः अस्मिन् अस्ति सः = वेशोभग + यल् → वेशोभग्य । 2. यशश्च भगश्च यशोभगः । यशोभगः अस्मिन् अस्ति सः = यशोभग + यल् → यशोभग्य । ज्ञातव्यम् - ‘यल्’ प्रत्ययस्य लकारः इत्संज्ञकः अस्ति । अस्य प्रयोजनम् ‘स्वरनिर्देशः’ इति । लिति (6.1.193) इत्यनेन लित्-प्रत्यये परे प्रत्ययात् पूर्वः स्वरः उदात्तत्वं प्राप्नोति । यथा, ‘वेशोभग्य’ तथा ‘यशोभग्य’ उभयत्र भकारोत्तरः अकारः उदात्तत्वं प्राप्नोति ।
Vasu English Summary¶
The affix थल् comes in the छन्दस् (Vedas) with the force of मतुप् after the word भग having the words 1. वेशस् or 2. यशस् in the beginning.
Vasu English Translation¶
The affix थल् comes in the छन्दस् (Vedas) with the force of मतुप् after the word भग having the words 1. वेशस् or 2. यशस् in the beginning. The ल् of यल् shows that the accent falls on the vowel preceding the affix (6.1.193). Thus वेशोभगो विद्यते यस्य स = देशोभ꣡ग्यः ‘strong-fortune’ so also यशोभ꣡ग्यः ‘famous-fortune’. The word वेश means strength’: भग means ‘fortune, desire, effort, greatness, virility and fame.’ The word वेशोभगः may be taken as a Dvandva compound of वेशस् ‘force’ and भगः ‘fortune.’ The word वेशोभग्यः would then mean ‘possessed of power and fortune.’
Kashika¶
मत्वर्थ इत्येव। वेशोयशसी आदौ यस्य प्रातिपदिकस्य तस्माद् वेशोयशआदेर्भगान्तात् प्रातिपदिकाद् मत्वर्थे यल् प्रत्ययो भवति। लकारः स्वरार्थः। वेशोभगो विद्यते यस्य स वेशोभग्यः। यशोभग्यः। वेश इति बलमुच्यते। श्रीकामप्रयत्नमाहात्म्यवीर्ययशस्सु भगशब्दः। वेशश्चासौ भगश्च श्रीप्रभृतिर्वेशोभगः, सोऽस्यास्तीति वेशोभग्यः॥
Siddhanta Kaumudi¶
यथासंख्यं नेष्यते । वेशो बलं तदेव भगः । वेशोभग्यः । वेशोभगीनः । यशोभग्यः । यशोभगीनः ॥
Nyaas¶
लित्करणं स्वरार्थम्॥
Prakriyasarvasvam¶
वेशो यशः पूर्वात् भगान्तान्मत्वर्थे यत् स्यात् । वेशो बलम् । भगः श्री प्रभृति । तद्वान् वेशो भग्यः । एवं यशो भग्यः ।