44107: समानतीर्थे वासी

Padacheda: समानतीर्थे | S | 7 | 1 |

वासी | S | 1 | 1 |

Sutrartha

‘वासी’ (निवसति) अस्मिन् अर्थे सप्तमीसमर्थात् ‘समानतीर्थ’ शब्दात् संज्ञायाः विषये यत्-प्रत्ययः भवति ।

‘तीर्थम्’ इत्युक्ते गुरुः (आचार्यः) । ‘समाने तीर्थे निवसति’ (= समानगुरोः समीपे अध्ययनम् करोति) अस्मिन् अर्थे ‘समानतीर्थ’ शब्दात् यत्-प्रत्ययः भवति । समानतीर्थे वासी = समानतीर्थ + यत् → सतीर्थ + यत् [तीर्थे ये (6.3.87) इति यत्-प्रत्यये परे तीर्थ-शब्दे उत्तरपदे ‘समान’ इत्यस्य ‘स’आदेशः भवति ।] → सतीर्थ् + य [यस्येति च (6.4.148) इति अकारलोपः] → सतीर्थ्य ययोः गुरुः समानः अस्ति, तौ ‘सतीर्थ्यौ’ नाम्ना ज्ञायेते ।

Vasu English Summary

The affix यत् comes in the sense of ‘resident therein’ after the word समानतीर्थ in the Locative -7th case construction.

Vasu English Translation

The affix यत् comes in the sense of ‘resident therein’ after the word समानतीर्थ in the Locative -7th case construction. The anuvritti of साधुः now ceases. The word तीर्थ means here गुरु ‘Preceptor’. Thus समाने तीर्थे वासी = सतीर्थ्यः (6.3.87)– ‘a fellow-student’, who both dwell under the same preceptor.

Kashika

साधुरिति निवृत्तम्। वासीति प्रत्ययार्थः। समानतीर्थशब्दात् तत्रेति सप्तमीसमर्थाद् वासीत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। समाने तीर्थे वासीति सतीर्थ्यः। समानोपाध्याय इत्यर्थः। तीर्थशब्देनेह गुरुरुच्यते॥

Siddhanta Kaumudi

साधुरीति निवृत्तम् । वसतीति वासी । समाने तीर्थे गुरौ वसतीति सतीर्थ्यः ॥

Balamanorama

समानतीर्थे वासी - समानतीर्थे वासी । समानतीर्थशब्दात्सप्तम्यन्ताद्वसतीत्यर्थे यत्स्यादित्यर्थः । वसतीति वासीति । ग्रह्रादेराकृतिगणत्वाण्णिनिः । तीर्थशब्दस्य विवरणं-गुराविति । सतीथ्र्य इति । समानतीर्थशब्दाद्यति ‘तीर्थे ये’ इति समानस्य सभावः ।

Tattvabodhini

समानतीर्थे वासी - समानतीर्थे वासी । निपातनाण्णिनिः, ग्रहादेराकृतिगणत्वान्नन्दिग्रहीत्यनेन वा । सतीथ्र्य इति ।तीर्थे ये॑इति सभावः । तरन्त्यनेनेति तीर्थम् ।तरतेस्थक् ।तीर्तं शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु । योनौ जलावतारे चे॑ति विआः । इह तूपाध्यायवाचिन एव ग्रहणं, नाऽन्यस्य, संज्ञाधिकारात् ।

Padamanjari

वसतीति वासी, निपातनाण्णिनिः, ग्रह्यादेराकृतिगणत्वाद्वा साधुरिति । निवृतमिति । तेन किं सिद्धं भवति ? इत्याह - वासीति प्रत्ययार्थ इति । साधुरित्यस्यानुवृतौ तु तस्यैव विशेषणं वासिग्रहणं स्यात् । तीर्थशब्देनेह गुरुरुच्यत इति । प्रयागादितीर्थसाधर्म्यात् । तरन्त्यनेनेति तीर्थम्, तरतेः क्थन् । मुख्यस्य तीर्थस्य ग्रहणं न भवति; संज्ञाधिकारात् ॥

Nyaas

वसतीति वासी। निपातनादेव णिनिः, ग्रहादिलक्षणो वा। अथ वा - वसनं वासः, सोऽस्यास्तीति वासी, मत्वर्थीय इति। अथ तत्र (4.4.98) इति वर्तमाने पुनः समानतीर्थेट इति सप्तम्युपादानं किमर्थम्? प्रकृतित्वेनेष्ठात् सप्तम्यन्ताद्यथा स्यात्; अनिष्टान्मा भूत्। एतेन गुरुवचनो यस्तीर्थशब्दस्तदन्तात् सप्तमीसमर्थात् प्रत्ययो भवति, न तु यः प्रयोगादिवचनस्तदन्तात्। अमुमेवार्थं चेतसि कृत्वाऽऽह - `तीर्थशब्देन गुरुरुच्यते इति॥

Prakriyasarvasvam

अत्रार्थे यत् ॥