44107: समानतीर्थे वासी ====================== **Padacheda:** समानतीर्थे | S | 7 | 1 | वासी | S | 1 | 1 | Sutrartha --------- **'वासी' (निवसति) अस्मिन् अर्थे सप्तमीसमर्थात् 'समानतीर्थ' शब्दात् संज्ञायाः विषये यत्-प्रत्ययः भवति ।** 'तीर्थम्' इत्युक्ते गुरुः (आचार्यः) । 'समाने तीर्थे निवसति' (= समानगुरोः समीपे अध्ययनम् करोति) अस्मिन् अर्थे 'समानतीर्थ' शब्दात् यत्-प्रत्ययः भवति । समानतीर्थे वासी = समानतीर्थ + यत् → सतीर्थ + यत् [**तीर्थे ये** (6.3.87) इति यत्-प्रत्यये परे तीर्थ-शब्दे उत्तरपदे 'समान' इत्यस्य 'स'आदेशः भवति ।] → सतीर्थ् + य [**यस्येति च** (6.4.148) इति अकारलोपः] → सतीर्थ्य ययोः गुरुः समानः अस्ति, तौ 'सतीर्थ्यौ' नाम्ना ज्ञायेते । Vasu English Summary -------------------- The affix यत् comes in the sense of 'resident therein' after the word समानतीर्थ in the Locative -7th case construction. Vasu English Translation ------------------------ The affix यत् comes in the sense of 'resident therein' after the word समानतीर्थ in the Locative -7th case construction. The *anuvritti* of साधुः now ceases. The word तीर्थ means here गुरु 'Preceptor'. Thus समाने तीर्थे वासी = सतीर्थ्यः (6.3.87)-- 'a fellow-student', who both dwell under the same preceptor. Kashika ------- साधुरिति निवृत्तम्। वासीति प्रत्ययार्थः। समानतीर्थशब्दात् तत्रेति सप्तमीसमर्थाद् वासीत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। समाने तीर्थे वासीति सतीर्थ्यः। समानोपाध्याय इत्यर्थः। तीर्थशब्देनेह गुरुरुच्यते॥ Siddhanta Kaumudi ----------------- साधुरीति निवृत्तम् । वसतीति वासी । समाने तीर्थे गुरौ वसतीति सतीर्थ्यः ॥ Balamanorama ------------ **समानतीर्थे वासी** - समानतीर्थे वासी । समानतीर्थशब्दात्सप्तम्यन्ताद्वसतीत्यर्थे यत्स्यादित्यर्थः । वसतीति वासीति । ग्रह्रादेराकृतिगणत्वाण्णिनिः । तीर्थशब्दस्य विवरणं-गुराविति । सतीथ्र्य इति । समानतीर्थशब्दाद्यति 'तीर्थे ये' इति समानस्य सभावः । Tattvabodhini ------------- **समानतीर्थे वासी** - समानतीर्थे वासी । निपातनाण्णिनिः, ग्रहादेराकृतिगणत्वान्नन्दिग्रहीत्यनेन वा । सतीथ्र्य इति ।तीर्थे ये॑इति सभावः । तरन्त्यनेनेति तीर्थम् ।तरतेस्थक् ।तीर्तं शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु । योनौ जलावतारे चे॑ति विआः । इह तूपाध्यायवाचिन एव ग्रहणं, नाऽन्यस्य, संज्ञाधिकारात् । Padamanjari ----------- वसतीति वासी, निपातनाण्णिनिः, ग्रह्यादेराकृतिगणत्वाद्वा साधुरिति । निवृतमिति । तेन किं सिद्धं भवति ? इत्याह - वासीति प्रत्ययार्थ इति । साधुरित्यस्यानुवृतौ तु तस्यैव विशेषणं वासिग्रहणं स्यात् । तीर्थशब्देनेह गुरुरुच्यत इति । प्रयागादितीर्थसाधर्म्यात् । तरन्त्यनेनेति तीर्थम्, तरतेः क्थन् । मुख्यस्य तीर्थस्य ग्रहणं न भवति; संज्ञाधिकारात् ॥ Nyaas ----- वसतीति वासी। निपातनादेव णिनिः, ग्रहादिलक्षणो वा। अथ वा - वसनं वासः, सोऽस्यास्तीति वासी, मत्वर्थीय इति। अथ `तत्र` (4.4.98) इति वर्तमाने पुनः `समानतीर्थेट इति सप्तम्युपादानं किमर्थम्? प्रकृतित्वेनेष्ठात् सप्तम्यन्ताद्यथा स्यात्; अनिष्टान्मा भूत्। एतेन गुरुवचनो यस्तीर्थशब्दस्तदन्तात् सप्तमीसमर्थात् प्रत्ययो भवति, न तु यः प्रयोगादिवचनस्तदन्तात्। अमुमेवार्थं चेतसि कृत्वाऽऽह - `तीर्थशब्देन गुरुरुच्यते` इति॥ Prakriyasarvasvam ----------------- अत्रार्थे यत् ॥