44108: समानोदरे शयित ओ चोदात्तः¶
Padacheda: समान-उदरे | S | 7 | 1 |
शयितः | S | 1 | 1 |
ओ | S | | | 1
च | S | 0 | 0 |
उदात्तः | S | 1 | 1 |
Sutrartha¶
‘शयितः’ अस्मिन् अर्थे सप्तमीसमर्थात् ‘समानोदर’शब्दात् संज्ञायाः विषये यत्-प्रत्ययः भवति, तथा च निर्मितस्य शब्दस्य ओकारः उदात्तः जायते ।
‘शयितः’ इति ‘शी’ धातो’ क्त-प्रत्ययान्तरूपम् । ‘शयनम् कृतः / स्थितः’ इत्यर्थः । सप्तमीसमर्थात् ‘समानोदर’शब्दात् संज्ञायाः विषये यत्-प्रत्ययः भवति । यथा - समानोदरे शयितः = समानोदर + यत् → समानोदर् + य [यस्येति च (6.4.148) इति अकारलोपः] → समानोदर्यः । समाने उदरे शयितः सः समानोदर्यः भ्राता । समाने उदरे शयिता सा समानोदर्या स्वसा । अनेन सूत्रेण ‘समानोदर्य’ शब्दस्य ओकारस्य उदात्तत्वमपि विधीयते । वस्तुतः तु यत्-प्रत्ययः ‘तित्’ अस्ति, अतः तित्स्वरितम् (6.1.185) इत्यनेन तित्-प्रत्ययस्य आदिस्वरस्य उदात्तत्वम् विधीयते, येन अन्ये स्वराः अनुदात्तं पदमेकवर्ज्यम् (6.1.158) इत्यनेन अनुदात्तस्वरं प्राप्नुवन्ति । परन्तु तत् बाधित्वा अनेन सूत्रेण ‘समानोदर्य’ शब्दस्य ओकारः उदात्तः क्रियते ।
Vasu English Summary¶
The affix यत् comes in the sense of ‘who sleeps’ after the word समानोदर in the Locative -7th case construction and the उदात्त falls on the letter ओ।
Vasu English Translation¶
The affix यत् comes in the sense of ‘who sleeps’ after the word समानोदर in the Locative -7th case construction and the उदात्त falls on the letter ओ। The word शयित is equal to स्थितः ‘remain’. Thus समानोदरे शयितः = समानोदर्यः ‘uterine brother’ i. e. who has slept in the same womb. See (6.3.88).
Kashika¶
समानोदरशब्दात् सप्तमीसमर्थात् शयित इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति, ओकारश्चोदात्तः। शयितः स्थित इत्यर्थः। समानोदरे शयितः समानोदर्यो भ्राता॥
Siddhanta Kaumudi¶
समाने उदरे शयितः स्थितः समानोदर्यो भ्राता ॥
Balamanorama¶
समानोदरे शयित ओ चोदात्तः - समानोदरे । समानोदरशब्दात्सप्तम्यन्ताच्छयित इत्यर्थे यत्स्यादोकाराश्च उदात्त इत्यर्थः । शयित इत्यस्य विवरणं स्थित इति । कुशेशयं जलेशयमित्यादौ तथा दर्शनादिति भावः । समानोदर्य इति । समानमुदरमिति । विग्रहेपूर्वापरप्रथमे॑त्यादिना समासाद्यति कृते तित्स्वरापवाद ओकारस्योदात्तः । ‘विभाषोदरे’ इति सभावेऽसति रूपम् ।
Tattvabodhini¶
समानोदरे शयित ओ चोदात्तः - शयितः स्थित इति । शीधातुः स्थित्यर्थे वर्तते ।जलाशयः॑कुशेशय॑मिति प्रयोगादिति भावः । समानमुदरमितिपूर्वापरप्रथमे॑त्यादिना तत्पुरुषःष ततो यत्, तित्स्वरापवाद ओकारस्योदात्तः ।
Padamanjari¶
ओकारश्चोदात इति । तित्स्वरितस्यापवादः । शयितः स्थित इति । शेतेः स्थितावपि वृतेः, आमाशयः, जलाशय इति यथा । समानोदर्य इति । उद्दीर्यत इत्युदरम्, उदि दृणातेरलचौ पूर्वपदान्तलोपश्चेत्यलचोरन्यतरः । समानं च तदुदरं च समानोदरम्,’पूर्वापरप्रथम्’ इत्यादिना समासःष ततः प्रत्ययः ॥
Nyaas¶
ओकारश्चोदात्तः इति। यतः स्वरे प्राप्त ओकारस्योदात्तत्वं विधीयते। शयितः स्थित इत्यर्थः`(इति)। अनेकार्थत्वात् तस्य स्थितावपि वृत्तेः; तथा हि - जलाशय इति। समानोदर्यः इति। समानञ्च तदुदरञ्चेति समानाधिकरणसमासं कृत्वा ततः प्रत्ययः॥
Prakriyasarvasvam¶
अस्मिन्नर्थे यद् ओकारस्योदात्तत्वं च । समानोदर्यः ॥ इत्योकारस्योदात्तत्वम् । समानोदर्यः । यति ‘तित् स्वरितम् (६-१-१८५) इत्यस्य बाधः ।
Sutra Prayogas¶
समानोदर्यमस्माकं (भट्टिकाव्यम्): समानोदरे शयितः इति यत्।