44106: ढश्छन्दसि

Padacheda: ढः | S | 1 | 1 |

छन्दसि | S | 7 | 1 |

Sutrartha

‘साधुः’ अस्मिन् अर्थे सप्तमीसमर्थात् ‘सभा’शब्दात् वेदेषु संज्ञायाः विषये ‘ढ’प्रत्ययः भवति ।

‘साधुः’ इत्युक्ते कुशलः, प्रवीणः, योग्यः । सप्तमीसमर्थात् ‘सभा’शब्दात् वेदेषु संज्ञायाः विषये ढ-प्रत्ययः अपि कृतः दृश्यते । यथा, शुक्लयजुर्वेदे 22 तमे अध्याये 22 तमः श्लोके उच्यते - ‘पुरन्धिर्योषा जिष्णू रथेष्ठाः सभेयो युवास्य यजमानस्य वीरो जायताम् ‘ । अत्र प्रयुक्तः ‘सभेयः’ अयं शब्दः ‘सभायां साधुः’ अस्मिन् अर्थे प्रयुक्तः अस्ति । प्रक्रिया इयम् - सभायां साधुः = सभा + ढ → सभा + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति एय् -आदेशः] → सभ् + एय [यस्येति च (6.4.148) इति आकारलोपः] → सभेय । विशेषः - शुक्लयजुर्वेदस्य 22 तम-अध्यायस्य 22 तमः श्लोकः ‘वैदिकम् राष्ट्रगीतम्’ नाम्ना अपि प्रसिद्धः अस्ति । अयम् सम्पूर्णः श्लोकः अधः दत्तः अस्ति - आ ब्रह्यन्ब्राह्मणो ब्रह्मवर्चसी जायताम् । आ राष्ट्रे राजन्यः शूरऽइषव्योतिव्याधी महारथो जायताम् । दोग्ध्री धेनुर्वोढानड्वानाशुः सप्तिः पुरन्धिर्योषा जिष्णू रथेष्ठाः सभेयो युवास्य यजमानस्य वीरो जायताम् । निकामे निकामे नः पर्जन्यो वर्षतु फलवत्यो न ओषधयः पच्यन्ताँयोगक्षेमो नः कल्पताम् ॥ शुक्लयजुर्वेदः 22.22 ॥

Vasu English Summary

The affix ढ comes in the sense of ‘excellent with regard thereto’ after the word सभा in the छन्दस् (Vedas).

Vasu English Translation

The affix ढ comes in the sense of ‘excellent with regard thereto’ after the word सभा in the छन्दस् (Vedas). This debars य ॥ Thus सभेयः in सभेयोस्य युवा यजमानस्य वीरो जायताम् ‘let a refined, youthful hero be born to this sacrificer’.

Kashika

सभाशब्दाद् ढःप्रत्ययो भवति तत्र साधुरित्येतस्मिन् विषये छन्दसि। यस्याऽपवादः। स॒भेयो॒ युवास्य॒ यज॑मानस्य वी॒रो जा॑यताम् (मा०सं०२२.२२)॥

Siddhanta Kaumudi

सभेयो युवा ॥

Prakriyasarvasvam

तत्र साधुरित्यर्थे सभायां ढः स्यात् । सभेयोविप्रो भरते ।