44104: पथ्यतिथिवसतिस्वपतेर्ढञ्

Padacheda: पथि-अतिथि-वसति-स्वपतेः | S | 5 | 1 |

ढञ् | S | 1 | 1 |

Sutrartha

‘साधुः’ अस्मिन् अर्थे पथिन्, अतिथि, वसति, स्वपति -एतेभ्यः सप्तमीसमर्थेभ्यः शब्देभ्यः संज्ञायाः विषये ढञ्-प्रत्ययः भवति ।

‘साधुः’ इत्युक्ते योग्यः, प्रवीणः । पथिन्, अतिथि, वसति, स्वपति - एतेभ्यः सप्तमीसमर्थेभ्यः शब्देभ्यः संज्ञायाः विषये ढञ्-प्रत्ययः भवति । अस्मिन् सूत्रे ‘संज्ञायाम्’ इति अनुवर्तते, अतः अस्य सूत्रस्य प्रयोगः विशिष्टेषु प्रयोगेषु एव क्रियते । उदाहरणानि एतानि - 1. पथि साधुः = पथिन् + ढञ् → पथिन् + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति एय्-आदेशः] → पाथिन् + एय [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → पाथ् + एय [नस्तद्धिते (6.4.144) इति टिलोपः] → पाथेय । पथि साधुः पाथेयम् खाद्यम् पेयम् वा । 2. अतिथौ साधुः आतिथेयः व्यवहारः । अतिथिं प्रति यः व्यवहारः कार्यः , सः अतिथौ योग्यः आतिथेयः व्यवहारः । 3. वसतौ साधुः वासतेयम् गृहम् । ‘वसति’ इत्युक्ते निवसनम् । वसनकार्यार्थम् योग्यम् / उचितम् गृहम् वासतेयम् गृहम् । 4. स्वपतौ साधुः स्वापतेयम् धनम् । ‘स्वपति’ इत्युक्ते धनिकः । धनिकस्य समीपे यत् साधुः भासते, तत् स्वापतेयम् धनम् ।

Vasu English Summary

The affix ठञ् comes in the sense of ‘excellent with regard thereto’ after the words 1. पथि 2. अतिथि 3. वसति and 4. स्वपति।

Vasu English Translation

The affix ठञ् comes in the sense of ‘excellent with regard thereto’ after the words 1. पथि 2. अतिथि 3. वसति and 4. स्वपति। This debars यत् ॥ Thus पथि साधुः = पाथेयम् (7.1.2) ‘provision for journey’. आतिथेयम् ‘hospitality’, वासतेयं ‘habitable’ as वासतेयी रात्रिः, स्वापतेयम् ‘wealth, property’.

Kashika

पथ्यादिभ्यः शब्देभ्यो ढञ्प्रत्ययो भवति तत्र साधुरित्येतस्मिन् विषये। यतोऽपवादः। पथि साधु पाथेयम्। आतिथेयम्। वासतेयम्। स्वापतेयम्॥

Siddhanta Kaumudi

पथि साधुः पाथेयम् । आतिथेयम् । वसनं वसतिस्तत्र साधुर्वासतेयी रात्रिः । स्वापतेयं धनम् ॥

Tattvabodhini

वसतिरिति। `वसेश्च`त्यतिप्रत्ययः। स्वस्य पति स्वपतिः=आढ्यः, तस्मिन्साधु स्वापतेयम्। सभाया यः। यति तु तित्स्वरः स्यात्, `क्रतुर्भवत्युक्थ्यः`इति वत्। न च `यतोऽनावः`इत्याद्युदात्तता शङ्क्या। `यदुत्पत्तिवेलायां व्द्यच्कस्य यदन्तस्यादिरुदात्तः`इति वेदभाष्ये स्थापितत्वात्। पक्षान्तरे तु `नमः शष्प्याय च फेन्याय च`इत्यादिवदाद्युदात्तः स्यात्। एवं च व्याख्यानद्वयस्याप्यावश्यकत्वे लक्ष्यमुरोधेन क्वचि�त्कचिव्द्याख्येयमिति तत्त्वम्।

Padamanjari

पतन्त्यनेनेति पन्थाः,’गमेरिनिः’ ‘पतेस्थ च’ ; अतति सततं गच्छतीत्यतिथिः, न विद्यते तिथिर्यस्य सोऽप्यतिथिः, एकमपि दिनमत्रास्थित इत्यर्थः । वसनं वसतिः,’वसेश्च’ इत्यतिप्रत्ययः, तत्र योग्या वासतेयी रात्रिः । स्वपतिराद्यः, स्वपतेर्योग्यं स्वापतेयं धनम् ॥

Prakriyasarvasvam

पाथेयम् । आतिथेयम् । वसतो योग्या वासतेयी रात्रिः । शाला वा । स्वशब्दस्य द्वारादित्वात् प्राप्त ऐच् स्वागतादितवान्न । स्वपतिर्धनिकः, तत्र योग्यं स्वापतेयं धनम् ॥

Sutra Prayogas

  • सभ्याः (रघुवंशम्): सभाया यः इति यप्रत्ययः।

  • पाथेयम् (किरातार्जुनीयम्): पथ्यतिथिवसतिस्वपतेर्ढञ् इति ढञ्प्रत्ययः।

  • आतिथेयीम् (किरातार्जुनीयम्): पथ्यतिथिवसतिस्वपतेर्ढञ् इति ढञ्प्रत्ययः।

  • आतिथेयम् (शिशुपालवधम्): पथ्यतिथिवसतिस्वपतेर्ढञ् इति ढञ्प्रत्ययः।

  • स्वापतेयम् (शिशुपालवधम्): पथ्यतिथिवसतिस्वपतेर्ढञ् इति ढञ्प्रत्ययः।

  • आतिथेयो (भट्टिकाव्यम्): पथ्यतिथि इत्यादिना ढञ्।