44105: सभाया यः¶
Padacheda: सभायाः | S | 5 | 1 |
यः | S | 1 | 1 |
Sutrartha¶
सप्तमीसमर्थात् ‘सभा’शब्दात् संज्ञायाः विषये ‘य’ प्रत्ययः भवति ।
‘साधुः’ इत्युक्ते योग्यः, प्रवीणः । सप्तमीसमर्थात् ‘सभा’ शब्दात् ‘साधुः’ अस्मिन् अर्थे संज्ञायाः विषये ‘य’-प्रत्ययः भवति । सभायां साधुः = सभा + य → सभ् + य [यस्येति च (6.4.148) इति आकारलोपः] → सभ्य । सभायाम् साधुः सभ्यः । सभायाम् भाषणे वर्तने व्यवहारे च यः प्रवीणः, सः सभ्यः पुरुषः । ज्ञातव्यम् - वस्तुतः अत्र ‘यत्’ इति औत्सर्गिकः प्रत्ययः अनुवर्तते । परन्तु तं बाधित्वा अस्मिन् सूत्रे ‘य’ प्रत्ययः उक्तः अस्ति । द्वयोः अपि प्रत्यययोः प्रयोगेण समानम् एव रूपम् जायते, परन्तु तयोर्मध्ये स्वरभेदः अस्ति । ‘यत्’प्रत्ययान्तः ‘सभ्य’शब्दः यतोऽनावः (6.1.213) इत्यनेन आद्युदात्तः जायते, परन्तु ‘य’प्रत्ययान्तः ‘सभ्य’शब्दः आद्युदात्तश्च (3.1.3) इत्यनेन अन्तोदात्तत्वं प्राप्नोति । (आद्युदात्तश्च (3.1.3) इत्यनेन प्रत्ययस्य आदिस्वरः उदात्तः जायते । अतः अत्र अनेन सूत्रेण यकारोत्तरः अकारः उदात्तः भवति । अयमकारः ‘सभ्य’ इति सम्पूर्णशब्दस्य अन्तिमस्थाने अस्ति, अतः अत्र ‘सभ्य’शब्दः अन्तोदात्तत्वं प्राप्नोति) ।
Vasu English Summary¶
The affix यत् comes in the sense of ‘excellent with regard thereto’ after the word सभा ।
Vasu English Translation¶
The affix यत् comes in the sense of ‘excellent with regard thereto’ after the word सभा । This debars यत् the difference being in accent (3.1.3), and (6.1.185) Thus सभायां साधुः = सभ्यः꣡ ‘refined’ lit. fit for society.
Kashika¶
सभाशब्दाद् यःप्रत्ययो भवति तत्र साधुरित्येतस्मिन् विषये। यतोऽपवादः। स्वरे विशेषः। सभायां साधुः सभ्यः॥
Siddhanta Kaumudi¶
सभ्यः ॥
Laghu Siddhanta Kaumudi¶
सभ्यः ॥ इति यतोऽवधिः ॥ ८ ॥
Nyaas¶
स्वरे विशेषः इति। यति सति यतोऽनावः (6.1.213) इत्याद्युदात्तं स्यात्, ये तु सति प्रत्ययस्वरेणान्तोदात्तं स्यात्॥
Prakriyasarvasvam¶
सभ्यः ॥
Sutra Prayogas¶
सभ्यः (कुमारसम्भवम्): सभाया यः इति यप्रत्ययः।
सभ्या (किरातार्जुनीयम्): सभाया यः इति यप्रत्ययः।
सभ्यम् (शिशुपालवधम्): सभाया यः इति यप्रत्ययः।