44103: गुडादिभ्यष्ठञ्

Padacheda: गुड-आदिभ्यः | S | 5 | 3 |

ठञ् | S | 1 | 1 |

Sutrartha

‘साधुः’ अस्मिन् अर्थे गुडादिगणस्य सप्तमीसमर्थेभ्यः शब्देभ्यः संज्ञायाः विषये ठञ्-प्रत्ययः भवति ।

‘साधुः’ इत्युक्ते योग्यः, प्रवीणः । गुडादिगणस्य सप्तमीसमर्थेभ्यः शब्देभ्यः संज्ञायाः विषये ठञ्-प्रत्ययः भवति । गुडादिगणः अयम् - गुड, कुल्माष, सक्तु, अपूप, मांसौदन, इक्षु, वेणु, सङ्ग्राम, सङ्घात, प्रवास, निवास, उपवास । उदाहरणानि - 1. गुडे साधुः = गुड + ठञ् → गुड + इक [ठस्येकः (7.3.50) इति ठक्-इत्यस्य इक-आदेशः] → गौड + इक [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → गौड् + इक [यस्येति च (6.4.148) इति अकारलोपः] → गौडिक गुडे साधुः सः गौडिकः इक्षुः । यस्मात् उत्तमः गुडः जायते सः गौडिकः इक्षुः । 2. सक्तौ साधुः साक्तविकः । सक्तु + ठञ् → सक्तु + इक [ठस्येकः (7.3.50) इति ठक्-इत्यस्य इक-आदेशः] → साक्तु + इक [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → साक्तो + इक [ओर्गुणः (6.4.146) इति गुणः] → साक्तव् + इक [एचोऽयवायावः (6.1.78) इति अवादेशः] → साक्तविक । 3. अपूपे साधुः आपुपिकः । 4. इक्षौ साधुः ऐक्षविकः ।

Vasu English Summary

The affix ठञ् comes in the sense of ‘excellent with regard thereto’ after the words गुड etc.

Vasu English Translation

The affix ठञ् comes in the sense of ‘excellent with regard thereto’ after the words गुड etc. This debars यत् ॥ Thus गुडे साधुः = गौडिकः ‘sugar-cane’ lit. ‘excellent in making sugar’. So कौलमाषिकः ‘a kind of pulse’ lit. ‘excellent for making gruel’. साक्तुकः ‘barley’ lit. suitable for making saktu.

1 गुड, 2 कुल्माष, 3 सक्तु, 4 अपूप, 5 मांसौदन, 6 इक्षु, 7 वेणु, 8 संग्राम, 9 संघात, 10 संक्राम, 11 संवाह, 12 प्रवास, 13 निवास, 14 उपवास. ॥

Kashika

गुडादिभ्यः शब्देभ्यष्ठञ्प्रत्ययो भवति तत्र साधुरित्येतस्मिन् विषये। यतोऽपवादः। गुडे साधुर्गौडिक इक्षुः। कौल्माषिको मुद्गः। साक्तुको यवः॥ गुड। कुल्माष। सक्तु। अपूप। मांसौदन। इक्षु। वेणु। संग्राम। संघात। प्रवास। निवास। उपवास। गुडादिः॥

Siddhanta Kaumudi

गुडे साधुर्गौडिक इक्षुः । साक्तुका यवाः ॥

Balamanorama

गुडादिभ्यष्ठञ् - पथ्यतिथीत्यादि स्पष्टम् ।

Tattvabodhini

गुडादिभ्यष्ठञ् - वसतिरिति ।वसेश्च॑त्यतिप्रत्ययः । स्वस्य पति स्वपतिः=आढ्यः, तस्मिन्साधु स्वापतेयम् । सभाया यः । यति तु तित्स्वरः स्यात्,क्रतुर्भवत्युक्थ्यः॑इति वत् । न चयतोऽनावः॑इत्याद्युदात्तता शङ्क्या ।यदुत्पत्तिवेलायां व्द्यच्कस्य यदन्तस्यादिरुदात्तः॑इति वेदभाष्ये स्थापितत्वात् । पक्षान्तरे तुनमः शष्प्याय च फेन्याय च॑इत्यादिवदाद्युदात्तः स्यात् । एवं च व्याख्यानद्वयस्याप्यावश्यकत्वे लक्ष्यमुरोधेन क्वचित्कचिव्द्याख्येयमिति तत्त्वम् ।

Prakriyasarvasvam

‘गुडापूपसक्तुमांसौदनकुल्माषवेणुभ्यः’ (स० ४-४-१७७) । गुडे साधुगौंडिक इक्षुः । आपूपिकः । साक्तुकः । मांसौदनिकी पुलिन्दी । कौल्माषिको मुद्गः । ‘समो वाहघातग्रामेभ्यः (स० ४-४-१७८) । सांवाहिकः । साङ्घातिकः । साङ्ग्रामिकः । ‘प्रन्युपेभ्यो वासात्’ (स० ४-४-१८९) । प्रावासिकः । नैवासिकः । औपवासिकः ।।