44104: पथ्यतिथिवसतिस्वपतेर्ढञ् ============================== **Padacheda:** पथि-अतिथि-वसति-स्वपतेः | S | 5 | 1 | ढञ् | S | 1 | 1 | Sutrartha --------- **'साधुः' अस्मिन् अर्थे पथिन्, अतिथि, वसति, स्वपति -एतेभ्यः सप्तमीसमर्थेभ्यः शब्देभ्यः संज्ञायाः विषये ढञ्-प्रत्ययः भवति ।** 'साधुः' इत्युक्ते योग्यः, प्रवीणः । पथिन्, अतिथि, वसति, स्वपति - एतेभ्यः सप्तमीसमर्थेभ्यः शब्देभ्यः संज्ञायाः विषये ढञ्-प्रत्ययः भवति । अस्मिन् सूत्रे 'संज्ञायाम्' इति अनुवर्तते, अतः अस्य सूत्रस्य प्रयोगः विशिष्टेषु प्रयोगेषु एव क्रियते । उदाहरणानि एतानि - 1. पथि साधुः = पथिन् + ढञ् → पथिन् + एय [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति एय्-आदेशः] → पाथिन् + एय [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] → पाथ् + एय [**नस्तद्धिते** (6.4.144) इति टिलोपः] → पाथेय । पथि साधुः पाथेयम् खाद्यम् पेयम् वा । 2. अतिथौ साधुः आतिथेयः व्यवहारः । अतिथिं प्रति यः व्यवहारः कार्यः , सः अतिथौ योग्यः आतिथेयः व्यवहारः । 3. वसतौ साधुः वासतेयम् गृहम् । 'वसति' इत्युक्ते निवसनम् । वसनकार्यार्थम् योग्यम् / उचितम् गृहम् वासतेयम् गृहम् । 4. स्वपतौ साधुः स्वापतेयम् धनम् । 'स्वपति' इत्युक्ते धनिकः । धनिकस्य समीपे यत् साधुः भासते, तत् स्वापतेयम् धनम् । Vasu English Summary -------------------- The affix ठञ् comes in the sense of 'excellent with regard thereto' after the words 1. पथि 2. अतिथि 3. वसति and 4. स्वपति। Vasu English Translation ------------------------ The affix ठञ् comes in the sense of 'excellent with regard thereto' after the words 1. पथि 2. अतिथि 3. वसति and 4. स्वपति। This debars यत् ॥ Thus पथि साधुः = पाथेयम् (7.1.2) 'provision for journey'. आतिथेयम् 'hospitality', वासतेयं 'habitable' as वासतेयी रात्रिः, स्वापतेयम् 'wealth, property'. Kashika ------- पथ्यादिभ्यः शब्देभ्यो ढञ्प्रत्ययो भवति तत्र साधुरित्येतस्मिन् विषये। यतोऽपवादः। पथि साधु पाथेयम्। आतिथेयम्। वासतेयम्। स्वापतेयम्॥ Siddhanta Kaumudi ----------------- पथि साधुः पाथेयम् । आतिथेयम् । वसनं वसतिस्तत्र साधुर्वासतेयी रात्रिः । स्वापतेयं धनम् ॥ Tattvabodhini ------------- वसतिरिति। `वसेश्च`त्यतिप्रत्ययः। स्वस्य पति स्वपतिः=आढ्यः, तस्मिन्साधु स्वापतेयम्। सभाया यः। यति तु तित्स्वरः स्यात्, `क्रतुर्भवत्युक्थ्यः`इति वत्। न च `यतोऽनावः`इत्याद्युदात्तता शङ्क्या। `यदुत्पत्तिवेलायां व्द्यच्कस्य यदन्तस्यादिरुदात्तः`इति वेदभाष्ये स्थापितत्वात्। पक्षान्तरे तु `नमः शष्प्याय च फेन्याय च`इत्यादिवदाद्युदात्तः स्यात्। एवं च व्याख्यानद्वयस्याप्यावश्यकत्वे लक्ष्यमुरोधेन क्वचि�त्कचिव्द्याख्येयमिति तत्त्वम्। Padamanjari ----------- पतन्त्यनेनेति पन्थाः,'गमेरिनिः' 'पतेस्थ च' ; अतति सततं गच्छतीत्यतिथिः, न विद्यते तिथिर्यस्य सोऽप्यतिथिः, एकमपि दिनमत्रास्थित इत्यर्थः । वसनं वसतिः,'वसेश्च' इत्यतिप्रत्ययः, तत्र योग्या वासतेयी रात्रिः । स्वपतिराद्यः, स्वपतेर्योग्यं स्वापतेयं धनम् ॥ Prakriyasarvasvam ----------------- पाथेयम् । आतिथेयम् । वसतो योग्या वासतेयी रात्रिः । शाला वा । स्वशब्दस्य द्वारादित्वात् प्राप्त ऐच् स्वागतादितवान्न । स्वपतिर्धनिकः, तत्र योग्यं स्वापतेयं धनम् ॥ Sutra Prayogas -------------- * **सभ्याः** (रघुवंशम्): `सभाया यः` इति यप्रत्ययः। * **पाथेयम्** (किरातार्जुनीयम्): `पथ्यतिथिवसतिस्वपतेर्ढञ्` इति ढञ्प्रत्ययः। * **आतिथेयीम्** (किरातार्जुनीयम्): `पथ्यतिथिवसतिस्वपतेर्ढञ्` इति ढञ्प्रत्ययः। * **आतिथेयम्** (शिशुपालवधम्): `पथ्यतिथिवसतिस्वपतेर्ढञ्` इति ढञ्प्रत्ययः। * **स्वापतेयम्** (शिशुपालवधम्): `पथ्यतिथिवसतिस्वपतेर्ढञ्` इति ढञ्प्रत्ययः। * **आतिथेयो** (भट्टिकाव्यम्): `पथ्यतिथि` इत्यादिना ढञ्।