44102: कथादिभ्यष्ठक्¶
Padacheda: कथा-आदिभ्यः | S | 5 | 3 |
ठक् | S | 1 | 1 |
Sutrartha¶
‘साधुः’ अस्मिन् अर्थे कथादिगणस्य सप्तमीसमर्थेभ्यः शब्देभ्यः संज्ञायाः विषये ठक्-प्रत्ययः भवति ।
‘साधुः’ इत्युक्ते प्रवीणः, कुशलः, योग्यः । ‘साधुः’ अस्मिन् अर्थे कथादिगणस्य सप्तमीसमर्थेभ्यः शब्देभ्यः ठक्-प्रत्ययः भवति । कथादिगणः अयम् - कथा, विकथा, वितण्डा, कुष्टचित्, जनवाद, जनेवाद, वृत्ति, सद्गृह, गुण, गण, आयुर्वेद । उदाहरणानि - 1. कथायां साधुः = कथा + ठक् → कथा + इक [ठस्येकः (7.3.50) इति इक्-आदेशः] → काथ + इक [किति च (7.2.118) इति आदिवृद्धिः] → काथ् + इक [यस्येति च (6.4.148) इति अन्तिम-आकारलोपः] → काथिक कथायां साधु काथिकम् चित्रम् । 2. विकथायां साधुः वैकथिकः । 3. वितण्डायां साधुः वैतण्डिकः । ‘वितण्डा’ इत्युक्ते ‘विश्लेषणम् / चोदनम्’ (criticism). 4. आयुर्वेदे साधुः आयुर्वेदिकः ।
Vasu English Summary¶
The affix ठक् comes in the sense of ‘excellent with regard thereto’ after the words कथ etc.
Vasu English Translation¶
The affix ठक् comes in the sense of ‘excellent with regard thereto’ after the words कथ etc. Thus कथायां साधुः = काथिकः (कथा + ठक् = कथ् + ठक् (6.4.148) = काथ् + इक् (7.2.116)) ‘a narrator of stories’. So वैकथिकः &c.
1 कथा, 2 विकथा, 3 विश्वकथा, 4 संकथा, 5 वितण्डा, 6 कुष्ठविद् (कुष्ट विद्, कुष्टचित्) 7 जनवाद, 8 जनेवाद, 9 जानोवाद (!) 10 वृत्ति, 11 संग्रह (सद्ग्रह), 12 गुण, 13 गण, 14 आयुर्वेद. ॥
Kashika¶
कथादिभ्यःशब्देभ्यष्ठक् प्रत्ययो भवति तत्र साधुरित्येतस्मिन् विषये। यतोऽपवादः। कथायां साधुः काथिकः। वैकथिकः॥ कथा। विकथा। वितण्डा। कुष्टचित्। जनवाद। जनेवाद। वृत्ति। सद्गृह। गुण। गण। आयुर्वेद। कथादिः॥
Siddhanta Kaumudi¶
कथायां साधुः काथिकः ॥
Balamanorama¶
कथाऽऽदिभ्यष्ठक् - कथादिभ्यष्ठगित्यादि स्पष्टम् ।
Prakriyasarvasvam¶
कथायां निपुणः काथिकः । ‘विविश्वपूर्वायाश्च’ (स० ४-४-१७४) विकथायां साधुर्वैकथिकः । वैश्वकथिकः । ‘जनेजनाभ्यां वादात्’ (स० ४-४-१७९) । जानेवादिकः । जानवादिकः । ‘वृत्तिसंग्रहगणगुणायुर्वेदवितण्डाभ्यश्च’ (स० ४-४- १७६) । वात्तिकः । सांग्रहिकः । गाणिकः । गौणिकः । आयुर्वेदिकः । वैतण्डिकः । विहासे साधुर्वैहासिको विदूषक इति च मुरारिपञ्चिका ।।