44102: कथादिभ्यष्ठक् ==================== **Padacheda:** कथा-आदिभ्यः | S | 5 | 3 | ठक् | S | 1 | 1 | Sutrartha --------- **'साधुः' अस्मिन् अर्थे कथादिगणस्य सप्तमीसमर्थेभ्यः शब्देभ्यः संज्ञायाः विषये ठक्-प्रत्ययः भवति ।** 'साधुः' इत्युक्ते प्रवीणः, कुशलः, योग्यः । 'साधुः' अस्मिन् अर्थे कथादिगणस्य सप्तमीसमर्थेभ्यः शब्देभ्यः ठक्-प्रत्ययः भवति । कथादिगणः अयम् - कथा, विकथा, वितण्डा, कुष्टचित्, जनवाद, जनेवाद, वृत्ति, सद्गृह, गुण, गण, आयुर्वेद । उदाहरणानि - 1. कथायां साधुः = कथा + ठक् → कथा + इक [**ठस्येकः** (7.3.50) इति इक्-आदेशः] → काथ + इक [**किति च** (7.2.118) इति आदिवृद्धिः] → काथ् + इक [**यस्येति च** (6.4.148) इति अन्तिम-आकारलोपः] → काथिक कथायां साधु काथिकम् चित्रम् । 2. विकथायां साधुः वैकथिकः । 3. वितण्डायां साधुः वैतण्डिकः । 'वितण्डा' इत्युक्ते 'विश्लेषणम् / चोदनम्' (criticism). 4. आयुर्वेदे साधुः आयुर्वेदिकः । Vasu English Summary -------------------- The affix ठक् comes in the sense of 'excellent with regard thereto' after the words कथ etc. Vasu English Translation ------------------------ The affix ठक् comes in the sense of 'excellent with regard thereto' after the words कथ etc. Thus कथायां साधुः = काथिकः (कथा + ठक् = कथ् + ठक् (6.4.148) = काथ् + इक् (7.2.116)) 'a narrator of stories'. So वैकथिकः &c. 1 कथा, 2 विकथा, 3 विश्वकथा, 4 संकथा, 5 वितण्डा, 6 कुष्ठविद् (कुष्ट विद्, कुष्टचित्) 7 जनवाद, 8 जनेवाद, 9 जानोवाद (!) 10 वृत्ति, 11 संग्रह (सद्ग्रह), 12 गुण, 13 गण, 14 आयुर्वेद. ॥ Kashika ------- कथादिभ्यःशब्देभ्यष्ठक् प्रत्ययो भवति तत्र साधुरित्येतस्मिन् विषये। यतोऽपवादः। कथायां साधुः काथिकः। वैकथिकः॥ कथा। विकथा। वितण्डा। कुष्टचित्। जनवाद। जनेवाद। वृत्ति। सद्गृह। गुण। गण। आयुर्वेद। कथादिः॥ Siddhanta Kaumudi ----------------- कथायां साधुः काथिकः ॥ Balamanorama ------------ **कथाऽऽदिभ्यष्ठक्** - कथादिभ्यष्ठगित्यादि स्पष्टम् । Prakriyasarvasvam ----------------- कथायां निपुणः काथिकः । ‘विविश्वपूर्वायाश्च’ (स० ४-४-१७४) विकथायां साधुर्वैकथिकः । वैश्वकथिकः । ‘जनेजनाभ्यां वादात्’ (स० ४-४-१७९) । जानेवादिकः । जानवादिकः । ‘वृत्तिसंग्रहगणगुणायुर्वेदवितण्डाभ्यश्च’ (स० ४-४- १७६) । वात्तिकः । सांग्रहिकः । गाणिकः । गौणिकः । आयुर्वेदिकः । वैतण्डिकः । विहासे साधुर्वैहासिको विदूषक इति च मुरारिपञ्चिका ।।