44101: परिषदो ण्यः

Padacheda: परिषदः | S | 5 | 1 |

ण्यः | S | 1 | 1 |

Sutrartha

‘साधुः’ अस्मिन् अर्थे सप्तमीसमर्थात् परिषद्-शब्दात् संज्ञायाम् विषये ण्य-प्रत्ययः भवति ।

‘साधुः’ इत्युक्ते प्रवीणः, कुशलः, योग्यः । ‘साधुः’ अस्मिन् अर्थे सप्तमीसमर्थात् ‘परिषद्’शब्दात् ण्य-प्रत्ययः भवति - परिषदि साधुः = परिषद् + ण्य → पारिषद् + य [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → पारिषद्य परिषदि (सभायाम्) साधुः पारिषद्यः विचारः । ज्ञातव्यम् - 1. वस्तुतः भाष्यकारेण पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च (2.1.58) इत्यत्र ‘सर्ववेदपारिषदं हि इदं शास्त्रम्’ अयम् प्रयोगः कृतः अस्ति । अस्मिन् वाक्ये प्रयुक्तः ‘पारिषद’ शब्दः ‘परिषदि साधुः’ अस्मिन् अर्थे कृतः अस्ति । अस्य प्रयोगस्य सिद्धतायै काशिकाकारः अत्र वदति - ‘णप्रत्ययः अप्यत्र इष्यते। तदर्थं योगविभागः क्रियते’ । इत्युक्ते - [1] अत्र योगविभागं कृत्वा ‘परिषदः’ इति अन्यत् सूत्रम् स्वीक्रियते, तत्र च पूर्वसूत्रात् ‘ण’ इति अनुवर्तते । अनेन सूत्रेण परिषद्-शब्दात् तत्र साधुः अस्मिन् अर्थे ण-प्रत्ययः अपि विधीयते । परिषदि साधुः परिषद् + ण = पारिषद । [2] ततः च ‘ण्य’ इति भिन्नं सूत्रं स्वीकृत्य तस्मिन् ‘परिषदः’ इत्यस्य अनुवृत्तिः क्रियते, येन ‘पारिषद्य’ अयं शब्दः अपि सिद्ध्यति । 2. कौमुद्यामस्य सूत्रस्य विषये उच्यते - ‘पर्षद इति पाठः ‘ । इत्युक्ते, ‘परिषद् ‘ इत्यस्य स्थाने ‘पर्षद् ‘ इति अपि पाठः कृतः दृश्यते । ‘पर्षद्’ इत्यस्य अपि ‘परिषद्’ इत्येव अर्थः । पर्षदि साधुः पार्षदः ।

Vasu English Summary

The affix ण्य comes in the sense of ‘excellent with regard thereto’ after the word परिषद।

Vasu English Translation

The affix ण्य comes in the sense of ‘excellent with regard thereto’ after the word परिषद। This debars यत् ॥ Thus परिषदि साधुः = पारिषद्यः ॥ The affix ण is also employed here. Thus परिषदि साधुः = पारिषदः ‘one versed in the affairs of a council’ ‘a minister’.

Kashika

परिषच्छब्दाद् ण्यः प्रत्ययो भवति तत्र साधुरित्येतस्मिन् विषये। यतोऽपवादः। परिषदि साधुः पारिषद्यः। णप्रत्ययोऽप्यत्रेष्यते। तदर्थं योगविभागः क्रियते। परिषदो णो भवति। परिषदि साधुः पारिषदः। ततो ण्यः। परिषद इत्येव॥

Siddhanta Kaumudi

पारिपद्यः । परिषद इति योगविभागाण्णोऽपि । परिषदः । पर्षद इति पाठः । पार्षदः ॥

Balamanorama

परिषदो ण्यः - परिषदो ण्यः ।सप्तम्यन्तात्साधुरित्यर्थ॑ इति शेषः । योगेति । परिषद इति प्रथमो योगः । परिषदो णः स्यादित्यर्थः । ततो ‘ण्यः’ इति द्वितीयो योगः । परिषदो ण्यः स्यादित्यर्थः ।

Padamanjari

णप्रत्ययोऽप्यत्रेष्यते इति ।’पारिषदा कृतिरेषा तत्रभवताम्’ ,’सर्ववेदपारिषदं हीदं शास्त्रम्’ इति च भाष्यकारप्रयोगात् ॥

Prakriyasarvasvam

पारिषद्यो वाग्मी । परिषद इति विभागाण्णश्च । पारिषदा वाक् । एकदेश- विकृतत्वात् पार्वद्यः । पार्वदः ।।