44094: उरसोऽण् च¶
Padacheda: उरसः | S | 5 | 1 |
अण् | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
उरस्-शब्दात् ‘निर्मितः’ अस्मिन् अर्थे संज्ञायाः विषये ‘अण्’ तथा ‘यत्’ प्रत्ययौ भवतः ।
‘उरसा निर्मितः’ अस्मिन् अर्थे उरस्-शब्दात् अण् तथा यत् प्रत्ययौ भवतः । 1. अण्-प्रत्यये परे प्रक्रिया - उरसा निर्मितः = उरस् + अण् → औरस् + अ [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → औरस । 2. यत्-प्रत्यये परे प्रक्रिया - उरसा निर्मितः = उरस् + यत् → उरस् + य → उरस्य ज्ञातव्यम् - 1. अस्मिन् सूत्रे अर्थसामर्थ्यात् तृतीयासामर्थ्यम् गृह्यते । 2. अत्र ‘संज्ञायाम्’ इति अनुवर्तते, अतः औरस / उरस्य शब्दयोः प्रयोगः केवलम् ‘पुत्रम्’ अस्मिन्नेव अर्थे भवति । सः पुत्रः, यः गर्भात् न निर्मितः अपितु केवलं पुत्ररूपेण स्वीकृतः, तस्य निर्देशः ‘औरस’ / ‘उरस्य’ अनेन शब्देन क्रियते ।
Vasu English Summary¶
The affixes अण् and यत् come in the sense of ‘made’ after उरस् in the Instrumental -3rd case in construction.
Vasu English Translation¶
The affixes अण् and यत् come in the sense of ‘made’ after उरस् in the Instrumental -3rd case in construction. The यत् is drawn into the sutra by the particle च ॥ उरसा निर्मितः = औरसं꣡ ‘own son not adopted, lit. produced through the loins,’ With यत् the form will be उरस्यः॑ ॥ These words denote son, and not anything produced from the loin, because the word संज्ञायां (4.4.89) governs this sutra also.
Kashika¶
उरःशब्दात् तृतीयासमर्थाद् निर्मित इत्येतस्मिन्नर्थेऽण् प्रत्ययो भवति, चकाराद् यत् च। उरसा निर्मित औरसः पुत्रः। उरस्यः पुत्रः। संज्ञाधिकारादभिधेयनियमः॥
Siddhanta Kaumudi¶
चाद्यत् । उरसा निर्मितः पुत्रः औरसः । उरस्यः ॥
Balamanorama¶
उरसोऽण् च - उरसोऽण्च ।तृतीयान्तान्निर्मिते इत्यर्थे॑ इति शेषः । उरस्य इति ।अङ्गादङ्गात्सम्भवसि ह्मदयादधिजायसे॑ इति श्रुतेरिति भावः । ‘पुत्र’ इति संज्ञाधिकाराल्लब्धम् ।
Tattvabodhini¶
उरसोऽण् च - पुत्र इति । संज्ञाधिकारान्नेह — उरसा निर्मितं सुखम् ।
Padamanjari¶
औरसः पुत्र इति । आत्मनोत्पादित इत्यर्थः । संज्ञाधिकारादभिधेयनियम इति । उरसा निर्मितं सुखमित्यादौ न भवति ॥
Nyaas¶
संज्ञाधिकारादभिधेयनियमः इति। तेनोरसा निर्मितं सुखमित्यादौ न भवतीति भावः॥
Prakriyasarvasvam¶
आत्मार्थादुरसो निर्मितेऽण् यच्च । औरस उरस्यो वा पुत्रः ॥