44095: हृदयस्य प्रियः¶
Padacheda: हृदयस्य | S | 6 | 1 |
प्रियः | S | 1 | 1 |
Sutrartha¶
षष्ठीसमर्थात् ‘हृदय’ शब्दात् ‘प्रियः’ अस्मिन् अर्थे संज्ञायां विषये यत्-प्रत्ययः भवति ।
षष्ठीसमर्थात् ‘हृदय’शब्दात् ‘प्रियः’ अस्मिन् अर्थे यत्-प्रत्ययः विधीयते । हृदयस्य प्रियः = हृदय + यत् → हृद् + य [हृदयस्य हृल्लेखयदण्लासेषु (6.3.50) इत्यनेन भसंज्ञकस्य ‘हृदय’शब्दस्य यत्-प्रत्यये परे हृद्-आदेशः] → हृद्य अत्र ‘संज्ञायाम्’ इति अनुवर्तते, अतः ‘हृदस्य प्रियः हृद्यः देशः / हृदस्य प्रियम् हृद्यम् वनम्’ एतेषु एव अर्थेषु ‘हृद्य’ शब्दः प्रयुज्यते, न हि ‘हृदस्य प्रियः पुत्रः / हृद्स्य प्रियः हृद्यः सखा’ एतेषु अर्थेषु ।
Vasu English Summary¶
The affix यत् comes in the sense of ‘loved’ after the word हृदय being in the Genitive -6th-Case in construction.
Vasu English Translation¶
The affix यत् comes in the sense of ‘loved’ after the word हृदय being in the Genitive -6th-Case in construction. The construction is shown by the aphorism itself. Thus हृदयस्य प्रियः = हृ꣡द्यः ‘pleasant to the heart’ e. g. हृद्यो देशः, हृद्यं वनम् ॥ But we cannot say हृद्यः पुत्रः, the word संज्ञायां (4.4.99) governs this sutra also, and thus restricts the meaning of the word.
Kashika¶
निर्देशादेव समर्थविभक्तिः। हृदयशब्दात् षष्ठीसमर्थात् प्रिय इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। हृदयस्य प्रियो हृद्यो देशः। हृद्यं वनम्। संज्ञाधिकारादभिधेयनियमः। इह न भवति — हृदयस्य प्रियः पुत्र इति॥
Siddhanta Kaumudi¶
हृद्यो देशः । हृदस्य हृल्लेख-(SK988) इति हृदादेशः ॥
Balamanorama¶
हृदयस्य प्रियः - ह्मदयस्य प्रियः । षष्ठन्ताद्धृदयशब्दात्प्रिय इत्यर्थे यत्स्यादित्यर्थः ।
Tattvabodhini¶
हृदयस्य प्रियः - ह्मदयस्य । प्रीणतीति प्रियः ।इगुपधे॑ति कः । कृद्योगात्कर्मणि षष्ठी, अलौकिके तद्धित प्रकृतिभागे तु वचनसामर्थ्यादेव । एवमन्यत्रापि बोध्यम् ।
Padamanjari¶
हृदयमु अन्तः करणम्, प्रियमु प्रीतिकरम् । हृद्यमिति ।’हृदयस्य हृल्लेखयदण्लासेषु’ इति हृदादेशः ॥
Nyaas¶
ह्मद्यः इति। हृदयस्य हृल्लेखयदण्लासेषु (6.3.50) इत्यादिना ह्मद्भावः॥
Prakriyasarvasvam¶
अत्रार्थे यत् ॥
Sutra Prayogas¶
हृद्यताम् (किरातार्जुनीयम्): हृदयस्य प्रियः इति यत्प्रत्ययः।