44094: उरसोऽण् च ================ **Padacheda:** उरसः | S | 5 | 1 | अण् | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **उरस्-शब्दात् 'निर्मितः' अस्मिन् अर्थे संज्ञायाः विषये 'अण्' तथा 'यत्' प्रत्ययौ भवतः ।** 'उरसा निर्मितः' अस्मिन् अर्थे उरस्-शब्दात् अण् तथा यत् प्रत्ययौ भवतः । 1. अण्-प्रत्यये परे प्रक्रिया - उरसा निर्मितः = उरस् + अण् → औरस् + अ [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] → औरस । 2. यत्-प्रत्यये परे प्रक्रिया - उरसा निर्मितः = उरस् + यत् → उरस् + य → उरस्य ज्ञातव्यम् - 1. अस्मिन् सूत्रे अर्थसामर्थ्यात् तृतीयासामर्थ्यम् गृह्यते । 2. अत्र 'संज्ञायाम्' इति अनुवर्तते, अतः औरस / उरस्य शब्दयोः प्रयोगः केवलम् 'पुत्रम्' अस्मिन्नेव अर्थे भवति । सः पुत्रः, यः गर्भात् न निर्मितः अपितु केवलं पुत्ररूपेण स्वीकृतः, तस्य निर्देशः 'औरस' / 'उरस्य' अनेन शब्देन क्रियते । Vasu English Summary -------------------- The affixes अण् and यत् come in the sense of 'made' after उरस् in the Instrumental -3rd case in construction. Vasu English Translation ------------------------ The affixes अण् and यत् come in the sense of 'made' after उरस् in the Instrumental -3rd case in construction. The यत् is drawn into the *sutra* by the particle च ॥ उरसा निर्मितः = औरसं꣡ 'own son not adopted, lit. produced through the loins,' With यत् the form will be उरस्यः॑ ॥ These words denote son, and not anything produced from the loin, because the word संज्ञायां (4.4.89) governs this *sutra* also. Kashika ------- उरःशब्दात् तृतीयासमर्थाद् निर्मित इत्येतस्मिन्नर्थेऽण् प्रत्ययो भवति, चकाराद् यत् च। उरसा निर्मित औरसः पुत्रः। उरस्यः पुत्रः। संज्ञाधिकारादभिधेयनियमः॥ Siddhanta Kaumudi ----------------- चाद्यत् । उरसा निर्मितः पुत्रः औरसः । उरस्यः ॥ Balamanorama ------------ **उरसोऽण् च** - उरसोऽण्च ।तृतीयान्तान्निर्मिते इत्यर्थे॑ इति शेषः । उरस्य इति ।अङ्गादङ्गात्सम्भवसि ह्मदयादधिजायसे॑ इति श्रुतेरिति भावः । 'पुत्र' इति संज्ञाधिकाराल्लब्धम् । Tattvabodhini ------------- **उरसोऽण् च** - पुत्र इति । संज्ञाधिकारान्नेह — उरसा निर्मितं सुखम् । Padamanjari ----------- औरसः पुत्र इति । आत्मनोत्पादित इत्यर्थः । संज्ञाधिकारादभिधेयनियम इति । उरसा निर्मितं सुखमित्यादौ न भवति ॥ Nyaas ----- `संज्ञाधिकारादभिधेयनियमः` इति। तेनोरसा निर्मितं सुखमित्यादौ न भवतीति भावः॥ Prakriyasarvasvam ----------------- आत्मार्थादुरसो निर्मितेऽण् यच्च । औरस उरस्यो वा पुत्रः ॥