44093: छन्दसो निर्मिते

Padacheda: छन्दसः | S | 5 | 1 |

निर्मिते | S | 7 | 1 |

Sutrartha

‘छन्दसः (इच्छया) निर्मितः’ अस्मिन् अर्थे संज्ञायाः विषये तृतीयासमर्थात् यत्-प्रत्ययः भवति ।

‘छन्दस्’ इत्युक्ते इच्छा । ‘इच्छया निर्मितः’ अस्मिन् अर्थे तृतीयासमर्थात् संज्ञायाः विषये ‘छन्दस्’शब्दात् यत्-प्रत्ययः भवति । छन्दसा निर्मितम् तत् छन्दस्यम् । ज्ञातव्यम् - 1. प्रत्ययार्थमनुसृत्य अस्मिन् सूत्रे ‘तृतीयासमर्थ’ग्रहणम् क्रियते । अतः काशिकाकारः वदति - ‘प्रत्ययार्थसामर्थ्यलभ्या समर्थविभक्तिः’ । 2. अत्र ‘संज्ञायाम्’ इति अनुवर्तते, अतः विशिष्ट-अर्थेषु एव ‘छन्दस्य’ शब्दस्य प्रयोगः भवति, सर्वत्र न । यथा, छन्दस्या वाक् । 3. यद्यपि ‘छन्दस्’ शब्दस्य सामान्यरूपेण ‘वेदः’ तथा ‘गानवृत्तम्’ एतौ द्वौ अर्थौ स्तः, तथापि अस्मिन् सूत्रे ‘छन्दस्’ शब्दस्य अर्थः ‘इच्छा’ इति गृह्यते ।

Vasu English Summary

The affix यत् comes in the sense of ‘made’ after the word छन्दस् being in the Instrumental -3rd case in construction.

Vasu English Translation

The affix यत् comes in the sense of ‘made’ after the word छन्दस् being in the Instrumental -3rd case in construction. Thus छन्दसा निर्मितं = छन्दस्यः ‘made at will.’ The word छन्दस् is here synonymous with इच्छा ‘will, wish, desire, fancy’ &c, and does not mean ‘metre or Veda.’

Kashika

प्रत्ययार्थसामर्थ्यलभ्या समर्थविभक्तिः। छन्दः शब्दात् तृतीयासमर्थाद् निर्मित इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। निर्मित उत्पादितः। छन्दसा निर्मितश्छन्दस्यः। इच्छया कृत इत्यर्थः। इच्छापर्यायश्छन्दः शब्द इह गृह्यते॥

Siddhanta Kaumudi

छन्दसा निर्मितं छन्दस्यम् । इच्छया कृतमित्यर्थः ॥

Balamanorama

छन्दसो निर्मिते - छन्दसो निर्मिते । छन्दश्शब्दात्तृतीयान्तान्निर्मितेऽर्थे । यदित्यर्थः । इच्छयेति । छन्दःशब्द इच्छावाचीति भावः ।छन्दः पद्येऽभिलाषे चे॑त्यमरः ।

Tattvabodhini

छन्दसो निर्मिते - छन्दसो ।छदि संवरे॑इति चुरादिरिच्छायामपि वर्तते, धातूनामनेकार्थत्वात् । ततो घञि इच्छापर्यायश्छन्दः — शब्दः प्रसिद्ध एवस्वच्छन्दोच्छलदच्छकच्छे॑त्यादौ । असुनि तु यः सान्तः सोऽत्र प्रकृतिः । तत्र निर्माणे इच्छायाः करणत्वत्सामर्थ्यात्तृतीयान्तात्प्रत्ययः । इच्छया कृतमिति । यद्यपिवेदे त्रिष्टुबादिषु च सान्तश्छन्दः शब्दोऽस्ति, तथापीह न गृह्रते, संज्ञाधिकारात्, किं त्विच्छापर्याय एव स गृ-ह्रत इति भावः ।

Padamanjari

प्रत्ययार्थसामर्ध्यं लभ्यते इति । निर्माणे च्छन्दसः करणत्वात् । इष्टपर्यायश्चन्दः शब्दो गृह्यते इति न वेदवचनः, नापि त्रिष्टुअबादिवचनः । एतच्च संज्ञाधिकाराल्लभ्यते । यद्यपि स्वच्छन्दतो हि वचसांप्रवृत्तिः,’च्छन्दानुवृत्तिदुत्साध्या’ इत्यादावकरान्तश्च्छन्दशब्द इच्छापर्यायः, तथापि तस्यैव धातोरसुन्नन्तस्येच्छावाचित्वमविरुद्धं चेति मन्यते ॥

Nyaas

प्रत्ययार्थसामर्थ्यलभ्या` इति। निर्मिते इति प्रत्ययार्थः। तत्र च्छन्दसः करणत्वमिति सामर्थ्यात् तृतीया समर्थविभक्तिर्लभ्यते। छन्दःशब्दोऽयं वेदे त्रिष्टुवादौ, इच्छायाश्च वर्तते; इह त्विच्छायां वर्तमानो गृह्रते, अत एवाह - इच्छाया कृतः इति। इच्छावृत्तिस्तु संज्ञाग्रहणस्याभिधेयनियमार्थस्यानुवृत्तेर्लभ्यते॥

Prakriyasarvasvam

इच्छार्थाच्छन्दसो निर्मिते यत् । इच्छया कृतं छन्दस्यम् ॥