44092: धर्मपथ्यर्थन्यायादनपेते¶
Padacheda: धर्म-पथि-अर्थ-न्यायात् | S | 5 | 1 |
अनपेते | S | 7 | 1 |
Sutrartha¶
धर्म, पथिन् अर्थ, न्याय - एतेभ्यः पञ्चमीसमर्थेभ्यः संज्ञायाः विषये ‘अनपेतम्’ (अच्युतम् / युक्तम्) अस्मिन् अर्थे यत्-प्रत्ययः भवति ।
‘अनपेतम्’ इत्युक्ते ‘न अपेतम्’ (न च्युतम्) । अस्मिन् अर्थे पञ्चमीसमर्थात् ‘धर्म’, ‘पथिन्’, ‘अर्थ’ तथा ‘न्याय’ शब्दात् यत्-प्रत्ययः भवति । 1. धर्मात् अनपेतम् तत् धर्म्यम् । धर्मसम्मतम्, धर्मात् न च्युतम् - इत्यर्थः । प्रक्रिया इयम् - धर्म + यत् → धर्म् + य [यस्येति च (6.4.148) इति अकारलोपः] → धर्म्य 2. पथः अनपेतम् तत् पथ्यम् । मार्गसम्मतम् इत्यर्थः । प्रक्रिया इयम् - पथिन् + यत् → पथ् + य [नस्तद्धिते (6.4.144) इति टिलोपः] → पथ्य 3. अर्थात् अनपेतम् तत् अर्थ्यम् । अर्थ + यत् → अर्थ् + य [यस्येति च (6.4.148) इति अकारलोपः] → अर्थ्य । 4. न्यायात् अनपेतम् तत् न्याय्यम् । न्याय + यत् → न्याय् + य [यस्येति च (6.4.148) इति अकारलोपः] → न्याय्य स्मर्तव्यम् - अस्मिन् सूत्रे ‘संज्ञायाम्’ इति अनुवर्तते, अतः एतेषां शब्दानां प्रयोगः विशिष्ट-अर्थे एव भवति, सामान्यरूपेण न । यथा, शास्त्रीय-मार्गात् यत् अनपेतं वर्तते, तस्यैव नाम ‘पथ्यम्’ इति दीयते, न हि प्रत्यक्ष-मार्गात् यत् अनपेतम् तस्य।
Vasu English Summary¶
The affix यत् comes in the sense of ‘not deviating there from’ after the words 1. धर्म 2. पथिन् 3. अर्थ and 4. न्याय ।
Vasu English Translation¶
The affix यत् comes in the sense of ‘not deviating there from’ after the words 1. धर्म 2. पथिन् 3. अर्थ and 4. न्याय । The ablative construction is inferred from its employment in the sutra itself. Thus धर्मादनपेतं = ध꣡र्म्यम् ‘just’ ‘not deviating from merit.’ Similarly प꣡थ्यम् ॥ शास्त्रीयात् पथो यदनपेतं तत् पथ्यं, न तु तस्मादनपेतश्चोरः ‘wholesome diet,’ अ꣡र्थ्यम् ‘fit’, ना꣡य्यम् ‘just, suitable.’ The word संज्ञायां (4.4.89) governs this sutra also, and hence the derivatives must have the above meanings.
Kashika¶
निर्देशादेव पञ्चमी समर्थविभक्तिः। धर्मादिभ्यः पञ्चमीसमर्थेभ्योऽनपेत इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। धर्मादनपेतं धर्म्यम्। पथ्यम्। अर्थ्यम्। न्याय्यम्। संज्ञाधिकारादभिधेयनियमः॥
Siddhanta Kaumudi¶
धर्मादनपेतं धर्म्यम् । पथ्यम् । अर्थ्यम् । न्याय्यम् ॥
Balamanorama¶
धर्मपथ्यर्थन्यायादनपेते - धर्मपथ्यर्थ । धर्म, पथिन्, अर्थ, न्याय एभ्योऽनपेतमित्यर्थे यदित्यर्थः । औचित्यात्पञ्चम्यन्तेभ्य इति लभ्यते । धर्मादनपेतमिति । अप्रच्युतमित्यर्थः । पथ्यमिति । पथोऽनपेतमित्यर्थः । न्याय्यमिति । न्यायदनपेतमित्यर्थः ।
Tattvabodhini¶
धर्मपथ्यर्थन्यायादनपेते - पथ्यमिति । संज्ञाधिकारादभिधेयनियमः, तेन शास्त्रीयात्पथोऽनपेतमेव पथ्यम् । न तु मार्गादनपेतश्चोरोऽपि ।
Padamanjari¶
निर्देशादेवेति । सत्यर्थसम्भवेऽर्थान्तरस्य वा सम्भवे सति निर्देशादिति द्रष्टव्यम्,’धुरो यड्ढको’ इत्यत्रातिप्रसङ्गो नोद्भावनीयः । संज्ञाधिकारादभिधेयस्य नियत इति । शास्त्रीयात् पथो यदनपेतं तत् पथ्यम्, न तु तस्मादनपेतश्चोरः ॥
Prakriyasarvasvam¶
धर्मादनपेतं धर्म्यं चेष्टितम् । वैद्योक्तात् पथोऽनपेतं पथ्यम् । अर्थ्यम् । न्याय्यम् ।
Sutra Prayogas¶
अर्थ्याम् (रघुवंशम्): धर्मपथ्यर्थन्यायादनपेते इति यप्रत्ययः।
न्याय्या (रघुवंशम्): धर्मपथ्यर्थन्यायादनपेते इत्यादिना यत्प्रत्ययः।
धर्म्यम् (रघुवंशम्): धर्मपथ्यर्थन्यायादनपेते इति यत्प्रत्ययः।
धर्म्याणां (कुमारसम्भवम्): धर्मपथ्यर्थन्यायादनपेते इति यत्प्रत्ययः।
धर्म्यां (किरातार्जुनीयम्): धर्मपथ्यर्थन्यायादनपेते इति यत्प्रत्ययः।
न्याय्यम् (किरातार्जुनीयम्): धर्मपथ्यर्थन्यायादनपेते इति यत्प्रत्ययः।