44093: छन्दसो निर्मिते ====================== **Padacheda:** छन्दसः | S | 5 | 1 | निर्मिते | S | 7 | 1 | Sutrartha --------- **'छन्दसः (इच्छया) निर्मितः' अस्मिन् अर्थे संज्ञायाः विषये तृतीयासमर्थात् यत्-प्रत्ययः भवति ।** 'छन्दस्' इत्युक्ते इच्छा । 'इच्छया निर्मितः' अस्मिन् अर्थे तृतीयासमर्थात् संज्ञायाः विषये 'छन्दस्'शब्दात् यत्-प्रत्ययः भवति । छन्दसा निर्मितम् तत् छन्दस्यम् । ज्ञातव्यम् - 1. प्रत्ययार्थमनुसृत्य अस्मिन् सूत्रे 'तृतीयासमर्थ'ग्रहणम् क्रियते । अतः काशिकाकारः वदति - 'प्रत्ययार्थसामर्थ्यलभ्या समर्थविभक्तिः' । 2. अत्र 'संज्ञायाम्' इति अनुवर्तते, अतः विशिष्ट-अर्थेषु एव 'छन्दस्य' शब्दस्य प्रयोगः भवति, सर्वत्र न । यथा, छन्दस्या वाक् । 3. यद्यपि 'छन्दस्' शब्दस्य सामान्यरूपेण 'वेदः' तथा 'गानवृत्तम्' एतौ द्वौ अर्थौ स्तः, तथापि अस्मिन् सूत्रे 'छन्दस्' शब्दस्य अर्थः 'इच्छा' इति गृह्यते । Vasu English Summary -------------------- The affix यत् comes in the sense of 'made' after the word छन्दस् being in the Instrumental -3rd case in construction. Vasu English Translation ------------------------ The affix यत् comes in the sense of 'made' after the word छन्दस् being in the Instrumental -3rd case in construction. Thus छन्दसा निर्मितं = छन्दस्यः 'made at will.' The word छन्दस् is here synonymous with इच्छा 'will, wish, desire, fancy' &c, and does not mean 'metre or *Veda*.' Kashika ------- प्रत्ययार्थसामर्थ्यलभ्या समर्थविभक्तिः। छन्दः शब्दात् तृतीयासमर्थाद् निर्मित इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। निर्मित उत्पादितः। छन्दसा निर्मितश्छन्दस्यः। इच्छया कृत इत्यर्थः। इच्छापर्यायश्छन्दः शब्द इह गृह्यते॥ Siddhanta Kaumudi ----------------- छन्दसा निर्मितं छन्दस्यम् । इच्छया कृतमित्यर्थः ॥ Balamanorama ------------ **छन्दसो निर्मिते** - छन्दसो निर्मिते । छन्दश्शब्दात्तृतीयान्तान्निर्मितेऽर्थे । यदित्यर्थः । इच्छयेति । छन्दःशब्द इच्छावाचीति भावः ।छन्दः पद्येऽभिलाषे चे॑त्यमरः । Tattvabodhini ------------- **छन्दसो निर्मिते** - छन्दसो ।छदि संवरे॑इति चुरादिरिच्छायामपि वर्तते, धातूनामनेकार्थत्वात् । ततो घञि इच्छापर्यायश्छन्दः — शब्दः प्रसिद्ध एवस्वच्छन्दोच्छलदच्छकच्छे॑त्यादौ । असुनि तु यः सान्तः सोऽत्र प्रकृतिः । तत्र निर्माणे इच्छायाः करणत्वत्सामर्थ्यात्तृतीयान्तात्प्रत्ययः । इच्छया कृतमिति । यद्यपिवेदे त्रिष्टुबादिषु च सान्तश्छन्दः शब्दोऽस्ति, तथापीह न गृह्रते, संज्ञाधिकारात्, किं त्विच्छापर्याय एव स गृ-ह्रत इति भावः । Padamanjari ----------- प्रत्ययार्थसामर्ध्यं लभ्यते इति । निर्माणे च्छन्दसः करणत्वात् । इष्टपर्यायश्चन्दः शब्दो गृह्यते इति न वेदवचनः, नापि त्रिष्टुअबादिवचनः । एतच्च संज्ञाधिकाराल्लभ्यते । यद्यपि स्वच्छन्दतो हि वचसांप्रवृत्तिः,'च्छन्दानुवृत्तिदुत्साध्या' इत्यादावकरान्तश्च्छन्दशब्द इच्छापर्यायः, तथापि तस्यैव धातोरसुन्नन्तस्येच्छावाचित्वमविरुद्धं चेति मन्यते ॥ Nyaas ----- प्रत्ययार्थसामर्थ्यलभ्या` इति। `निर्मिते` इति प्रत्ययार्थः। तत्र च्छन्दसः करणत्वमिति सामर्थ्यात् तृतीया समर्थविभक्तिर्लभ्यते। छन्दःशब्दोऽयं वेदे त्रिष्टुवादौ, इच्छायाश्च वर्तते; इह त्विच्छायां वर्तमानो गृह्रते, अत एवाह - `इच्छाया कृतः` इति। इच्छावृत्तिस्तु संज्ञाग्रहणस्याभिधेयनियमार्थस्यानुवृत्तेर्लभ्यते॥ Prakriyasarvasvam ----------------- इच्छार्थाच्छन्दसो निर्मिते यत् । इच्छया कृतं छन्दस्यम् ॥