44075: प्राग्घिताद्यत्¶
Padacheda: प्राक् | S | 0 | 0 |
हितात् | S | 5 | 1 |
यत् | S | 1 | 1 |
Sutrartha¶
प्राक्-हितीय-अर्थेषु यत्-प्रत्ययः औत्सर्गिकरूपेण भवति ।
तद्धिताधिकारे पाठितेभ्यः पञ्च-महोत्सर्गेभ्यः तृतीयः महोत्सर्गः अस्मात् सूत्रात् आरभ्यते । वर्तमानसूत्रतः तस्मै हितम् (5.1.5) इति यावत्सु सूत्रेषु आहत्य द्वात्रिंशत् (32) अर्थाः पाठिताः सन्ति । एते सर्वे अर्थाः ‘प्राग्घितीय-अर्थाः’ नाम्ना ज्ञायन्ते । एतेषां सर्वेषाम् विषये औत्सर्गिकरूपेण यत्-प्रत्ययः भवति । अस्य यत्-प्रत्ययस्य अपवादरूपेण भिन्नैः सूत्रैः भिन्नासु अवस्थासु विविधानाम् प्रत्ययानाम् विधानम् क्रियते । यत्-प्रत्ययस्य कानिचन उदाहरणानि - अ) रथं वहति सः = रथ + यत् = रथ्य आ) छन्दसा (=इच्छया) निर्मितः = छन्दस् + यत् = छन्दस्य इ) सभायां साधुः = सभा + यत् = सभ्य । प्रक्रिया इयम् - रथ + यत् → रथ् + यत् [यस्येति च (6.4.148) इति अकारलोपः] → रथ्य 31 प्राग्घितीय-अर्थाः एते - 1. तद्वहति रथयुगप्रासङ्गम् (4.4.76) 2. विध्यत्यधनुषा (4.4.83) 3. धनगणं लब्धा (4.4.84) 4. वशं गतः (4.4.86) 5. पदमस्मिन् दृश्यम् (4.4.87) 6. मूलमस्याबर्हि (4.4.88) 7. गृहपतिना संयुक्ते ञ्यः (4.4.90) 8. नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसम्मितेषु (4.4.91) 9. धर्मपथ्यर्थन्यायादनपेते (4.4.92) 10. छन्दसो निर्मिते (4.4.93) 11. हृदयस्य प्रियः (4.4.95) 12. बन्धने चर्षौ (4.4.96) 13. मतजनहलात् करणजल्पकर्षेषु (4.4.97) 14. तत्र साधुः (4.4.98) 15. समानतीर्थे वासी (4.4.107) 16. समानोदरे शयित ओ चोदात्तः (4.4.108) 17. भवे छन्दसि (4.4.110) 18. बर्हिषि दत्तम् (4.4.119) 19. दूतस्य भागकर्मणी (4.4.120) 20. रक्षोयातूनां हननी (4.4.121) 21. रेवतीजगतीहविष्याभ्यः प्रशस्ये (4.4.122) 22. असुरस्य स्वम् (4.4.123) 23. मायायामण् (4.4.124) 24. तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः (4.4.125) 25. मत्वर्थे मासतन्वोः (4.4.126) 26. पूर्वैः कृतमिनियौ च (4.4.133) 27. अद्भिः संस्कृतम् (4.4.134) 28. सहस्रेण संमितौ घः (4.4.135) 29. सोममर्हति यः (4.4.137) 30. मये च (4.4.138) 31. शिवशमरिष्टस्य करे (4.4.143) 32. भावे च (4.4.144) एतेभ्यः अर्थेभ्यः भवे छन्दसि (4.4.110) एतस्मात् सप्तदशात् अर्थात् आरभ्य भावे च (4.4.144) इति अन्तिममर्थम् यावत् निर्दिष्टाः अर्थाः केवलं छन्दसि (वेदेषु) एव विधीयन्ते इति स्मर्तव्यम् ।
Sutrartha (English)¶
The यत् प्रत्यय is used as a default for the प्राक्-हितीय meanings.
Vasu English Summary¶
In each sūtra from this one forward to – तस्मै हितम् (5.1.5), the affix यत् bears rule.
Vasu English Translation¶
In each sūtra from this one forward to – तस्मै हितम् (5.1.5), the affix यत् bears rule. Thus in the next sutra तद्वहति रथयुगप्रासङ्गम् we must read the affix यत् ॥ रथ्यः, युग्यः, प्रासङ्ग्यः ॥
Kashika¶
तस्मै हितम्**(५.१.५) इति वक्ष्यति। प्रागेतस्माद् हितसंशब्दनाद् यानित ऊर्ध्वमनुक्रमिष्यामो यत्प्रत्ययस्तेष्वधिकृतो वेदितव्यः। वक्ष्यति — **तद्वहति रथयुगप्रासङ्गम् (४.४.७६) — रथ्यः। युग्यः। प्रासङ्ग्यः॥
Siddhanta Kaumudi¶
तस्मै हितम् (SK1665) इत्यतः प्राक् यदधिक्रियते ॥
Laghu Siddhanta Kaumudi¶
तस्मै हितमित्यतः प्राग् यदधिक्रियते ॥
Balamanorama¶
प्राग्घिताद्यत् - अथ प्राग्घितीयप्रकरणं निरूप्यते — प्राग्घिताद्यत् । हितशब्दस्तद्धटितसूत्रपरः तदाह — तस्यै हितमिति ।
Prakriyasarvasvam¶
‘तस्मै हितम्’ (५-१-५) इत्यतः प्राग् यद्विधिः । इह च तत्र साधुरित्ये- वार्थो बहुविषयः ॥