44074: आवसथात् ष्ठल्

Padacheda: आवसथात् | S | 5 | 1 |

ष्ठल् | S | 1 | 1 |

Sutrartha

सप्तमीसमर्थात् ‘आवसथ’शब्दात् ‘वसति’ इत्यस्मिन् अर्थे ष्ठल्-प्रत्ययः भवति ।

‘आवसथ’ इत्युक्ते निवासं कर्तुम् योग्यम् स्थलम् । अस्मात् शब्दात् सप्तमीसमर्थात् ‘वसति’ अस्मिन् अर्थे ष्ठल्-प्रत्ययः भवति ।

आवसथे वसति सः = आवसथ + ष्ठल् → आवसथिकः ।

‘ष्ठल्’ इत्यत्र षकारः इत्संज्ञकः अस्ति, तस्य प्रयोजनम् - ‘स्त्रीत्वे विवक्षिते षिद्गौरादिभ्यश्च (4.1.41) इति ङीष्-प्रत्ययविधानम्’ - इति अस्ति । यथा - आवसथे वसति सा = आवसथ + ष्ठल् + ङीष् → आवसथिकी । ‘ष्ठल्’ इत्यत्र लकारः अपि इत्संज्ञकः अस्ति, तस्य प्रयोजनम् - ‘लिति (6.1.193) इति प्रत्ययात् पूर्वस्य स्वरस्य उदात्तत्वम्’ - इति अस्ति । तथा, ‘आवसथिक’ इत्यत्र ‘इक’ इति प्रत्ययः, तस्मात् पूर्वम् विद्यमानः सकारोत्तरः अकारः अनेन सूत्रेण उदात्तत्वं प्राप्नोति । स्मर्तव्यम् - तद्धिताधिकारे ये पञ्च महोत्सर्गाः पाठ्यन्ते, तेषु द्वितीयः महोत्सर्गः (ठगधिकारः) यस्य प्रारम्भः प्राग्वहतेष्ठक् (4.4.1) इत्यत्र भवति, सः अत्र समाप्यते ।

Vasu English Summary

The affix ष्ठल् comes in the sense of ‘who dwells there’ after the word आवसथ in the Locative -7th case in construction.

Vasu English Translation

The affix ष्ठल् comes in the sense of ‘who dwells there’ after the word आवसथ in the Locative -7th case in construction. The ल् of ष्ठल् is for accent (6.1.193), the ष् is for ङीष् (4.1.41). Thus आवसथे वसति = आवसथिकः ‘who dwells in a house’ i. e. a domestic person as opposed to an ascetic. The feminine will be आवसथिकी ॥ So far was the scope of ठक् as ordained in (4.4.1). Henceforward other affixes will be ordained.

Kashika

तत्रेत्येव। आवसथशब्दात् सप्तमीसमर्थाद् वसतीत्येतस्मिन्नर्थे ष्ठल्प्रत्ययो भवति। लकारः स्वरार्थः। षकारो ङीषर्थः। आवसथे वसति आवसथिकः। आवसथिकी। ठकः पूर्णोऽवधिः, अतः परमन्यः प्रत्ययो विधीयते॥

Siddhanta Kaumudi

आवसथे वसति आवसथिकः । षित्वान्ङीष् । आवसथिकी ॥<!आकर्षात्पर्पादेर्भस्त्रादिभ्यः कुसीदसूत्राच्च !> (वार्तिकम्) ॥ आवसथात्किसरादेः षितः षडेते ठगधिकारे ॥ 1 ॥ षडिति सूत्रषट्केन विहिता इत्यर्थः । प्रत्ययास्तु सप्त ॥ ठकोऽवधिः समाप्तः ॥

Balamanorama

आवसथात् ष्ठल् - आवसथाष्ठल् । तत्र वसतीत्यर्थे आवसतात्सप्तमय्न्तात्ष्ठलित्यर्थः । आवसथं — गृहम् । षित्त्वं ङीषर्थम् । तदाह — आवसथिकीति । आकर्षादित्यादि । श्लोकवार्तिकमिदम् — ॒प्राग्वहतेष्ठक् इत्यादौ ठगिति वा ष्ठगिति छेद इति संशयनिवृत्त्यर्थम्आकर्षात्ष्ठ॑लिति सूत्रभाष्ये पठितम् । तत्र आकर्षादित्यनेनआकर्षात्ष्ठ॑लिति सूत्रं विवक्षितम् । ‘पर्पादिभ्यः’ इत्यनेनपर्पादिभ्यः ष्ठ न्निति सूत्रं विपक्षितम् । ‘भस्त्रादिभ्यः’ इत्यनेनभस्त्रादिभ्यः ष्ठ॑न्निति सूत्रं विवक्षितम् । कुसीदसूत्रादित्यनेनकुसीददशैकादशात् ष्ठन्ष्ठचौ॑ इति सूत्रं विवक्षितम् । आवसथादित्यनेनआवसथात्ष्ठ॑लिति सूत्रं विवक्षितम् । किसरादेरित्यनेनकिसरादिभ्यः ष्ठ॑न्निति सूत्रं विवक्षितम् । ‘प्राग्वहतेष्ठक्’ इत्यधिकारे एतैः सूत्रैर्विहिताः षट् प्रत्ययाः षित इत्यर्थः । ननुकुसीदे॑ति सूत्रे प्रत्ययद्वयविधानादेतत्सूत्रषट्कविहिता सप्त प्रत्यया लभ्यन्त इति षट् षित इति कथमित्यत आह — षडितीति ।ष॑डित्यनेन सूत्राभिप्रायं षट्त्वं विवक्षितमिति भावः । *****इति बालमनोरमायाम् प्राग्वहतीयाः ।*****अथ ठञधिकारः । — — — — — —

Tattvabodhini

आवसथात् ष्ठल् - आवसथात् । लकारः स्वरार्थः । आवसन्त्यस्मिन्नित्यावसथः ।उपसर्गे वसेः॑इत्यप्रत्ययः । आकर्षत्पर्पादेर्भस्त्रादिभ्यः कुसीदसूत्राच्च ।कुसीदसूत्रादिति ।कुसीददशैकादशा॑दिति सूत्रोपात्ताभ्यां प्रकृतिभ्यामित्यर्थः । इहनौव्द्यचष्ठ॑नित्यत्रेव येषां षकारः सांहितिक इति सम्भाव्यते तेषामेव गणने ष्ठलादेः षित्त्वामनार्षमिति भ्रमः स्यादतः श्र्लोकवार्तिककारः षित्प्रत्ययान्सर्वानपि पर्यजीगणत् । ठकोऽवधिः समाप्तः ।इति तत्त्वबोधिन्यां ठगधिकारः ।

Padamanjari

आवसत्येतमिति आवसथः, ठुपसर्गे वसेःऽ इतियथप्रत्ययः । ठकः पूर्णो विधिरिति । प्राग्वहतीयस्य ठको विधानं पूर्णामित्यर्थः, अवधिरिति पाठे पूर्णः प्राप्त इत्यर्थः ॥

Prakriyasarvasvam

षिदयम् । गृहे वसन्नावसथिकः ॥