44076: तद्वहति रथयुगप्रासङ्गम्

Padacheda: तत् | S | 2 | 1 |

वहति | T | | |

रथ-युग-प्रासङ्गम् | S | 2 | 1 |

Sutrartha

‘वहति’ अस्मिन् अर्थे द्वितीयासमर्थात् रथशब्दात्, युगशब्दात्, प्रासङ्गशब्दात् च यत्-प्रत्ययः भवति ।

‘वहति’ अस्मिन् अर्थे वाहकस्य निर्देशं कर्तुम् रथशब्दात्, युगशब्दात्, प्रासङ्गशब्दात् च यत्-प्रत्ययः भवति । यथा - 1. रथम् वहतिः सः रथ्यः अश्वः । 2. युगं (= युगलम्) वहति सः युग्यः वृषभः । 3. प्रासङ्गम् वहति सः प्रासङ्ग्यः वृषभः । (वृषभस्य कण्ठे तस्य दमनार्थम् यत् काष्ठम् बद्ध्यते तत् ‘प्रासङ्ग’ नाम्ना ज्ञायते । तादृशं काष्ठं यः वहति सः प्रासङ्ग्यः ।) अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - <!रथसीताहलेभ्यो यद्विधौ तदन्तविधेः उपसङ्ख्यानम्!> । इत्युक्ते, रथशब्दात्, सीताशब्दात्, हलशब्दात् च यत्-प्रत्ययः यदा क्रियते तदा तदन्तस्य विषये अपि यत्-प्रत्ययविधानम् भवति । वर्तमानसूत्रस्य विषये अस्य वार्त्तिकस्य प्रयोगं कृत्वा ‘परमरथ’ शब्दात् अपि यत्-प्रत्ययविधानम् भवति । यथा - परमरथम् वहति सः परमरथ्यः अश्वः । उत्तमरथं वहति सः उत्तमरथ्यः अश्वः । स्मर्तव्यम् - ‘सीता’शब्दस्य विषये तथा च ‘हल’शब्दस्य विषये वर्तमानसूत्रे अस्य वार्त्तिकस्य प्रयोजनम् नास्ति । अग्रे ** नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसम्मितेषु** (4.4.91) इत्यत्र ‘सीता’शब्दस्य विषये तथा च मतजनहलात् करणजल्पकर्षेषु (4.4.97) इत्यत्र ‘हल’शब्दस्य विषये ‘यत्’-प्रत्ययविधानम् क्रियते तत्र अनयोः शब्दयोः विषये अस्य वार्त्तिकस्य प्रयोजनम् वर्तते । ज्ञातव्यम् - ‘रथम वहति सः’ अस्य वाक्यस्य ‘रथस्य वाहकः / वोढा’ इत्येव अर्थः अस्ति । अपि च, ‘रथस्य वाहकः’ इत्यस्य विषये तस्येदम् (4.3.120) इत्यस्मिन् अर्थे रथाद्यत् (4.3.121) इत्यनेन यत्-प्रत्ययः तु प्राग्दीव्यतीय-अधिकारे पूर्वमेव प्राप्तः अस्ति । अतः अत्र यत्-प्रत्ययस्य पुनर्विधानम् किमर्थम् क्रियते - इति प्रश्नः उपतिष्ठति । अस्य उत्तरार्थम् भाष्यकारः वदति - ‘इदं तर्हि प्रयोजनम् - यो द्वौ रथौ वहति स द्विरथ्यः। यो द्वयो रथयोर्वोढा स द्विरथः’ । इत्युक्ते, यद्यपि ‘रथ’ शब्दस्य विषये द्वयोः सूत्रयोः प्रक्रिया समाना एव, तथापि ‘द्विरथ’ शब्दस्य विषये तादृशं न दृश्यते । ‘द्वयोः रथयोः वाहकः’ इत्यस्मिन् प्राग्दीव्यतीये अर्थे द्विगुसमासस्य निर्माणप्रक्रियायां शब्दात् यत्-प्रत्यये कृते तस्य च अग्रे द्विगोर्लुगनपत्ये (4.1.88) इत्यनेन लुक् भवति । अतः, ‘द्विरथस्य वाहकः = द्विरथः’ इति अन्तिमम् रूपम् जायते । परन्तु ‘द्वे रथे वहति’ इति स्थिते वर्तमानसूत्रेण (निर्दिष्टवार्त्तिकेन च) ‘यत्’ प्रत्ययं कृत्वा तु ‘द्वे रथे वहति सः = द्विरथ्यः’ इति अन्तिमं रूपं सिद्ध्यति । अत्र द्विगोर्लुगनपत्ये (4.1.88) इत्यस्य प्रसक्तिः न भवति - तस्य ‘प्राग्दीव्यतीय’अधिकारसीमितत्वात् । अतः यद्यपि ‘रथम् वहति’ इत्यत्र वर्तमानसूत्रमनावश्यकं भासते, तथापि ‘द्विरथं वहति’ इत्यत्र वर्तमानसूत्रस्य आवश्यकता अस्ति एव । विशेषः - 1. वस्तुतस्तु अत्र <!रथसीताहलेभ्यो यद्विधौ तदन्तविधेः उपसङ्ख्यानम्!> अस्मिन् वार्त्तिके ‘रथ’शब्दस्य आवश्यकता एव नास्ति । वर्तमानसूत्रे रथ-ग्रहणमेव तदन्तविधेः अत्र ज्ञापकमस्ति । अस्य कारणम् एतत् - ‘रथ’शब्दात् यत्-प्रत्ययं कर्तुम् तु तस्येदम् (4.3.120) इत्यत्र पाठितम् रथाद्यत् (4.3.121) इत्येव सूत्रम् पर्याप्तमस्ति । अतः यदि रथ-शब्दस्य विषये यत्-प्रत्यये परे तदन्तविधिः न भवेत्, तर्हि परमरथ / द्विरथ / त्रिरथ / उत्तमरथ - एतेभ्यः वर्तमानसूत्रेण यत्-प्रत्ययः न विधीयेत, तेन च वर्तमानसूत्रे रथ-शब्दात् यत्-प्रत्ययस्य न किमपि विशिष्टं प्रयोजनमवशिष्येत । अतः वर्तमानसूत्रे ‘रथ’ शब्दस्य ग्रहणमेव तदन्तविधेः ज्ञापकमस्ति । 2. यद्यपि द्विगोर्लुगनपत्ये (4.1.88) इति सूत्रमजादिप्रत्ययस्य विषये एव लुकं कारयति तथापि अस्य प्रसक्तिः ‘द्विरथ’ इत्यस्य विषये अपि भवतीति नागेशः प्रदीपोद्योते स्पष्टीकरोति । काशिकाकारः तु द्विगोर्लुगनपत्ये (4.1.88) इत्यत्र ‘अचि’ इति न उक्त्वा केवलं ‘व्यवस्थितविभाषा’ इत्येव वदति, येन अपि ‘द्विरथ + यत्’ इत्यत्र प्राग्दीव्यतीय-अधिकारे लुक् विधीयते ।

Vasu English Summary

The affix यत् comes in the sense of ‘what bears it’ after the words 1. रथ 2. युग and 3. प्रासङ्ग being in the Accusative -2nd case in construction.

Vasu English Translation

The affix यत् comes in the sense of ‘what bears it’ after the words 1. रथ 2. युग and 3. प्रासङ्ग being in the Accusative -2nd case in construction. Thus रथं वहति = र꣡थ्यः ‘what bears a car’ a carriage-horse. Similarly यु꣡ग्यः ‘a yoke-bearing ox’, प्रासंग्यः ‘being trained in a break’. प्रासङ्ग is a piece of wood placed on the neck of colts, at the time of breaking. This rule applies to compounds ending with ratha, as, परमरथ्य ॥ See (4.3.121), (4.3.123) also. That which carries will be called ‘carrier’ or वोढृ therefore रथस्य वोढृ will get the affix यत् by (4.2.120), read with (4.3.121). Its special mention here indicates that the affix will come, even after Dvigu compounds and will not be elided by (4.1.88). Thus द्वौ रथौ वहति = द्विरथ्यः ॥ The tadanta-vidhi applies to this word as we have shown under (4.3.121). The word युग्य has been already formed by the krit affix (3.1.121), that युग्य differs from the present, in accent when the word takes the negative particle, for that was by ल्यप् and this is by यत्, and therefore by (6.2.156), अयुग्य꣡म् will be finally acute when formed by यत् ॥ The word युगं must mean ‘the portion of a car’ for the application of this rule, and not a cycle of time &c. Therefore not here युगं वहति राजा कलिं द्वापरं वा ॥

Bhashya

तद्वहति रथयुगप्रासङ्गम् (1814) (यतोऽधिकरणम्) (5576 सूत्राक्षेपवार्तिकम्॥ 1 ॥) - वहत्यभिधाने रथशकटहलसीरेभ्यः प्रत्ययविधानानर्थक्यं विहितत्वात् - (भाष्यम्) वहत्यभिधाने रथशकटहलसीरेभ्यः प्रत्ययविधानमनर्थकम्॥ किं कारणम्? विहितत्वात्। विहितोऽत्र प्रत्ययः तस्येदम् (4.3.120) इति॥ शब्दभेदादविधानम्। शब्दभेदादविधिः स भवति -अन्यो हि शब्दो रथं वहति, अन्यो हि रथस्य वोढेति॥ (5577 आक्षेपसमर्थकं वार्तिकम्॥ 2 ॥) - शब्दभेदादविधानमिति चेदर्थाश्रयत्वात् प्रत्ययविधानस्यार्थसामान्यात्सिद्धम् - (भाष्यम्) शब्दभेदादविधानमिति चेदर्थाश्रयः प्रत्ययविधिः। य एवार्थो रथं वहति, स एव रथस्य वोढेति। तत्रार्थसामान्यात्सिद्धम्॥ (सिद्धान्तभाष्यम्) इदं तर्हि प्रयोजनम् -यो द्वौ रथौ वहति स द्विरथ्यः। यो द्वयो रथयोर्वोढा स द्विरथः। तेन सति लुग्भवति॥ अनेन सति कस्मान्न भवति? प्राग्दीव्यत इत्युच्यते॥

Kashika

तदिति द्वितीयासमर्थेभ्यो रथयुगप्रासङ्गेभ्यो वहतीत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। रथं वहति रथ्यः। युग्यः। प्रासङ्ग्यः। **रथसीताहलेभ्यो यद्विधौ**(१.१.७२ महाभाष्यवा॰) इति तदन्तविध्युपसंख्यानात् परमरथ्य इत्यपि भवति॥

Siddhanta Kaumudi

रथं वहति रथ्यः । युग्यः । वत्सानां दमनकाले स्कन्धे काष्ठमासज्यते स प्रासङ्गः । तं वहति प्रासङ्ग्यः ॥

Laghu Siddhanta Kaumudi

रथं वहति रथ्यः। युग्यः। प्रासङ्ग्यः॥

Balamanorama

तद्वहति रथयुगप्रासङ्गम् - तद्विहति रथ । रथादि वहतीत्यर्थे द्वितीयान्ताद्रथ युग प्रासङ्ग इति त्रयाद्यत्स्यादित्यर्थः । युग्य इति । रथादिवहनकाले अआआदिस्कन्धेषु तिर्यग्यत् काष्ठमीषत्प्रोतमासज्यते तद्युगम् । तद्विहतीत्यर्थः । दमनकाले इति । रथादिवहने सुशिक्षितावआऔ नियुज्य तत्स्कन्धवाह्रयुगे यद्युगान्तरमासज्य तस्मिन्नशिक्षिता अआआदयो वहनशिक्षार्थ नियुज्यन्ते स प्रासङ्ग इत्यर्थः ।प्रासङ्गो ना युगाद्युगे॑ इत्यमरः ।

Tattvabodhini

तद्वहति रथयुगप्रासङ्गम् - युग्य इति । युगं रथाङ्गं वहतीत्यर्थः । प्रासङ्ग इति । प्रासज्यते असाविति कर्मणि घञ् ।

Padamanjari

ननु य एवार्थो रथं वहतीति स एव रथस्य वोढेअति, तत्र तस्येदं रथाद्यदित्येव सिद्धं नार्थो रथग्रहणेन ? ननु तत्रोक्तं रथाङ्गएवेष्यत इति, वोढर्यपि प्रयोगदर्शनादिष्यताम् ? इदं तर्हि प्रयोजनम् - द्वौ रतौ वहति द्विरथ्यः,’द्विगोर्लुगनपत्ये’ इति प्राग्दीव्यतीयो लुग्मा भूत्, रथसीताहलेभ्यो यद्विधौऽ इति तदन्तविधिः ।’युग्यं च पत्त्रे’ इत्येव सिद्धम् । इह युगग्रहणमयुग्यमित्यत्र’ययतोश्चतदर्थे’ इति स्वरार्थम्, निपातनस्य तु क्यबन्तत्रादेष स्वरो न स्यात् । रथाङ्गवचनोऽयं युगशब्दः, इह न भवति - युगं वहति राजा कलिं द्वापरं वेति । प्रासङ्गशब्दो वत्सानां दमनकाले स्कन्घे यत्काष्ठमासज्यते तद्वाची गृह्यते, प्रसज्यते इति प्रासङ्गः, इह न भवति - प्रसङ्गादागतः प्रासङ्गस्तं वहतीति । एतच्चाभिधानस्वभावाल्लभ्यते ॥

Nyaas

तदिति द्वितीयामर्थविभक्तौ लब्धायां रथादीनां द्वितीयानिर्देश इष्टाद्यथा स्यात्, अनिष्टान्मा भूत्। तेनेहव भवति - गौर्युग्य इति; इह न भवति - युगं वहति राजा कलिं द्वापरं वेति। तथा प्रासज्यत इति प्रासङ्गः, यत् काष्ठं वहनकाले वत्सानां कण्ठाअसज्यते तत्प्रासङ्गः, तं वहति प्रासङ्ग्यः। इह न भवति - प्रसङ्गादागतं प्रासङ्गम्। युग्यञ्च पत्त्रे (3.1.121) इति निपातनाद्युग्यशब्दे सिद्धे युगग्रहणं स्वरार्थम्। न युग्यमयुग्यमित्यत्र नञो गुणप्रतिषेधे नञो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः (6.2.155) इत्यतो नञ इत्यनुवर्तमाने ययतोश्चातदर्थे (6.2.156) इति नञ उत्तरस्यान्तोदात्तत्वं यथा स्यात्। तेन न ह्रेकस्वरो लभ्यते। तस्य क्यबन्तत्वात्॥

Prakriyasarvasvam

एभ्यस्तद्वहतीत्यर्थे यत् स्यात् । रथं वहन् रथ्यः । युज्यः प्रासङ्ग्यः । वत्सानां दमनकाले स्कन्धासक्तं युगसदृशं काष्ठमत्र प्रासङ्ग इति हरः । बहुबाह्ये शकटादौ युगाद् युगः प्रासङ्ग इत्यन्ये ॥

Sutra Prayogas

  • हरियुग्यं (रघुवंशम्): तद्वहति रथयुगप्रासङ्गम इति यत्प्रत्ययः।

  • रथ्याः (शिशुपालवधम्): तद्वहति रथयुगप्रासङ्गम् इति यत्प्रत्ययः।