44075: प्राग्घिताद्यत् ====================== **Padacheda:** प्राक् | S | 0 | 0 | हितात् | S | 5 | 1 | यत् | S | 1 | 1 | Sutrartha --------- **प्राक्-हितीय-अर्थेषु यत्-प्रत्ययः औत्सर्गिकरूपेण भवति ।** तद्धिताधिकारे पाठितेभ्यः पञ्च-महोत्सर्गेभ्यः तृतीयः महोत्सर्गः अस्मात् सूत्रात् आरभ्यते । वर्तमानसूत्रतः **तस्मै हितम्** (5.1.5) इति यावत्सु सूत्रेषु आहत्य द्वात्रिंशत् (32) अर्थाः पाठिताः सन्ति । एते सर्वे अर्थाः 'प्राग्घितीय-अर्थाः' नाम्ना ज्ञायन्ते । एतेषां सर्वेषाम् विषये औत्सर्गिकरूपेण यत्-प्रत्ययः भवति । अस्य यत्-प्रत्ययस्य अपवादरूपेण भिन्नैः सूत्रैः भिन्नासु अवस्थासु विविधानाम् प्रत्ययानाम् विधानम् क्रियते । यत्-प्रत्ययस्य कानिचन उदाहरणानि - अ) रथं वहति सः = रथ + यत् = रथ्य आ) छन्दसा (=इच्छया) निर्मितः = छन्दस् + यत् = छन्दस्य इ) सभायां साधुः = सभा + यत् = सभ्य । प्रक्रिया इयम् - रथ + यत् → रथ् + यत् [**यस्येति च** (6.4.148) इति अकारलोपः] → रथ्य 31 प्राग्घितीय-अर्थाः एते - 1. **तद्वहति रथयुगप्रासङ्गम्** (4.4.76) 2. **विध्यत्यधनुषा** (4.4.83) 3. **धनगणं लब्धा** (4.4.84) 4. **वशं गतः** (4.4.86) 5. **पदमस्मिन् दृश्यम्** (4.4.87) 6. **मूलमस्याबर्हि** (4.4.88) 7. **गृहपतिना संयुक्ते ञ्यः** (4.4.90) 8. **नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसम्मितेषु** (4.4.91) 9. **धर्मपथ्यर्थन्यायादनपेते** (4.4.92) 10. **छन्दसो निर्मिते** (4.4.93) 11. **हृदयस्य प्रियः** (4.4.95) 12. **बन्धने चर्षौ** (4.4.96) 13. **मतजनहलात् करणजल्पकर्षेषु** (4.4.97) 14. **तत्र साधुः** (4.4.98) 15. **समानतीर्थे वासी** (4.4.107) 16. **समानोदरे शयित ओ चोदात्तः** (4.4.108) 17. **भवे छन्दसि** (4.4.110) 18. **बर्हिषि दत्तम्** (4.4.119) 19. **दूतस्य भागकर्मणी** (4.4.120) 20. **रक्षोयातूनां हननी** (4.4.121) 21. **रेवतीजगतीहविष्याभ्यः प्रशस्ये** (4.4.122) 22. **असुरस्य स्वम्** (4.4.123) 23. **मायायामण्** (4.4.124) 24. **तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः** (4.4.125) 25. **मत्वर्थे मासतन्वोः** (4.4.126) 26. **पूर्वैः कृतमिनियौ च** (4.4.133) 27. **अद्भिः संस्कृतम्** (4.4.134) 28. **सहस्रेण संमितौ घः** (4.4.135) 29. **सोममर्हति यः** (4.4.137) 30. **मये च** (4.4.138) 31. **शिवशमरिष्टस्य करे** (4.4.143) 32. **भावे च** (4.4.144) एतेभ्यः अर्थेभ्यः **भवे छन्दसि** (4.4.110) एतस्मात् सप्तदशात् अर्थात् आरभ्य **भावे च** (4.4.144) इति अन्तिममर्थम् यावत् निर्दिष्टाः अर्थाः केवलं छन्दसि (वेदेषु) एव विधीयन्ते इति स्मर्तव्यम् । Sutrartha (English) ------------------- The यत् प्रत्यय is used as a default for the प्राक्-हितीय meanings. Vasu English Summary -------------------- In each sūtra from this one forward to -- तस्मै हितम् (5.1.5), the affix यत् bears rule. Vasu English Translation ------------------------ In each sūtra from this one forward to -- तस्मै हितम् (5.1.5), the affix यत् bears rule. Thus in the next *sutra* तद्वहति रथयुगप्रासङ्गम् we must read the affix यत् ॥ रथ्यः, युग्यः, प्रासङ्ग्यः ॥ Kashika ------- **तस्मै हितम्**(५.१.५) इति वक्ष्यति। प्रागेतस्माद् हितसंशब्दनाद् यानित ऊर्ध्वमनुक्रमिष्यामो यत्प्रत्ययस्तेष्वधिकृतो वेदितव्यः। वक्ष्यति — **तद्वहति रथयुगप्रासङ्गम्** (४.४.७६) — रथ्यः। युग्यः। प्रासङ्ग्यः॥ Siddhanta Kaumudi ----------------- तस्मै हितम् (SK1665) इत्यतः प्राक् यदधिक्रियते ॥ Laghu Siddhanta Kaumudi ----------------------- तस्मै हितमित्यतः प्राग् यदधिक्रियते ॥ Balamanorama ------------ **प्राग्घिताद्यत्** - अथ प्राग्घितीयप्रकरणं निरूप्यते — प्राग्घिताद्यत् । हितशब्दस्तद्धटितसूत्रपरः तदाह — तस्यै हितमिति । Prakriyasarvasvam ----------------- 'तस्मै हितम्' (५-१-५) इत्यतः प्राग् यद्विधिः । इह च तत्र साधुरित्ये- वार्थो बहुविषयः ॥