44074: आवसथात् ष्ठल् ==================== **Padacheda:** आवसथात् | S | 5 | 1 | ष्ठल् | S | 1 | 1 | Sutrartha --------- **सप्तमीसमर्थात् 'आवसथ'शब्दात् 'वसति' इत्यस्मिन् अर्थे ष्ठल्-प्रत्ययः भवति ।** 'आवसथ' इत्युक्ते निवासं कर्तुम् योग्यम् स्थलम् । अस्मात् शब्दात् सप्तमीसमर्थात् 'वसति' अस्मिन् अर्थे ष्ठल्-प्रत्ययः भवति । आवसथे वसति सः = आवसथ + ष्ठल् → आवसथिकः । 'ष्ठल्' इत्यत्र षकारः इत्संज्ञकः अस्ति, तस्य प्रयोजनम् - 'स्त्रीत्वे विवक्षिते **षिद्गौरादिभ्यश्च** (4.1.41) इति ङीष्-प्रत्ययविधानम्' - इति अस्ति । यथा - आवसथे वसति सा = आवसथ + ष्ठल् + ङीष् → आवसथिकी । 'ष्ठल्' इत्यत्र लकारः अपि इत्संज्ञकः अस्ति, तस्य प्रयोजनम् - '**लिति** (6.1.193) इति प्रत्ययात् पूर्वस्य स्वरस्य उदात्तत्वम्' - इति अस्ति । तथा, 'आवसथिक' इत्यत्र 'इक' इति प्रत्ययः, तस्मात् पूर्वम् विद्यमानः सकारोत्तरः अकारः अनेन सूत्रेण उदात्तत्वं प्राप्नोति । स्मर्तव्यम् - तद्धिताधिकारे ये पञ्च महोत्सर्गाः पाठ्यन्ते, तेषु द्वितीयः महोत्सर्गः (ठगधिकारः) यस्य प्रारम्भः **प्राग्वहतेष्ठक्** (4.4.1) इत्यत्र भवति, सः अत्र समाप्यते । Vasu English Summary -------------------- The affix ष्ठल् comes in the sense of 'who dwells there' after the word आवसथ in the Locative -7th case in construction. Vasu English Translation ------------------------ The affix ष्ठल् comes in the sense of 'who dwells there' after the word आवसथ in the Locative -7th case in construction. The ल् of ष्ठल् is for accent (6.1.193), the ष् is for ङीष् (4.1.41). Thus आवसथे वसति = आवसथिकः 'who dwells in a house' i. e. a domestic person as opposed to an ascetic. The feminine will be आवसथिकी ॥ So far was the scope of ठक् as ordained in (4.4.1). Henceforward other affixes will be ordained. Kashika ------- तत्रेत्येव। आवसथशब्दात् सप्तमीसमर्थाद् वसतीत्येतस्मिन्नर्थे ष्ठल्प्रत्ययो भवति। लकारः स्वरार्थः। षकारो ङीषर्थः। आवसथे वसति आवसथिकः। आवसथिकी। ठकः पूर्णोऽवधिः, अतः परमन्यः प्रत्ययो विधीयते॥ Siddhanta Kaumudi ----------------- आवसथे वसति आवसथिकः । षित्वान्ङीष् । आवसथिकी ॥ (वार्तिकम्) ॥ आवसथात्किसरादेः षितः षडेते ठगधिकारे ॥ 1 ॥ षडिति सूत्रषट्केन विहिता इत्यर्थः । प्रत्ययास्तु सप्त ॥ ठकोऽवधिः समाप्तः ॥ Balamanorama ------------ **आवसथात् ष्ठल्** - आवसथाष्ठल् । तत्र वसतीत्यर्थे आवसतात्सप्तमय्न्तात्ष्ठलित्यर्थः । आवसथं — गृहम् । षित्त्वं ङीषर्थम् । तदाह — आवसथिकीति । आकर्षादित्यादि । श्लोकवार्तिकमिदम् — ॒प्राग्वहतेष्ठक् इत्यादौ ठगिति वा ष्ठगिति छेद इति संशयनिवृत्त्यर्थम्आकर्षात्ष्ठ॑लिति सूत्रभाष्ये पठितम् । तत्र आकर्षादित्यनेनआकर्षात्ष्ठ॑लिति सूत्रं विवक्षितम् । 'पर्पादिभ्यः' इत्यनेनपर्पादिभ्यः ष्ठ न्निति सूत्रं विपक्षितम् । 'भस्त्रादिभ्यः' इत्यनेनभस्त्रादिभ्यः ष्ठ॑न्निति सूत्रं विवक्षितम् । कुसीदसूत्रादित्यनेनकुसीददशैकादशात् ष्ठन्ष्ठचौ॑ इति सूत्रं विवक्षितम् । आवसथादित्यनेनआवसथात्ष्ठ॑लिति सूत्रं विवक्षितम् । किसरादेरित्यनेनकिसरादिभ्यः ष्ठ॑न्निति सूत्रं विवक्षितम् । 'प्राग्वहतेष्ठक्' इत्यधिकारे एतैः सूत्रैर्विहिताः षट् प्रत्ययाः षित इत्यर्थः । ननुकुसीदे॑ति सूत्रे प्रत्ययद्वयविधानादेतत्सूत्रषट्कविहिता सप्त प्रत्यया लभ्यन्त इति षट् षित इति कथमित्यत आह — षडितीति ।ष॑डित्यनेन सूत्राभिप्रायं षट्त्वं विवक्षितमिति भावः । *****इति बालमनोरमायाम् प्राग्वहतीयाः ।*****अथ ठञधिकारः । — — — — — — Tattvabodhini ------------- **आवसथात् ष्ठल्** - आवसथात् । लकारः स्वरार्थः । आवसन्त्यस्मिन्नित्यावसथः ।उपसर्गे वसेः॑इत्यप्रत्ययः । आकर्षत्पर्पादेर्भस्त्रादिभ्यः कुसीदसूत्राच्च ।कुसीदसूत्रादिति ।कुसीददशैकादशा॑दिति सूत्रोपात्ताभ्यां प्रकृतिभ्यामित्यर्थः । इहनौव्द्यचष्ठ॑नित्यत्रेव येषां षकारः सांहितिक इति सम्भाव्यते तेषामेव गणने ष्ठलादेः षित्त्वामनार्षमिति भ्रमः स्यादतः श्र्लोकवार्तिककारः षित्प्रत्ययान्सर्वानपि पर्यजीगणत् । ठकोऽवधिः समाप्तः ।इति तत्त्वबोधिन्यां ठगधिकारः । Padamanjari ----------- आवसत्येतमिति आवसथः, ठुपसर्गे वसेःऽ इतियथप्रत्ययः । ठकः पूर्णो विधिरिति । प्राग्वहतीयस्य ठको विधानं पूर्णामित्यर्थः, अवधिरिति पाठे पूर्णः प्राप्त इत्यर्थः ॥ Prakriyasarvasvam ----------------- षिदयम् । गृहे वसन्नावसथिकः ॥