44073: निकटे वसति

Padacheda: निकटे | S | 7 | 1 |

वसति | T | | |

Sutrartha

सप्तमीसमर्थात् ‘निकट’ शब्दात् ‘वसति’ अस्मिन् अर्थे ठक्-प्रत्ययः भवति ।

यः कोऽपि शास्त्रनियमान् उल्लङ्घ्य निकटं वसति, तस्य निर्देशं कर्तुम् ‘निकट’ शब्दात् ‘ठक्’प्रत्ययः भवति । यथा - ‘आरण्यके भिक्षुणा ग्रामात् कोशे वस्तव्यम्’ इति शास्त्रम् विद्यते । इत्युक्ते, भिक्षुः नित्यम् वने एव निवसेत्, तथा ग्रामात् ‘एकं कोशं’ इति दूरम् एव निवसेत् । परन्तु यदि कश्चन भिक्षुः एतम् नियममुल्लङ्घ्यम् ग्रामस्य निकटे वसति, तर्हि तस्य निर्देशं कर्तुम् ‘निकट’ शब्दात् ठक्-प्रत्ययः भवति । निकटे वसति सः नैकटिकः भिक्षुः ।

Vasu English Summary

The affix ठक् comes in the sense of ‘who dwells’ after the Locative word निकट।

Vasu English Translation

The affix ठक् comes in the sense of ‘who dwells’ after the Locative word निकट। This rule applies in forming epithets, denoting such persons, who are allowed under the Sacred Institutes, to dwell near human habitations. Thus आरण्यकाः are those ascetics who are ordained to dwell in forests, at least two miles away from human habitations. नैकटिकाः are those ascetics who are allowed by the rule of their Order to live near human habitations. Thus निकटे वसति = नैकटिकः ‘an ascetic.’

Kashika

निकटशब्दात् सप्तमीसमर्थाद् वसतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। यस्य शास्त्रतो निकटवासस्तत्रायं विधिः। आरण्यकेन भिक्षुणा ग्रामात् क्रोशे वस्तव्यमिति शास्त्रम्। निकटे वसति नैकटिको भिक्षुः॥

Siddhanta Kaumudi

नैकटिको भिक्षुः ॥

Laghu Siddhanta Kaumudi

नैकटिको भिक्षुकः ॥ इति ठगधिकारः ॥७ ॥

Balamanorama

निकटे वसति - निकटे वसति । अस्मिन्नर्थे सप्तम्यन्तातन्निकटशब्दाट्ठगित्यर्थः । नैकटिको भिक्षुरिति । ग्रामात्क्रोशे भिक्षुणा वस्तव्यमिति शास्त्रमुल्लङ्घ्य निकटे यो भिक्षुर्वसति तत्रैवायं ठगिति भावः । अत्र व्याख्यानमेव शरणम् ।

Tattvabodhini

निकटे वसति - नैकटिको भिक्षुरिति । सन्यासी हिल ग्रामस्य निकटे वसन्भिक्षार्थमेव ग्रामे प्रविशति, न तु तत्र वसतीति भावः ।

Padamanjari

अरण्यं निवासे यस्य स आरण्यकः, ठरण्यान्मनुष्येऽ इति वुञ् । भिक्षुः - संन्यासी । ग्रामात्क्रोशे इति ।’यतश्च निर्द्धारणम्’ इति पञ्चमी । अयं च विविषोऽभिधानस्वभावाल्लभ्यते ॥

Nyaas

निकटे समीप इत्यर्थः। यत्र शास्त्रतो निकटवासस्तत्रायायं विधिः। एतच्च सप्तम्यां समर्थविभक्तौ लब्धायां पुनः सप्तमीनिर्देशात् प्रसिद्ध्युपसंग्रहणेन लभ्यते। स ह्रेवमर्थः कृतः - इष्टे सप्तम्यन्ते यथा स्यात्, अनिष्टान्मा भूत्। स पुनः शास्त्रतो निकटवास आरण्यकस्य भिक्षोरिति दर्शयति - आरण्यकेन भिक्षुणा इत्यादि॥

Prakriyasarvasvam

<karika>ग्रामात् क्रोशे निवस्तव्यं भिक्षुणेति विधीयते । तादृङ्निकटवासेऽयं विधिर्नैकटिको यतिः ॥ २८५ ॥</karika> ‘निकटश्मशानवृक्षमूलेषु वसति’ (स० ४-४-१३२) इति भोजः । तद्वृत्तौ निकटवास्येव नैकटिकः । एवं श्माशानिकः । वार्क्षमूलिकः ॥

Sutra Prayogas

  • नैकटिकाऽऽश्रमान् (भट्टिकाव्यम्): निकटे वसति इति ठक्।