44063: कर्माध्ययने वृत्तम्

Padacheda: कर्म | S | 1 | 1 |

अध्ययने | S | 7 | 1 |

वृत्तम् | S | 1 | 1 |

Sutrartha

अध्ययनसम्बन्धी यः क्रियावाची शब्दः, तस्मात् प्रथमासमर्थात् कर्तुः निर्देशं कर्तुम् ठक्-प्रत्ययः भवति ।

सूत्रे उपस्थितानां शब्दानां आदौ अर्थम् पश्यामः - 1) अध्ययने = अध्ययनसमये / परीक्षासमये । 2) कर्म वृत्तम् = कर्म कृतम् । ‘वृत्तम्’ इति ‘वृत्’ धातोः क्त-प्रत्यययान्तरूपम् । ‘कर्म’ इति ‘कर्मन्’ शब्दस्य प्रथमैकवचनम् । अतः अत्र सूत्रार्थः इत्थं भवति - अध्ययनसमये यत् किमपि कर्म कृतम्, तद्वाचिशब्दात् कर्तुः निर्देशं कर्तुम् ठक्-प्रत्ययः भवति ।

उदाहरणम् पश्यामश्चेत् स्पष्टं भवेत् -

  1. परीक्षासमये कश्चन छात्रः यदि कस्यचित् प्रश्नस्य दोषपूर्णमुत्तरं ददाति (अथ वा, कस्यचित् शब्दस्य दोषपूर्णमुच्चारणम् करोति) तर्हि तस्य छात्रस्य वर्णनम् ‘अध्ययने एकमन्यत् कार्यम् कृतमनेन छात्रेण’ इति क्रियते । अत्र ‘अन्यत्’ इत्युक्ते ‘यत् युक्तम् / समीचीनम् नास्ति तत्’ इति अर्थः । अत्र एतादृशं कर्म ‘एकान्यम्’ इति नाम्ना सम्बुद्ध्यते । अस्यां स्थितौ ‘अध्ययने एकान्यम् कार्यम् वृत्तमस्य छात्रस्य’ इत्यत्र ‘एकान्य’शब्दात् वर्तमानसूत्रेण ठक्-प्रत्ययः विधीयते । एकान्य + ठक् → ऐकान्यिक । अध्ययने एकान्यम् कार्यम् वृत्तमस्य छात्रस्य सः ऐकान्यिकः छात्रः । ‘अध्ययने / परीक्षासमये एकवारं दोषं कृत्वा अग्रे समीचीनमुत्तरं ददाति सः ऐकान्यिकः छात्रः’ इत्यर्थः ।

2. तथैव, ‘अध्ययने द्वे अन्ये कार्ये कृते अनेन छात्रेण’ इत्यत्र कर्मणः निर्देशार्थम् ‘द्व्यन्यम्’ अस्य शब्दस्य प्रयोगः क्रियते । ‘द्व्यन्यम् कार्यम् वृत्तमस्य छात्रस्य’ सः = द्व्यन्य + ठक् → द्वैयन्यिकः छात्रः । प्रक्रिया इयम् - द्व्यन्य + ठक् → द्व्यन्य + इक [ठस्येकः (7.3.50) इति ‘इक’-आदेशः] → द्वै यन्य + इक [किति च (7.2.118) इत्यनेन आदिवृद्धौ प्राप्तायाम्, तां बाधित्वा न य्वाभ्यां पदान्ताभ्याम् पूर्वौ तु ताभ्यामैच् (7.3.3) इति ऐच्-आगमः] → द्वैयन्य् इक [यस्येति च (6.4.148) इति अकारलोपः] → द्वैयन्यिक 3. अध्ययने त्रीणि अन्यानि कर्माणि कृतानि अनेन छात्रेण सः त्रैयन्यिकः छात्रः । अत्रापि ‘द्वैयन्यिक’ यावत् एव प्रक्रिया वर्तते । ज्ञातव्यम् - ‘दोषपूर्णम् कर्म’ इत्युक्ते दोषपूर्णम् लेखनम् / उच्चारणम् । यथा, अध्ययनकाले परीक्षाकाले वा यदि कश्चन छात्रः उदात्तस्वरस्य स्थाने अनुदात्तस्वरस्य उच्चारणं करोति, अथ वा ह्रस्वस्वरस्य लेखनसमये यदि सः दीर्घस्वरस्य लेखनं करोति, तर्हि एतत् कर्म ‘अन्यत्’ कर्म अस्ति इत्युच्यते । अस्य कर्मणः निर्देशेन छात्रस्य निर्देशं कर्तुम् वर्तमानसूत्रस्य प्रयोगः क्रियते ।

Vasu English Summary

The affix ठक् comes in the sense of ‘this is his act, occurring in study’ after a word in the Nominative 1st-Case in construction, if such a word is an कर्म (act) which has वृत्तम् (occurred) अध्ययन in (study).

Vasu English Translation

The affix ठक् comes in the sense of ‘this is his act, occurring in study’ after a word in the Nominative 1st-Case in construction, if such a word is an कर्म (act) which has वृत्तम् (occurred) अध्ययन in (study). Thus एकमन्यदध्ययने कर्मवृत्तमस्य = ऐकान्यिकः ‘a pupil who commits one (एक) error (अन्यत्) in reading’, &c. literal translation being something like “one errorist”. Similarly द्वैयन्यिकः त्रैयन्यिकः &c. He whose, in recitation, at the time of examination, there is the occurrence of one mistake or false reading, is called ऐकान्यिकः ॥ So who commits two mistakes is called द्वैयन्यिकः ॥ In short, in giving explanatory analysis of taddhita words like ऐकान्तिकः &c, the whole phrase अध्ययने कर्मवृत्तम् must be employed.

Kashika

तदस्येत्येव। तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठक् प्रत्ययो भवति, यत् तत् प्रथमासमर्थं कर्म चेद् तद्वृत्तमध्ययनविषयं भवति। एकमन्यदध्ययने कर्म वृत्तमस्य ऐकान्यिकः। द्वैयन्यिकः। त्रैयन्यिकः। एकमन्यदिति विगृह्य तद्धितार्थो॰ (२.१.५१) इति समासः। ततश्च ठक् प्रत्ययः। अध्ययने कर्म वृत्तमित्येतत् सर्वं तद्धितवृत्तावन्तर्भवति। यस्याध्ययनप्रयुक्तस्य परीक्षाकाले पठतः स्खलितमपपाठरूपमेकं जातम्, स उच्यत ऐकान्यिक इति। एवं द्वैयन्यिकः, त्रैयन्यिक इति॥

Siddhanta Kaumudi

प्रथमान्तात्षष्ठ्यर्थे ठक् स्यादध्ययने वृत्ता या क्रिया सा चेत्प्रथमान्तस्यार्थः । ऐकान्यिकः । यस्याध्ययने प्रवृत्तस्य परीक्षाकाले विपरीतोच्चारणरूपं स्खलितमेकं जातं सः ॥

Balamanorama

कर्माध्ययने वृत्तम् - कर्माध्ययने वृत्तम् ।तदस्य पण्य॑मित्यतस्तदस्येत्यनुवर्तते ।तदस्य कर्माध्ययने वृत्त॑मित्यर्थनिर्देशः । तत्रत॑दित्यनेन विशेष्येण कर्म वृत्तमित्यन्वेति । कर्मशब्दः क्रियापरः । वृत्तमित्यस्य जातमित्यर्थः । वृत्तं कर्म प्रति विशेष्यसमर्पकं तदिति प्रथमोच्चारितम् । ततश्च स्य अध्ययनविषयेतत्कर्म वृत्त॑मित्यर्थे तच्छब्दगम्यविशेष्यवाचकात्प्रथमान्ताट्ठक् स्यादित्यर्थः । तदाह — प्रथमान्तादिति ।वृत्तं कर्म प्रति विशेष्यसमर्पका॑ दिति शेषः । अध्ययने वृत्तेति । विषयसप्तम्येषा । या क्रियेति । अनेन कर्मशब्दः क्रियापर इति सूचितम् । प्रथमान्तस्यार्थ इति ।अनेन कर्म वृत्त॑मित्येतत्तदित्यस्य प्रथमान्तस्य विशेषणमिति सूचितम् । तदित्यननुवृत्तौ कर्मशब्दस्यैव सूत्रे प्रतमानिर्दिष्टत्वात्तत एव प्रत्ययः स्यात्, नतु तद्विशेष्यवाचकात्, तस्य प्रथमानिर्दिष्टत्वाऽभावादित्यभिप्रेत्योदाहरति — एतमन्यद्वृत्तमस्य ऐकान्यिक इति । ‘तद्धितार्थ’ इति समासे एकान्यशब्दाट्ठहगिति भावः । द्वैयन्यिकः, त्रैयन्यिकः । ऐजागमो विशेषः ।

Tattvabodhini

कर्माध्ययने वृत्तम् - कर्माध्ययने ।तदस्ये॑त्यनुवर्तते, ठगिहाधिक्रियत । एव तदाह -प्रथमान्तादित्यादि । ऐकान्यिक इति । एकमन्यदिति विगृह्र॒तद्धितार्था ॑इति समासः, ततष्ठक् । एवं द्वैयन्यिकः त्रैयन्यिक इत्युदाहार्यम् । इह तु वृदिंध बाधित्वान ध्वाभ्या॑ मित्यैच् ।

Padamanjari

कर्म उ क्रिया, तच्च स्खलितमपचाररूपं विवक्षितम्, न तच्छीलं कर्म, तेनेह न भवति - अध्ययने जपो वृतोऽस्येति । एतच्चभिधानस्वाभाव्याल्लभ्यते । तदेतद्वक्ष्यति - यस्याध्ययने नियुक्तस्येत्यादि । एकमन्यदिति । सम्यक्पाठापेक्षया ॥

Nyaas

क्रियया यद्व्याप्यमानमीप्सिततममनीप्सिततमं वा तत् कर्म। इह त्वनीप्सिततमं गम्यते। अत एवाह - यस्याध्ययनप्रयुक्तस्य इत्यादि। न हि कस्यचिदध्ययने युक्तस्य परीक्षाकाले पठतः स्खलितपाठरूपमीप्सितं भवति। अध्ययनशब्दो भावसाधनः, कर्मसाधनो वा। अधीतम्, अधीयते, वाऽध्ययनम्। वृत्तं = भूतम्ुत्पन्नमित्यर्थः।एकमन्यत्ित्यादि। सम्यक् पाठापेक्षयान्योऽर्थो वेदितव्यः। `द्वैयन्यिकः; त्रैयन्यिकः इति। न य्वाभ्यां पदान्ताभ्याम् (7.3.3) इत्यैजागमः। अध्ययने कर्म वृत्तमित्येतत् सर्वं तद्धितवृत्तावन्तर्भवति इति। तेन तत्राध्ययनवृत्तशब्दोऽवगतार्थत्वान्न प्रयुज्यत इति भावः॥

Prakriyasarvasvam

<karika>तत्कर्माध्ययने वृत्तमस्येत्यर्थे तु ठग् भवेत् । वेदाधीतिपरीक्षायां भ्रंशसंख्यास्वयं विधिः ॥ २८३ ॥</karika> <karika>द्वे अन्यकर्मणी जाते यस्य ह्यध्ययने वटोः । सोऽयं द्विरन्यथावादकर्ता द्वैयन्यिको वटुः ॥ २८४ ॥</karika>