44063: कर्माध्ययने वृत्तम्
==========================
**Padacheda:** कर्म | S | 1 | 1 |
अध्ययने | S | 7 | 1 |
वृत्तम् | S | 1 | 1 |
Sutrartha
---------
**अध्ययनसम्बन्धी यः क्रियावाची शब्दः, तस्मात् प्रथमासमर्थात् कर्तुः निर्देशं कर्तुम् ठक्-प्रत्ययः भवति ।**
सूत्रे उपस्थितानां शब्दानां आदौ अर्थम् पश्यामः -
1) अध्ययने = अध्ययनसमये / परीक्षासमये ।
2) कर्म वृत्तम् = कर्म कृतम् । 'वृत्तम्' इति 'वृत्' धातोः क्त-प्रत्यययान्तरूपम् । 'कर्म' इति 'कर्मन्' शब्दस्य प्रथमैकवचनम् ।
अतः अत्र सूत्रार्थः इत्थं भवति - अध्ययनसमये यत् किमपि कर्म कृतम्, तद्वाचिशब्दात् कर्तुः निर्देशं कर्तुम् ठक्-प्रत्ययः भवति ।
उदाहरणम् पश्यामश्चेत् स्पष्टं भवेत् -
1. परीक्षासमये कश्चन छात्रः यदि कस्यचित् प्रश्नस्य दोषपूर्णमुत्तरं ददाति (अथ वा, कस्यचित् शब्दस्य दोषपूर्णमुच्चारणम् करोति) तर्हि तस्य छात्रस्य वर्णनम् 'अध्ययने एकमन्यत् कार्यम् कृतमनेन छात्रेण' इति क्रियते । अत्र 'अन्यत्' इत्युक्ते 'यत् युक्तम् / समीचीनम् नास्ति तत्' इति अर्थः । अत्र एतादृशं कर्म 'एकान्यम्' इति नाम्ना सम्बुद्ध्यते । अस्यां स्थितौ 'अध्ययने एकान्यम् कार्यम् वृत्तमस्य छात्रस्य' इत्यत्र 'एकान्य'शब्दात् वर्तमानसूत्रेण ठक्-प्रत्ययः विधीयते । एकान्य + ठक् → ऐकान्यिक । अध्ययने एकान्यम् कार्यम् वृत्तमस्य छात्रस्य सः ऐकान्यिकः छात्रः । 'अध्ययने / परीक्षासमये एकवारं दोषं कृत्वा अग्रे समीचीनमुत्तरं ददाति सः ऐकान्यिकः छात्रः' इत्यर्थः ।
2. तथैव, 'अध्ययने द्वे अन्ये कार्ये कृते अनेन छात्रेण' इत्यत्र कर्मणः निर्देशार्थम् 'द्व्यन्यम्' अस्य शब्दस्य प्रयोगः क्रियते । 'द्व्यन्यम् कार्यम् वृत्तमस्य छात्रस्य' सः = द्व्यन्य + ठक् → द्वैयन्यिकः छात्रः । प्रक्रिया इयम् -
द्व्यन्य + ठक्
→ द्व्यन्य + इक [**ठस्येकः** (7.3.50) इति 'इक'-आदेशः]
→ द्वै यन्य + इक [**किति च** (7.2.118) इत्यनेन आदिवृद्धौ प्राप्तायाम्, तां बाधित्वा **न य्वाभ्यां पदान्ताभ्याम् पूर्वौ तु ताभ्यामैच्** (7.3.3) इति ऐच्-आगमः]
→ द्वैयन्य् इक [**यस्येति च** (6.4.148) इति अकारलोपः]
→ द्वैयन्यिक
3. अध्ययने त्रीणि अन्यानि कर्माणि कृतानि अनेन छात्रेण सः त्रैयन्यिकः छात्रः । अत्रापि 'द्वैयन्यिक' यावत् एव प्रक्रिया वर्तते ।
ज्ञातव्यम् - 'दोषपूर्णम् कर्म' इत्युक्ते दोषपूर्णम् लेखनम् / उच्चारणम् । यथा, अध्ययनकाले परीक्षाकाले वा यदि कश्चन छात्रः उदात्तस्वरस्य स्थाने अनुदात्तस्वरस्य उच्चारणं करोति, अथ वा ह्रस्वस्वरस्य लेखनसमये यदि सः दीर्घस्वरस्य लेखनं करोति, तर्हि एतत् कर्म 'अन्यत्' कर्म अस्ति इत्युच्यते । अस्य कर्मणः निर्देशेन छात्रस्य निर्देशं कर्तुम् वर्तमानसूत्रस्य प्रयोगः क्रियते ।
Vasu English Summary
--------------------
The affix ठक् comes in the sense of 'this is his act, occurring in study' after a word in the Nominative 1st-Case in construction, if such a word is an कर्म (act) which has वृत्तम् (occurred) अध्ययन in (study).
Vasu English Translation
------------------------
The affix ठक् comes in the sense of 'this is his act, occurring in study' after a word in the Nominative 1st-Case in construction, if such a word is an कर्म (act) which has वृत्तम् (occurred) अध्ययन in (study).
Thus एकमन्यदध्ययने कर्मवृत्तमस्य = ऐकान्यिकः 'a pupil who commits one (एक) error (अन्यत्) in reading', &c. literal translation being something like "one errorist". Similarly द्वैयन्यिकः त्रैयन्यिकः &c. He whose, in recitation, at the time of examination, there is the occurrence of one mistake or false reading, is called ऐकान्यिकः ॥ So who commits two mistakes is called द्वैयन्यिकः ॥ In short, in giving explanatory analysis of *taddhita* words like ऐकान्तिकः &c, the whole phrase अध्ययने कर्मवृत्तम् must be employed.
Kashika
-------
तदस्येत्येव। तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठक् प्रत्ययो भवति, यत् तत् प्रथमासमर्थं कर्म चेद् तद्वृत्तमध्ययनविषयं भवति। एकमन्यदध्ययने कर्म वृत्तमस्य ऐकान्यिकः। द्वैयन्यिकः। त्रैयन्यिकः। एकमन्यदिति विगृह्य **तद्धितार्थो॰** (२.१.५१) इति समासः। ततश्च ठक् प्रत्ययः। अध्ययने कर्म वृत्तमित्येतत् सर्वं तद्धितवृत्तावन्तर्भवति। यस्याध्ययनप्रयुक्तस्य परीक्षाकाले पठतः स्खलितमपपाठरूपमेकं जातम्, स उच्यत ऐकान्यिक इति। एवं द्वैयन्यिकः, त्रैयन्यिक इति॥
Siddhanta Kaumudi
-----------------
प्रथमान्तात्षष्ठ्यर्थे ठक् स्यादध्ययने वृत्ता या क्रिया सा चेत्प्रथमान्तस्यार्थः । ऐकान्यिकः । यस्याध्ययने प्रवृत्तस्य परीक्षाकाले विपरीतोच्चारणरूपं स्खलितमेकं जातं सः ॥
Balamanorama
------------
**कर्माध्ययने वृत्तम्** - कर्माध्ययने वृत्तम् ।तदस्य पण्य॑मित्यतस्तदस्येत्यनुवर्तते ।तदस्य कर्माध्ययने वृत्त॑मित्यर्थनिर्देशः । तत्रत॑दित्यनेन विशेष्येण कर्म वृत्तमित्यन्वेति । कर्मशब्दः क्रियापरः । वृत्तमित्यस्य जातमित्यर्थः । वृत्तं कर्म प्रति विशेष्यसमर्पकं तदिति प्रथमोच्चारितम् । ततश्च स्य अध्ययनविषयेतत्कर्म वृत्त॑मित्यर्थे तच्छब्दगम्यविशेष्यवाचकात्प्रथमान्ताट्ठक् स्यादित्यर्थः । तदाह — प्रथमान्तादिति ।वृत्तं कर्म प्रति विशेष्यसमर्पका॑ दिति शेषः । अध्ययने वृत्तेति । विषयसप्तम्येषा । या क्रियेति । अनेन कर्मशब्दः क्रियापर इति सूचितम् । प्रथमान्तस्यार्थ इति ।अनेन कर्म वृत्त॑मित्येतत्तदित्यस्य प्रथमान्तस्य विशेषणमिति सूचितम् । तदित्यननुवृत्तौ कर्मशब्दस्यैव सूत्रे प्रतमानिर्दिष्टत्वात्तत एव प्रत्ययः स्यात्, नतु तद्विशेष्यवाचकात्, तस्य प्रथमानिर्दिष्टत्वाऽभावादित्यभिप्रेत्योदाहरति — एतमन्यद्वृत्तमस्य ऐकान्यिक इति । 'तद्धितार्थ' इति समासे एकान्यशब्दाट्ठहगिति भावः । द्वैयन्यिकः, त्रैयन्यिकः । ऐजागमो विशेषः ।
Tattvabodhini
-------------
**कर्माध्ययने वृत्तम्** - कर्माध्ययने ।तदस्ये॑त्यनुवर्तते, ठगिहाधिक्रियत । एव तदाह -प्रथमान्तादित्यादि । ऐकान्यिक इति । एकमन्यदिति विगृह्र॒तद्धितार्था ॑इति समासः, ततष्ठक् । एवं द्वैयन्यिकः त्रैयन्यिक इत्युदाहार्यम् । इह तु वृदिंध बाधित्वान ध्वाभ्या॑ मित्यैच् ।
Padamanjari
-----------
कर्म उ क्रिया, तच्च स्खलितमपचाररूपं विवक्षितम्, न तच्छीलं कर्म, तेनेह न भवति - अध्ययने जपो वृतोऽस्येति । एतच्चभिधानस्वाभाव्याल्लभ्यते । तदेतद्वक्ष्यति - यस्याध्ययने नियुक्तस्येत्यादि । एकमन्यदिति । सम्यक्पाठापेक्षया ॥
Nyaas
-----
क्रियया यद्व्याप्यमानमीप्सिततममनीप्सिततमं वा तत् कर्म। इह त्वनीप्सिततमं गम्यते। अत एवाह - `यस्याध्ययनप्रयुक्तस्य` इत्यादि। न हि कस्यचिदध्ययने युक्तस्य परीक्षाकाले पठतः स्खलितपाठरूपमीप्सितं भवति। अध्ययनशब्दो भावसाधनः, कर्मसाधनो वा। अधीतम्, अधीयते, वाऽध्ययनम्। वृत्तं = भूतम्ुत्पन्नमित्यर्थः।`एकमन्यत्ित्यादि। सम्यक् पाठापेक्षयान्योऽर्थो वेदितव्यः। `द्वैयन्यिकः; त्रैयन्यिकः` इति। `न य्वाभ्यां पदान्ताभ्याम्` (7.3.3) इत्यैजागमः। `अध्ययने कर्म वृत्तमित्येतत् सर्वं तद्धितवृत्तावन्तर्भवति` इति। तेन तत्राध्ययनवृत्तशब्दोऽवगतार्थत्वान्न प्रयुज्यत इति भावः॥
Prakriyasarvasvam
-----------------
तत्कर्माध्ययने वृत्तमस्येत्यर्थे तु ठग् भवेत् । वेदाधीतिपरीक्षायां भ्रंशसंख्यास्वयं विधिः ॥ २८३ ॥ द्वे अन्यकर्मणी जाते यस्य ह्यध्ययने वटोः । सोऽयं द्विरन्यथावादकर्ता द्वैयन्यिको वटुः ॥ २८४ ॥