44062: छत्रादिभ्यो णः¶
Padacheda: छत्र-आदिभ्यः | S | 5 | 3 |
णः | S | 1 | 1 |
Sutrartha¶
‘अस्य शीलम्’ अस्मिन् अर्थे छत्रादिगणस्य प्रथमासमर्थेभ्यः शब्देभ्यः ण-प्रत्ययः भवति ।
शीलम् इत्युक्ते स्वभावः । शीलम् (4.4.61) अस्मिन् अर्थे सर्वेभ्यः प्रातिपदिकेभ्यः प्राग्वहतेः ठक् (4.4.1) अनेन सूत्रेण ठक्-प्रत्यये प्राप्ते छत्रादिगणस्य शब्देभ्यः तं बाधित्वा ‘ण’प्रत्ययः भवति । छत्रादिगणः अयम् - छत्र, बुभुक्षा, शिक्षा, पुरोह, स्था, चुरा, उपस्थान, ऋषि, कर्मन्, विश्वधा, तपस्, सत्य, अनृत, शिबिका । उदाहरणानि - 1. छत्रम् शीलमस्य सः छात्रः । छत्र + ण → छात्र । ‘छत्र’ इत्युक्ते आवरणम् । अत्र एतत् आवरणम् ‘गुरोः दोषेषु स्थापितमावरणम्’ अस्ति । इत्युक्ते, गुरोः दोषान् यः स्वभावतः एव गोपयते / गूहते / आवृणोति, सः छात्रः । 2. बुभुक्षा शीलमस्य सः बौभुक्षः । 3. शिक्षा शीलमस्य सः शैक्षः । 4. अस्मिन् गणे विद्यमानः ‘स्था’शब्दः नित्यमुपसर्गेण सह एव स्वीक्रियते । यथा - ‘आस्था’ शीलमस्य सः = आस्था + ण → आस्थ । ‘संस्था’ शीलमस्य सः = संस्था + ण → सांस्थ । 5. चुरा शीलमस्य सः चौरः । ज्ञातव्यम् - अत्र आचार्यः ‘अण्’ प्रत्ययविधानं न करोति, अपितु ण-प्रत्ययविधानं करोति । वस्तुतः तु अण्-प्रत्यये परे अपि रूपम् समानमेव जायते । परन्तु स्त्रीत्वे विवक्षिते अण्-प्रत्ययान्तशब्दात् टिड्ढाणञ्.. (4.1.15) इत्यनेन ङीप्-प्रत्ययः विधीयते सः अत्र नेष्यते ।अत्र अजाद्यतष्टाप् (4.1.4) इत्यनेन टाप्-प्रत्ययः एव कर्तव्यः, अतः अत्र ‘ण’प्रत्ययविधानम् कृतमस्ति । यथा - छत्रम् शीलमस्याः सा छात्रा ।
Vasu English Summary¶
The affix ण comes in the sense of ‘whose habit is this’ after the words छत्र etc.
Vasu English Translation¶
The affix ण comes in the sense of ‘whose habit is this’ after the words छत्र etc. This debars ठक् ॥ Thus छत्रं शीलमस्य = छात्रः ‘a pupil’, lit. ‘whose habit is to cover (chhadan) the defects of his master’. The word स्था occurs in the list. It must always be prefixed by some upasarga; thus आस्था, संस्था, अवस्था &c.
According to Patanjali छात्र means ‘a pupil, because, गुरुश्छत्रवत् गुरुणा शिष्यश्छत्रवत् छाद्यः “a preceptor is like an Umbrella, the preceptor covers or protects the pupil like an umbrella”. Or शिष्येण च गुरुश्छत्रवत् परिपाल्यः ‘a pupil ought to maintain or protect his Preceptor, as an Umbrella’.
1 छत्र, 2 शिक्षा 3 प्ररोह (पुरोह), 4 स्था (आस्था, संस्था, अवस्था), 5 बुभुक्षा, 6 चुरा, 7 तितिक्षा, 8 उपस्थान, 9 कृषि (ऋषि), 10 कर्मन्, 11 विश्वधा, 12 तपस्, 13 सत्य, 14 अनृत, 15 विशिखा, 16 विशिका (शिबिका), 17 भक्षा, 18 उदस्थान, 19 पुरोडा, 20 विक्षा 21 चुक्षा, 22 मन्द्र.
Bhashya¶
छत्रादिभ्यो णः (1800) (णप्रत्ययाधिकरणम्) (सूत्रार्थबोधकभाष्यम्) किं यस्य च्छत्रधारणं शीलं स च्छात्रः? किं चातः? राजपुरुषे प्राप्नोति। एवं तर्हि -उत्तरपदलोपोऽत्र द्रष्टव्यः -छत्रमिवच्छत्रम्। गुरुश्छत्रम्। गुरुणा शिष्यश्छत्रवत् छाद्यः। शिष्येण गुरुश्छत्रमिव परिपाल्यः॥
Kashika¶
छत्र इत्येवमादिभ्यः प्रातिपदिकेभ्यो णः प्रत्ययो भवति तदस्य शीलमित्येतस्मिन् विषये। ठकोऽपवादः। छत्रं शीलमस्य छात्रः। छादनादावरणाच्छत्रम्। गुरुकार्येष्ववहितस्तच्छिद्रावरणप्रवृत्तश्छत्रशीलः शिष्यश्छात्रः। स्थाशब्दोऽत्र पठ्यते, स चोपसर्गपूर्वोऽत्र गृह्यते — आस्था संस्था अवस्थेति॥ छत्र। बुभुक्षा। शिक्षा। पुरोह। स्था। चुरा। उपस्थान। ऋषि। कर्मन्। विश्वधा। तपस्। सत्य। अनृत। शिबिका। छत्रादिः॥
Siddhanta Kaumudi¶
गुरोर्दोषाणामावरणं छत्रं तच्छीलमस्य छात्रः ॥
Balamanorama¶
छत्रादिभ्यो णः - छत्रादिभ्यो णः । एभ्यः प्रथमान्तेभ्योऽस्य शीलमित्यर्थे णप्रत्ययः स्यादित्यर्थः । छत्रं शीलमस्य छात्र इत्युदाहरणं वक्ष्यति, तत्र छत्रस्य शीलत्वानुपपत्तेः छत्रपदं गुरुदोषावरणे गौणमित्याह — गुरोरिति । शीलमित्यर्थे छत्रादित्वाण्णप्रत्यये कृते- ।
Tattvabodhini¶
छत्रादिभ्यो णः - छत्रादिभ्यो णः ।छत्रादिभ्योऽ॑णित्येव सुवचमितिकार्मस्ताच्छील्ये॑इति सूत्रे कैयटः । ताच्छील्ये णे इति । कर्मन्शब्दस्य छत्रादित्वादिति भावः । चौरीत्यादि । चुरा शीलमस्याः, तपः शीलमस्या इति विग्रहे णप्रत्यये सति तदन्तान्ङीप् सिद्ध्यतीत्यर्थः ।
Padamanjari¶
च्छत्रशीलता शिष्यस्य दर्शयितुमाह - छादनादावरणाच्छत्रमिति । छादयतेः ष्ट्रनि’हस्मन्त्रन्क्विषु च’ इति ह्रस्वः । च्छत्रशील इति । च्छत्रसहचरिता छादनक्रिया शीलमस्येत्यर्थ । यदि त्वपूपभक्षणं शीलमस्यापूपिक इतिवत् च्छत्रावरणं शीलमस्य छात्रिक इति व्युत्पाद्यते, तदा दासेऽपि प्राप्नोति; अभिधानस्वाभाव्यातु तथा नाश्रीयते । उपसर्गपूर्वो गृह्यते इति । ततश्च तस्य ठातश्चोपसर्गेऽ इत्यादिना व्युत्पत्तिः; केवलस्य स्थाशब्दस्याभावात् । केवलस्य तु पाठः सर्वोपसर्गग्रहार्थः । चुरेति पठ।ल्ते, तत्र चोरयतेः’ण्यासश्रन्थो युच्’ इति युचि प्राप्तेऽस्मादेव निपातनादकारः, गुणाभावश्च । न च युचोऽन्यत्र बाधः, चोरणेत्यपि भवति ॥
Nyaas¶
छत्त्रशीलत्वं शिष्यस्य प्रतिपादयितुमाह - छादनादपवारणाच्छत्त्रम् इत्यादि। अपवारिणादित्यनेन च्छादनादित्यस्यार्थं व्यक्तीकरोति। आच्छादयति हि यत् तच्छत्रमित्युच्यते , तेन शिष्योऽपि गुरुकार्यतत्परो गुरुर्यानि च्छिद्राणि गोपयति तेषामावरणाय प्रवृत्तस्तत्र युक्तः सच्छत्रसहचरितां क्रियामाचरँश्छत्त्रशीलो भवति।स्थाशब्दोऽत्र पठते, स चोपसर्गपूर्वो गृह्रते इति। ततश्च तस्य आतश्चोपसर्गे (3.3.106) इत्यङ्प्रत्ययमुत्पाद्याप्युत्पादितत्वात्। केवलस्य तु पाठः सर्वोपसर्गसंग्रहार्थः।चुरा इति, पठते, तत्र निपातनादकारप्रत्ययो गुणाभावश्च॥
Prakriyasarvasvam¶
<karika>छत्रसत्यानृतविशिखाभ्यः । छत्रेण तद्धारणादिगुरुसेवात्र लक्ष्यते । सर्वसहत्वाद् रथ्याया विशिखेति क्षमोच्यते ॥ २८२ ॥</karika> तस्माद् गुरूपासनशीलश्छात्रः । क्षमाशीलो वैशिखः । सात्यः । आनृतः । ‘अङः स्थः’(स० ४-४-१२०)। ‘आतश्चोपसर्गे’(३-३-१०६) इत्यङन्तात् स्थाशब्दाण्णः। आस्थाशीलः, आस्थः । प्रातिष्ठः । ‘शिक्षाभिक्षाभक्षाचुरातपःकर्मकृष्युपस्थान- प्ररोहादिभ्यः’ (स० ४-४-१२१) । शिक्षाशीलः शैक्षः । भैक्षः । भाक्षः । चौरः । तापसः । कार्मः । कार्षः । औपस्थानः । प्रारोहः । ‘छत्रादिणस्याण्कार्यमिष्यते’। तेन ङीप् । छात्री । तापसी । कार्म इत्यत्र त्वण्कार्येण ‘अन्’ (६-४-१६७) । इति प्रकृतिभावे प्राप्ते ‘कार्मस्ताच्छील्ये’ (६-४-१७२) इति निपातनाट्टिलोपः ॥