44064: बह्वच्पूर्वपदाट्ठच्

Padacheda: बहु-अच्-पूर्वपदात् | S | 5 | 1 |

ठच् | S | 1 | 1 |

Sutrartha

यस्य अध्ययनसम्बन्धिनः क्रियावाचिशब्दस्य पूर्वपदे त्रयः वा अधिकाः स्वराः सन्ति, तस्मात् प्रथमासमर्थात् कर्तुः निर्देशं कर्तुम् ठच्-प्रत्ययः भवति ।

अध्ययनसमये यत् किमपि कर्म कृतम्, तद्वाचिशब्दात् कर्तुः निर्देशं कर्तुम् कर्माध्ययने वृत्तम् (4.4.64) अनेन सूत्रेण सामान्यतः ठक्-प्रत्ययः भवति । परन्तु यदि प्रकृतिः समस्तपदमस्ति तथा च तस्य समस्तपदस्य पूर्वपदम् बह्वच् अस्ति (इत्युक्ते, तस्मिन् पूर्वपदे त्रयः वा अधिकाः स्वराः विद्यन्ते) तर्हि ठक्-प्रत्ययस्य अपवादरूपेण ठच्-प्रत्ययः विधीयते । यथा - 1. यः छात्रः पठनसमये परीक्षासमये वा द्वादश अपपाठान् करोति, तस्य निर्देशः ‘द्वादशानि अन्यानि कर्माणि अध्ययने वृत्तानि अस्य’ इति क्रियते । अत्र ‘अन्यानि कर्माणि’ इत्युक्ते दोषकर्माणि इत्यर्थः । अस्यां स्थितौ तद्धितप्रत्ययस्य प्रयोगात् पूर्वमादौ ‘द्वादश + अन्य’ इति समस्तपदं कृत्वा ‘द्वादशान्य’ अनेन शब्देन सर्वेषाम् द्वादशकर्मणाम् निर्देशः क्रियते । अग्रे ‘द्वादशान्यम् कर्म अध्ययने वृत्तमस्य’ इति स्थिते ‘द्वादशान्य’ इति अत्र प्रकृतिः अस्ति , तस्याः पूर्वपदम् ‘द्वादश’ इति च बह्वच् अस्ति । अतः अत्र औत्सर्गिकं ठक्-प्रत्ययं बाधित्वा ठच्-प्रत्ययः भवति - द्वादशान्य + ठच् → द्वादशान्यिक । द्वादशानि अन्यानि कर्माणि अध्ययने वृत्तानि अस्य, सः द्वादशान्यिकः छात्रः । 2. एवमेव - त्रयोदशान्यिकः, चतुर्दशान्यिकः , पञ्चदशान्यिकः, सहस्रान्यिकः - एतादृशाः शब्दाः सिद्ध्यन्ति । ज्ञातव्यम् - ‘दोषपूर्णम् कर्म’ इत्युक्ते दोषपूर्णम् लेखनम् / उच्चारणम् । यथा, अध्ययनकाले परीक्षाकाले वा यदि कश्चन छात्रः उदात्तस्वरस्य स्थाने अनुदात्तस्वरस्य उच्चारणं करोति, अथ वा ह्रस्वस्वरस्य लेखनसमये यदि सः दीर्घस्वरस्य लेखनं करोति, तर्हि एतत् कर्म ‘अन्यत्’ कर्म अस्ति इत्युच्यते । अस्य कर्मणः निर्देशेन छात्रस्य निर्देशं कर्तुम् वर्तमानसूत्रस्य प्रयोगः क्रियते ।

Vasu English Summary

The affix ठच् comes in the sense of ‘this is whose act occurring in study’ after a compound having polysyllabic word as a prior member.

Vasu English Translation

The affix ठच् comes in the sense of ‘this is whose act occurring in study’ after a compound having polysyllabic word as a prior member. This debars ठक् ॥ Thus:- द्वादशान्यानि कर्माण्यध्ययने वृत्तानि अस्य = द्वादशान्यिकः ‘an examinee who commits twelve mistakes in his reading’. So त्रयोदशान्यिकः, चतुर्दशान्यिकः ॥ The word अन्यत् in these sutras means the ‘error’, especially in accent, i. e. he who makes an accent अनुदात्त which ought to be udatta, or vice versa.

Kashika

बह्वच् पूर्वपदं यस्य तस्माद् बह्वच्पूर्वपदात् प्रातिपदिकात् ठच् प्रत्ययो भवति। तदस्य कर्माध्ययने वृत्तमित्येतस्मिन्नर्थे। ठकोऽपवादः। द्वादशान्यानि कर्माण्यध्ययने वृत्तान्यस्य द्वादशान्यिकः। त्रयोदशान्यिकः। चतुर्दशान्यिक इति। चतुर्दशापपाठा अस्य जाता इत्यर्थः। उदात्ते कर्तव्ये योऽनुदात्तं करोति, स उच्यतेऽन्यत् त्वं करोषीति॥

Siddhanta Kaumudi

प्राग्विषये । द्वादशान्यानि कर्माण्यध्ययने वृत्तान्यस्य द्वादशान्यिकः । द्वादशापपाठा अस्य जाता इत्यर्थः ॥

Balamanorama

बह्वच्पूर्वपदाट्ठच् - बह्वच्पूर्वपदाट्ठच् ।तदस्य कर्माध्ययने वृत्त॑मित्यनुवर्तते । तदाह — प्राग्विषये इति । द्वादशान्यिक इति । ‘तद्धितार्थ’ इति समासः । एवं त्रयोदशान्यिकः चित्त्वान्नादिवृद्धिः ।

Padamanjari

स्वरभेदेऽप्यन्यत्वं भवति, न वर्णभेद एवेत्याह - उदाते कर्तव्ये इति । उदातग्रहणं सम्यक्स्वरस्योपलक्षणम् । अनुदातग्रहणं चासम्यक्स्वरस्य ॥

Nyaas

द्वादशान्यिकः इति। द्वादशशब्दो बह्वच्पूर्वपदम्। द्वौ च दश चेति द्वन्द्वः। द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः (6.3.47) इत्यात्त्वम्, ततो द्वादशान्यानीति विगृह्र तद्धितार्थे 92.1.52) इति समासः। ननु चैकादेशे कृते पूर्वोत्तरपदाभावात् बह्वच्पूर्वपदं न भवति, न चान्तादिवद्भावोऽस्ति - उभयत आश्रये नान्तादिवत् (व्या।प।51) नैष दोषः; नेन्द्रस्य परस्य (7.3.22) इति ज्ञापकादेशादेशात् पूर्वं प्रत्ययः। तत्रोदशान्यिकः इति। त्रयश्च दश चेति द्वन्द्वः, त्रेस्त्रयः (7.1.53) इति त्रय आदेशः। अन्यशब्दोऽत्र सम्यक् पाठापेक्षयापपाठे वर्तत इत्यत आह - चतुर्दशापपाठाःर इत्यादि। कथं पुनज्र्ञायतेऽपाठेऽन्यशब्दो वर्तते? इत्याह - उदात्ते इत्यादि। उदात्ते कर्तव्येऽनुदात्तकरणमपपाठः। तत्र य उदात्ते कर्तव्येऽनुदात्तं करोति स यस्मादन्यं करोषीत्युच्यते ततो ज्ञायतेऽन्यशब्दोऽपपाठे वर्तत इति॥

Prakriyasarvasvam

चतुर्दशान्यिकः ॥