44062: छत्रादिभ्यो णः ===================== **Padacheda:** छत्र-आदिभ्यः | S | 5 | 3 | णः | S | 1 | 1 | Sutrartha --------- **'अस्य शीलम्' अस्मिन् अर्थे छत्रादिगणस्य प्रथमासमर्थेभ्यः शब्देभ्यः ण-प्रत्ययः भवति ।** शीलम् इत्युक्ते स्वभावः । **शीलम्** (4.4.61) अस्मिन् अर्थे सर्वेभ्यः प्रातिपदिकेभ्यः **प्राग्वहतेः ठक्** (4.4.1) अनेन सूत्रेण ठक्-प्रत्यये प्राप्ते छत्रादिगणस्य शब्देभ्यः तं बाधित्वा 'ण'प्रत्ययः भवति । छत्रादिगणः अयम् - छत्र, बुभुक्षा, शिक्षा, पुरोह, स्था, चुरा, उपस्थान, ऋषि, कर्मन्, विश्वधा, तपस्, सत्य, अनृत, शिबिका । उदाहरणानि - 1. छत्रम् शीलमस्य सः छात्रः । छत्र + ण → छात्र । 'छत्र' इत्युक्ते आवरणम् । अत्र एतत् आवरणम् 'गुरोः दोषेषु स्थापितमावरणम्' अस्ति । इत्युक्ते, गुरोः दोषान् यः स्वभावतः एव गोपयते / गूहते / आवृणोति, सः छात्रः । 2. बुभुक्षा शीलमस्य सः बौभुक्षः । 3. शिक्षा शीलमस्य सः शैक्षः । 4. अस्मिन् गणे विद्यमानः 'स्था'शब्दः नित्यमुपसर्गेण सह एव स्वीक्रियते । यथा - 'आस्था' शीलमस्य सः = आस्था + ण → आस्थ । 'संस्था' शीलमस्य सः = संस्था + ण → सांस्थ । 5. चुरा शीलमस्य सः चौरः । ज्ञातव्यम् - अत्र आचार्यः 'अण्' प्रत्ययविधानं न करोति, अपितु ण-प्रत्ययविधानं करोति । वस्तुतः तु अण्-प्रत्यये परे अपि रूपम् समानमेव जायते । परन्तु स्त्रीत्वे विवक्षिते अण्-प्रत्ययान्तशब्दात् **टिड्ढाणञ्..** (4.1.15) इत्यनेन ङीप्-प्रत्ययः विधीयते सः अत्र नेष्यते ।अत्र **अजाद्यतष्टाप्** (4.1.4) इत्यनेन टाप्-प्रत्ययः एव कर्तव्यः, अतः अत्र 'ण'प्रत्ययविधानम् कृतमस्ति । यथा - छत्रम् शीलमस्याः सा छात्रा । Vasu English Summary -------------------- The affix ण comes in the sense of 'whose habit is this' after the words छत्र etc. Vasu English Translation ------------------------ The affix ण comes in the sense of 'whose habit is this' after the words छत्र etc. This debars ठक् ॥ Thus छत्रं शीलमस्य = छात्रः 'a pupil', lit. 'whose habit is to cover (*chhadan*) the defects of his master'. The word स्था occurs in the list. It must always be prefixed by some *upasarga*; thus आस्था, संस्था, अवस्था &c. According to *Patanjali* छात्र means 'a pupil, because, गुरुश्छत्रवत् गुरुणा शिष्यश्छत्रवत् छाद्यः "a preceptor is like an Umbrella, the preceptor covers or protects the pupil like an umbrella". Or शिष्येण च गुरुश्छत्रवत् परिपाल्यः 'a pupil ought to maintain or protect his Preceptor, as an Umbrella'. 1 छत्र, 2 शिक्षा 3 प्ररोह (पुरोह), 4 स्था (आस्था, संस्था, अवस्था), 5 बुभुक्षा, 6 चुरा, 7 तितिक्षा, 8 उपस्थान, 9 कृषि (ऋषि), 10 कर्मन्, 11 विश्वधा, 12 तपस्, 13 सत्य, 14 अनृत, 15 विशिखा, 16 विशिका (शिबिका), 17 भक्षा, 18 उदस्थान, 19 पुरोडा, 20 विक्षा 21 चुक्षा, 22 मन्द्र. Bhashya ------- छत्रादिभ्यो णः (1800) (णप्रत्ययाधिकरणम्) (सूत्रार्थबोधकभाष्यम्) किं यस्य च्छत्रधारणं शीलं स च्छात्रः? किं चातः? राजपुरुषे प्राप्नोति। एवं तर्हि -उत्तरपदलोपोऽत्र द्रष्टव्यः -छत्रमिवच्छत्रम्। गुरुश्छत्रम्। गुरुणा शिष्यश्छत्रवत् छाद्यः। शिष्येण गुरुश्छत्रमिव परिपाल्यः॥ Kashika ------- छत्र इत्येवमादिभ्यः प्रातिपदिकेभ्यो णः प्रत्ययो भवति तदस्य शीलमित्येतस्मिन् विषये। ठकोऽपवादः। छत्रं शीलमस्य छात्रः। छादनादावरणाच्छत्रम्। गुरुकार्येष्ववहितस्तच्छिद्रावरणप्रवृत्तश्छत्रशीलः शिष्यश्छात्रः। स्थाशब्दोऽत्र पठ्यते, स चोपसर्गपूर्वोऽत्र गृह्यते — आस्था संस्था अवस्थेति॥ छत्र। बुभुक्षा। शिक्षा। पुरोह। स्था। चुरा। उपस्थान। ऋषि। कर्मन्। विश्वधा। तपस्। सत्य। अनृत। शिबिका। छत्रादिः॥ Siddhanta Kaumudi ----------------- गुरोर्दोषाणामावरणं छत्रं तच्छीलमस्य छात्रः ॥ Balamanorama ------------ **छत्रादिभ्यो णः** - छत्रादिभ्यो णः । एभ्यः प्रथमान्तेभ्योऽस्य शीलमित्यर्थे णप्रत्ययः स्यादित्यर्थः । छत्रं शीलमस्य छात्र इत्युदाहरणं वक्ष्यति, तत्र छत्रस्य शीलत्वानुपपत्तेः छत्रपदं गुरुदोषावरणे गौणमित्याह — गुरोरिति । शीलमित्यर्थे छत्रादित्वाण्णप्रत्यये कृते- । Tattvabodhini ------------- **छत्रादिभ्यो णः** - छत्रादिभ्यो णः ।छत्रादिभ्योऽ॑णित्येव सुवचमितिकार्मस्ताच्छील्ये॑इति सूत्रे कैयटः । ताच्छील्ये णे इति । कर्मन्शब्दस्य छत्रादित्वादिति भावः । चौरीत्यादि । चुरा शीलमस्याः, तपः शीलमस्या इति विग्रहे णप्रत्यये सति तदन्तान्ङीप् सिद्ध्यतीत्यर्थः । Padamanjari ----------- च्छत्रशीलता शिष्यस्य दर्शयितुमाह - छादनादावरणाच्छत्रमिति । छादयतेः ष्ट्रनि'हस्मन्त्रन्क्विषु च' इति ह्रस्वः । च्छत्रशील इति । च्छत्रसहचरिता छादनक्रिया शीलमस्येत्यर्थ । यदि त्वपूपभक्षणं शीलमस्यापूपिक इतिवत् च्छत्रावरणं शीलमस्य छात्रिक इति व्युत्पाद्यते, तदा दासेऽपि प्राप्नोति; अभिधानस्वाभाव्यातु तथा नाश्रीयते । उपसर्गपूर्वो गृह्यते इति । ततश्च तस्य ठातश्चोपसर्गेऽ इत्यादिना व्युत्पत्तिः; केवलस्य स्थाशब्दस्याभावात् । केवलस्य तु पाठः सर्वोपसर्गग्रहार्थः । चुरेति पठ।ल्ते, तत्र चोरयतेः'ण्यासश्रन्थो युच्' इति युचि प्राप्तेऽस्मादेव निपातनादकारः, गुणाभावश्च । न च युचोऽन्यत्र बाधः, चोरणेत्यपि भवति ॥ Nyaas ----- छत्त्रशीलत्वं शिष्यस्य प्रतिपादयितुमाह - `छादनादपवारणाच्छत्त्रम्` इत्यादि। अपवारिणादित्यनेन च्छादनादित्यस्यार्थं व्यक्तीकरोति। आच्छादयति हि यत् तच्छत्रमित्युच्यते , तेन शिष्योऽपि गुरुकार्यतत्परो गुरुर्यानि च्छिद्राणि गोपयति तेषामावरणाय प्रवृत्तस्तत्र युक्तः सच्छत्रसहचरितां क्रियामाचरँश्छत्त्रशीलो भवति।`स्थाशब्दोऽत्र पठते, स चोपसर्गपूर्वो गृह्रते` इति। ततश्च तस्य **आतश्चोपसर्गे** (3.3.106) इत्यङ्प्रत्ययमुत्पाद्याप्युत्पादितत्वात्। केवलस्य तु पाठः सर्वोपसर्गसंग्रहार्थः।`चुरा` इति, पठते, तत्र निपातनादकारप्रत्ययो गुणाभावश्च॥ Prakriyasarvasvam ----------------- छत्रसत्यानृतविशिखाभ्यः । छत्रेण तद्धारणादिगुरुसेवात्र लक्ष्यते । सर्वसहत्वाद् रथ्याया विशिखेति क्षमोच्यते ॥ २८२ ॥ तस्माद् गुरूपासनशीलश्छात्रः । क्षमाशीलो वैशिखः । सात्यः । आनृतः । 'अङः स्थः'(स० ४-४-१२०)। 'आतश्चोपसर्गे'(३-३-१०६) इत्यङन्तात् स्थाशब्दाण्णः। आस्थाशीलः, आस्थः । प्रातिष्ठः । 'शिक्षाभिक्षाभक्षाचुरातपःकर्मकृष्युपस्थान- प्ररोहादिभ्यः' (स० ४-४-१२१) । शिक्षाशीलः शैक्षः । भैक्षः । भाक्षः । चौरः । तापसः । कार्मः । कार्षः । औपस्थानः । प्रारोहः । 'छत्रादिणस्याण्कार्यमिष्यते'। तेन ङीप् । छात्री । तापसी । कार्म इत्यत्र त्वण्कार्येण 'अन्' (६-४-१६७) । इति प्रकृतिभावे प्राप्ते 'कार्मस्ताच्छील्ये' (६-४-१७२) इति निपातनाट्टिलोपः ॥