44061: शीलम्

Padacheda: शीलम् | S | 1 | 1 |

Sutrartha

‘अस्य शीलम्’ अस्मिन् अर्थे प्रथमासमर्थात् ठक् प्रत्ययः भवति ।

शीलम् इत्युक्ते स्वभावः । प्रथमासमर्थात् शीलवाचिशब्दात् ‘अस्य शीलम् (= सः अस्य स्वभावः)’ अस्मिन् अर्थे ठक्-प्रत्ययः भवति । यथा - 1. अपूपभक्षणम् शीलमस्य सः आपूपिकः । यः स्वभावरूपेणैव नित्यमपूपान् भुङ्क्ते, सः आपूपिकः - इत्यर्थः । 2. शष्कुलिभक्षणम् शीलमस्य सः शाष्कुलिकः । 3. मोदकभक्षणम् शीलमस्य सः मौदकिकः गणेशः । ज्ञातव्यम् - अत्र उदाहरणेषु यद्यपि शीलम् तु ‘भक्षणम्’ इति अस्ति, तथापि शिष्टप्रयोगमनुसृत्य तद्धितप्रत्ययः तु भक्ष्यवाचिशब्दात् विधीयते । अस्मिन् विषये न्यासकारः वदति - ‘भक्षणक्रिया तद्विषयञ्च शीलं तद्धितवृत्ताौ अन्तर्भवति। तेन तत्र प्रतीयमानत्वात् भक्षणशीलशब्दौ न प्रयुज्येते इति भावः’ । ‘अपूप’ इत्यनेनैव अपूपभक्षणम्’ इति अर्थः स्वीकर्तव्यः इति अस्य आशयः ।

Vasu English Summary

The affix ठक् comes in the sense of ‘whose habit is this’ after a word in the Nominative 1st-Case in construction.

Vasu English Translation

The affix ठक् comes in the sense of ‘whose habit is this’ after a word in the Nominative 1st-Case in construction. Thus अपूपभक्षणं शीलमस्य = आपूपिकः ‘one whose habit is to eat cakes’. Similarly शाष्कुलिकः, मौदकिकः ॥ The act of eating, and its habit are qualities understood in the sense of the affix.

Kashika

तदस्येत्येव। तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठक् प्रत्ययो भवति, यत् तत् प्रथमासमर्थं शीलं चेत् तद् भवति। शीलं स्वभावः। अपूपभक्षणं शीलमस्य आपूपिकः। शाष्कुलिकः। मौदकिकः। भक्षणक्रिया तद्विशेषणं च शीलं तद्धितवृत्तावन्तर्भवति॥

Siddhanta Kaumudi

अपूपभक्षणं शीलमस्य आपूपिकः ॥

Laghu Siddhanta Kaumudi

अपूपभक्षणं शीलमस्य आपूपिकः॥

Balamanorama

शीलम् - शीलम् । अस्येत्यर्थे शीलवाचिनः प्रथमान्ताट्ठगित्यर्थः । शीलं=स्वभावः । अपूपभक्षणमिति । अपूपशब्दस्तद्भक्षणे लाक्षणिक इति भावः ।

Padamanjari

शीलं स्वभाव इति । शील्यते पुनः पुनः क्रियतेऽनेनेति कृत्वा । अपूपभ7णं शीलमस्येति । शीलविषये शीलत्वमारेप्य सामानाधिकरण्येन व्यपदेशः । भक्षणक्रियेत्यादि । शीलं तावदुपातत्वादन्तर्भवति, क्रियाविषयत्वाच्च शीलस्य क्रियाद्यन्तर्भवति, स्वभावाच्च भक्षणक्रिया, न निष्पादिका ॥

Nyaas

अपूपभक्षणं शीलमस्य इति। शीलविषयत्वादुपाचारात् तथा व्यपदेशः। भक्षणक्रिया तद्विषयञ्च शीलं तद्धितवृत्तावन्तर्भवति। तेन तत्र प्रतीयमानत्वाद्भक्षणशीलशब्दौ न प्रयुज्येते इति भावः॥

Prakriyasarvasvam

तदस्य शीलमित्यर्थे ठक् । अपूपभक्षणं शीलमस्य आपूपिकः । क्रिया- वान्तर्भूता ॥

Sutra Prayogas

  • वैबोधिक (किरातार्जुनीयम्): शीलम् इति ठक् ।