44059: शक्तियष्ट्योरीकक्¶
Padacheda: शक्ति-यष्ट्योः | S | 6 | 2 |
ईकक् | S | 1 | 1 |
Sutrartha¶
‘अस्य प्रहरणम्’ अस्मिन् अर्थे प्रथमासमर्थात् ‘शक्ति’शब्दात् ‘यष्टि’शब्दात् च ईकक् प्रत्ययः भवति ।
‘प्रहरणम्’ इत्युक्ते शस्त्रम् । प्रहरणम् (4.4.57) अस्मिन् अर्थे प्राग्वहतेष्ठक् (4.4.1) इत्यनेन औत्सर्गकरूपेण ठक्-प्रत्यये प्राप्ते तं बाधित्वा ‘शक्ति’शब्दस्य विषये तथा ‘यष्टि’शब्दस्य विषये ‘ईकक्’ प्रत्ययः भवति । यथा - 1. शक्तिः (= ‘शूल’सादृशं किञ्चन शस्त्रम्) प्रहरणमस्य सः = शक्ति + ईकक् → शाक्तीक । 2. यष्टिः (- ‘दण्ड’सादृशं किञ्चन शस्त्रम्) प्रहरणमस्य सः = यष्टि + ईकक् → याष्टीक । ज्ञातव्यम् - अत्र तद्धितान्तरूपे दीर्घ-ईकारः इष्यते, अतः आचार्येण ठक् (= इकक्) इत्यस्य स्थाने ‘ईकक्’ इति विधानं कृतमस्ति ।
Vasu English Summary¶
The affix ईकक् comes in the sense of ‘this is whose weapon’ after the words 1. शक्ति and 2. यष्ट्यि।
Vasu English Translation¶
The affix ईकक् comes in the sense of ‘this is whose weapon’ after the words 1. शक्ति and 2. यष्ट्यि। This debars ठक् ॥ Thus शक्तिः प्रहरणमस्य = शाक्तीकः, So also याष्टीकः ॥
Bhashya¶
शक्तियष्ट्योरीकक् (1797) (ःइर्ककोऽधिकरणम्) (सूत्रन्याससमर्थकं भाष्यम्) किमर्थमीकगुच्यते, न कगेवोच्येत? कारूपसिद्धिः -शाक्तीकः, याष्टीक इति? शक्तियष्ट्योरीकारोऽन्ते, कशब्दश्च प्रत्ययः॥ न सिध्यति। विभाषा चैव हि शक्तियष्ट्योरीकारः, अपि च केऽणः (7.4.13) इति ह्रस्वत्वम् प्रसज्ज्येत। एवं तर्हि -ःइकगुच्यते। का रूपसिद्धिः -शाक्तीको याष्टीक इति। सवर्णदीर्घत्वेन सिद्धम्। न सिध्यति, यस्येति लोपः प्राप्नोति॥ इकारोच्चारणसार्मथ्यान्न भविष्यति॥ यदि तर्हि प्राप्नुवन् विधिरिकारोच्चारणसार्मथ्याद्वाध्यते, सवर्णदीर्घत्वमपि न प्राप्नोति। यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते। यस्य तु विधेर्निमित्तमेव, नासौ बाध्यते। यस्येति लोपं च प्रतीकारोच्चारणमनर्थकम्, सवर्णदीर्घस्य तु निमित्तमेव॥ 4-4-1- आ. 12 (818 विधिसूत्रम्
Kashika¶
शक्तियष्टिशब्दाभ्यामीकक् प्रत्ययो भवति तदस्य प्रहरणमित्येतस्मिन् विषये। ठकोऽपवादः। शक्तिः प्रहरणमस्य शाक्तीकः। याष्टीकः॥
Siddhanta Kaumudi¶
शाक्तीकः । याष्टीकः ॥
Balamanorama¶
शक्तियष्ट्योरीकक् - शक्तियष्टओरीकक् । शक्तियष्टिशब्दाभ्यां प्रथमान्ताभ्यां प्रहरणवाचिभ्यामस्येत्यर्थे ईकक् स्यादित्यर्थः ।
Padamanjari¶
शक्यतेऽनया प्रहर्तुमिति शक्तिः, यष्टिशब्दोऽव्युत्पन्नं प्रातिपदिकम् । किमर्थमीकगुच्यते न कगेवोच्यते, का रूपसिद्धिः ? शक्तियष्टिशब्दाभ्यां बह्वादिङीषन्ताभ्यां लिङ्गविशिष्टपरिभाषया ककि कृते शाक्तीको याष्टीक इति सिद्धम् ; न सिध्यति ?’के’ णःऽ इति ह्रस्वत्वं प्राप्नोति । विभाषा ङीबुक्तः, तदभावपक्षे दीर्घस्य शङ्कैव नास्ति ? एवं तर्हि इकगेवोच्येत, इकारेऽपि हि सवर्णदीर्घत्वे सिध्यति, यस्येति लोप इकारोच्चारणसामर्थ्यान्न भविष्यति । पदस्यावग्रहनिवृत्तिरिकारस्य प्रयोजनम् । एवं तर्हि सूत्रारम्भो निष्फलः स्यात्, पूर्वसूत्रविहितेन ठकैवावग्रहनिवृतेः सिद्धत्वात् ? नानर्थकम् ; वाक्यनिवृत्यर्थत्वात् । एवमपि प्रत्ययान्तरमनर्थकं शक्तियष्ट।लेरित्येतावद्वक्तव्यम्, ठक् प्रकृतः, तस्य पुनर्विधानं वाक्यनिवृत्यर्थं भविष्यति, किमीकको विधानेन, तद्विधानातुयस्येति लोपो न भविष्यति । यथैव तर्हि यस्येति लोपो न भवति एवं सवर्णदीर्घत्वमपि न स्यात्; यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते, यस्य तु विधेर्निमितमेव नासौ बाध्यते, यस्येतिलोपं च प्रति इकारोच्चारणमनर्थकं सवर्णदीर्घस्य पुनर्निमितमेव ॥
Nyaas¶
अथ दीर्घोच्चारणं किमर्थम्, इकगेव नोच्येत, इकक्यपि सवर्णदीर्घत्वे कृते शाक्तीको याष्टीक इति सिध्यत्येव? न सिध्यति; इकारस्य यस्येति च (6.4.148) इति लोपेन भवितव्यम्। तत्कुतः सवर्णदीर्घत्वम्? इकारोच्चारणसामर्थ्यादेव लोपो न भविष्यति। ननु चावग्रहनिवृत्तिरिकारस्य प्रयोजनं स्यात्? नैतत्; यदि ह्रेतत् प्रयोजनं स्यात् सूत्रारम्भोऽनर्थखः स्यात्; ठकाप्यनवग्रहस्य सिद्धत्वात्? नानर्थकः ; वाक्यनिवृत्त्यर्थत्वात्। एवमपि प्रत्ययग्रहणमनर्थकं स्यात्, ठक्प्रत्ययो हि प्रकृतः , तत्रैतावदेन वक्तव्यम् - शक्कतियष्टओरिति। एवं पुनर्विधानां वाक्यनिवृत्त्यर्थं भविष्यति, किमीकग्विधानेन? तस्मादिकग्ग्रहणसामर्थ्याल्लोपो न भविष्यति। एवमपि ठकैव यस्येति च (6.4.148) इति लोपाभावेनानवग्रहे सिद्धे हीकग्ग्रहणमधिकविधानार्थं प्रतीयते। तेन यस्येति च (6.4.148) इति लोपो न भवति। यथा तस्मादकः सवर्णे (6.1.97) दीर्घोऽपि न स्यादिति विगृहीतमेव श्रूयेत। तस्मादीकग्वक्तव्यः॥
Prakriyasarvasvam¶
शाक्तीकः । याष्टीकः ॥
Sutra Prayogas¶
शक्तिकैर् (शिशुपालवधम्): शक्तियष्ट्योरीकक् इति प्रहरणार्थे ईकक् प्रत्ययः।
शाक्तिक (भट्टिकाव्यम्): शक्ति-यचोरीकक् इति प्रासः कुन्तः प्रहरणमित्यौत्सर्गिकष्टक् ।
याष्टीक (भट्टिकाव्यम्): शक्तियष्टयोरीकक् इति प्रहरणार्थे ईकक्-प्रत्ययः।