44058: परश्वधाट्ठञ्च

Padacheda: परश्वधात् | S | 5 | 1 |

ठञ् | S | 1 | 1 |

च | S | 0 | 0 |

Sutrartha

‘अस्य प्रहरणम्’ अस्मिन् अर्थे प्रथमासमर्थात् ‘परश्वध’शब्दात् ठञ् तथा ठक् प्रत्ययौ भवतः ।

‘परश्वध’ इति ‘परशु’समानम् किञ्चन प्रहणम् (शस्त्रम्) । प्रहरणम् (4.4.57) अस्मिन् अर्थे ‘परश्वध’शब्दात् प्राग्वहतेष्ठक् (4.4.1) इत्यनेन ठक्-प्रत्यये प्राप्ते वर्तमानसूत्रेण ठञ्-प्रत्ययः अपि विधीयते । द्वयोः प्रत्यययोः प्रयोगेण दृश्यरूपं तु समानमेव भवति - परश्वधं प्रहरणमस्य सः पारश्वधिकः । परन्तु द्वयोः रूपयोः उच्चारणे भेदः वर्तते। ठञ्-प्रत्ययान्तः ‘पारश्वधिक’शब्दः ञ्नित्यादिर्नित्यम् (6.1.197) इत्यनेन आद्युदात्तः अस्ति । परन्तु कित्-प्रत्ययान्तः ‘पारश्वधिक’शब्दः कितः (6.1.165) इत्यनेन अन्तोदात्तः अस्ति । प्रक्रिये एते - 1. परश्वध + ठक् → परश्वध + इक [ठस्येकः (7.3.50) इति इक्-आदेशः] → पारश्वध + इक [किति च (7.2.118) इति आदिवृद्धिः] → पारश्वध् + इक [यस्येति च (6.4.148) इति अकारलोपः] → पारश्वधिक 2. परश्वध + ठञ् → परश्वध + इक [ठस्येकः (7.3.50) इति इक्-आदेशः] → पारश्वध + इक [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → पारश्वध् + इक [यस्येति च (6.4.148) इति अकारलोपः] → पारश्वधिक

Vasu English Summary

The affixes ठञ् and ठक् come in the sense of ‘this is whose weapon’ after the word परश्वध।

Vasu English Translation

The affixes ठञ् and ठक् come in the sense of ‘this is whose weapon’ after the word परश्वध। This affix ठक् is added by च, the difference being in accent. Thus पारश्वधिकः or पारश्वधिकः ॥ परश्वध means ‘an axe’.

Kashika

परश्वधशब्दाट् ठञ् प्रत्ययो भवति, चकाराट् ठक्। स्वरे विशेषः। परश्वधः प्रहरणमस्य पारश्वधिकः॥

Siddhanta Kaumudi

पारश्वधिकः ॥

Balamanorama

परश्वधाट्ठञ्च - परआआधाट्ठञ् च ।तदस्य प्रहरण॑मित्येव । चाट्ठक् । ‘परशुश्च परआधः’ इत्यमरः ।

Tattvabodhini

परश्वधाट्ठञ्च - परआधाट्ठञ् । चाट्ठक् ।द्वयोः कुठारः स्वधितिः परशुश्च परआधः॑ । परलोक इति । एतच्चाबिधानशक्तिस्वाभाव्याल्लभ्यते ।

Padamanjari

परश्वधः उ परशु ॥

Prakriyasarvasvam

अस्मात् तु ठक्ठञौ पारश्वधिकोऽत्र स्वरे भिदा ॥ ‘अण् चैके’ इति भोजोक्त्या पारश्वधः ॥

Sutra Prayogas

  • पारश्वधिक-रामस्य (भट्टिकाव्यम्): स प्रहरणं यस्य परश्व- धाञ्च इति परशुरामस्य सम्बन्धिन्याः शक्तेः सामर्थ्यस्यान्तकरो विनाशयिता।