44060: अस्तिनास्तिदिष्टं मतिः

Padacheda: अस्ति-नास्ति-दिष्टम् | S | 1 | 1 |

मतिः | S | 1 | 1 |

Sutrartha

‘अस्य मतिः’ अस्मिन् अर्थे ‘अस्ति’शब्दात्, ‘नास्ति’शब्दात् तथा ‘दिष्ट’शब्दात् ठक् प्रत्ययः भवति ।

‘तद् अस्य मतिः (= विचारः / चिन्तनम् / बुद्धिः)’ अस्मिन् अर्थे ‘अस्ति’शब्दात्, ‘नास्ति’शब्दात् तथा ‘दिष्ट’शब्दात् ठक् प्रत्ययः विधीयते । यथा - 1. ‘अस्ति’ इति अस्य मतिः सः = अस्ति + ठक् → आस्तिक । ‘परलोकः / ईश्वरः अस्ति’ इति यस्य चिन्तनम्, सः आस्तिकः । 2. ‘नास्ति’ इति यस्य मतिः सः = नास्ति + ठक् → नास्तिक । ‘परलोकः / ईश्वरः नास्ति’ इति यस्य चिन्तनम्, सः नास्तिकः । 3. ‘दिष्टम्’ (=प्रमाणमनुसृत्य) इति यस्य मतिः सः = दिष्ट + ठक् → दैष्टिकः । ‘प्रमाणं लभ्यते चेत् परलोकः / ईश्वरः अस्ति’ इति यस्य चिन्तनम्, सः दैष्टिकः । ज्ञातव्यम् - 1. अस्मिन् सूत्रे प्रयुक्तौ ‘अस्ति’ तथा ‘नास्ति’ एतौ शब्दौ निपातौ (= अव्ययौ) स्तः । स्वरादिनिपातमव्ययम् (1.1.37) अस्मिन् सूत्रे निर्दिष्टः यः स्वरादिगणः, तस्मिन् एतौ शब्दौ स्वीक्रियेते । तथा च, तिङ्गन्तौ यौ ‘अस्ति / नास्ति’ शब्दौ, ताभ्यामपि वर्तमानसूत्रे निर्देशसामर्थ्यात् प्रत्ययः भवितुमर्हति एव । 2. यद्यपि अस्मिन् सूत्रे केवलम् ‘अस्ति’ / ‘नास्ति’ इति निर्देशः कृतः अस्ति, तथापि अस्य सूत्रस्य प्रयोजनम् परलोकस्य / ईश्वरस्य अस्तित्वस्य विषये एव क्रियते । अस्मिन् विषये न्यासकारः वदति - ‘ न च मतिसत्तामात्रे प्रत्यय इष्यते, किं तर्हि, परलोकोऽस्तीति यस्य मतिः स आस्तिकः’ ।

Vasu English Summary

The affix ठक् comes in the sense of ‘this is whose belief’ after the words 1. अस्ति 2. नास्ति and 3. दिष्ट।

Vasu English Translation

The affix ठक् comes in the sense of ‘this is whose belief’ after the words 1. अस्ति 2. नास्ति and 3. दिष्ट। Thus अस्तिमतिरस्य = आस्तिकः ‘who believes that It is’ i.e. a here after. मास्तिकः ‘whose belief is that there is no Here after’, an athiest. दैष्टिकः ‘whose belief is that it is fate’, a fatalist, दिष्टः = दैव ‘fate’.

The affix does not apply in the sense of belief in general, but to a particular sort of belief. Thus परलोकोऽस्ति इति यस्य मतिरस्ति स आस्तिकः, an Astika is he who believes that the Hereafter is. Contrary to him is a नास्तिकः who does not believe in a Hereafter. A person who believes what is demonstrated by proof, and nothing else, may also be called दैष्टिकः ‘a positivist’. These various other senses are to be found from dictionary and general literature.

Bhashya

1798 अस्तिनास्तिदिष्टं मतिः (ठकोऽधिकरणम्) (सूत्रार्थोपपादकभाष्यम्) किं यस्यास्ति मतिः स आस्तिकः? किं चातः? चौरऽपि प्राप्नोति॥ एवं तर्हि -इतिलोपोऽत्र द्रष्टव्यः। अस्तीत्यस्य मतिः -आस्तिकः। नास्तीत्यस्य मतिः -नास्तिकः। दिष्टमित्यस्य मतिः -दैष्टिकः॥

Kashika

तदस्येत्येव। तदिति प्रथमासमर्थेभ्योऽस्ति नास्ति दिष्ट इत्येतेभ्यः शब्देभ्योऽस्येति षष्ठ्यर्थे ठक् प्रत्ययो भवति, यत् तत् प्रथमासमर्थं मतिश्चेत् तद् भवति। अस्ति मतिरस्य आस्तिकः। नास्ति मतिरस्य नास्तिकः। दैष्टिकः। न च मतिसत्तामात्रे प्रत्यय इष्यते। किं तर्हि? परलोकोऽस्तीति यस्य मतिरस्ति, स आस्तिकः। तद्विपरीतो नास्तिकः। प्रमाणानुपातिनी यस्य मतिः स दैष्टिकः। तदेतदभिधानशक्तिस्वभावाल् लभ्यते। अस्तिनास्तिशब्दौ निपातौ, वचनसामर्थ्याद् वा आख्याताद् वाक्याच् च प्रत्ययः॥

Siddhanta Kaumudi

तदस्येत्येव । अस्तिपरलोक इत्येवं मतिर्यस्य स आस्तिकः । नास्तीति मतिर्यस्य न नास्तिकः । दिष्टमिति मतिर्यस्य स दैष्टिकः ॥

Balamanorama

अस्तिनास्तिदिष्टं मतिः - अस्ति नास्ति । तदस्येत्येवेति । अस्तीति मतिरस्यास्ति, नास्तीति मतिरस्यास्ति, दिष्टमिति मतिरस्यास्तीत्यर्थेषु क्रमेण अस्तीत्यस्मान्नास्तीत्यस्माद्दिष्टमित्यस्माच्च प्रथमान्ताट्ठगित्यर्थः । अस्तिनास्तिशब्दौ निपातौ । यद्वा वचनादेव आख्यातात्प्रत्ययः ।दैवं दिष्ट॑मित्यमरः ।

Tattvabodhini

अस्तिनास्तिदिष्टं मतिः - आस्तिक इति । अस्तिनास्तिशब्दौ निपातौ । यद्वा वचनसामर्थ्यादस्तीत्याख्यातात्, नास्तीति निपाताख्यातसमुदायाच्च प्रत्ययः । दिष्टमिति ।दैवं दिष्टं भागधेय॑मित्यमरः ।॒नालम्बते दैष्टिकता॑मिति माघः ।प्रमाणानुगा मतिर्दिष्टा॑ — इति प्राचोक्तिस्तूपेक्ष्या । दिष्टशब्दस्य स्त्रीत्वे, प्रमाणानुगमतिवाचकत्वे चोक्तकोशविरोधादिति दिक् ।

Padamanjari

यद्यस्ति मतिर्यस्य स आस्तिकः, चोरेऽपि प्राप्नोति, तस्यापि मतिसद्भावात् ? तत्राह - न चेति । तद्विपरीत इति । परलोको नास्तीति मतिर्यस्य तन्नास्तिकःउ लौकायतिकः, न त्वचेतनः पदार्थः, मत्यभावमात्रे प्रत्ययस्यानिष्टत्वात् । दिष्टमु दैवम्, तद्विषया मतिर्यस्य स दैष्टिकः, वृतावपि प्रमाणानुपातिनी मतिर्यस्येति दैववित्, प्रमीयते तेभ्यो दैवमिति । प्रमाणशब्देनेतिहासपुराणादिविवक्षितम् । अस्तिनास्तिशब्दौ निपाताविति । तेन प्रातिपदिकाधिकारो न बाध्यते इति भावः । वचनसामर्थ्याच्चेत्यभ्युपगम्यवादः ॥

Nyaas

किं तर्हि परलोकोऽस्तीति {यस्य मतिः - काशिका} मतिर्यस्य इति। कथं पुनरसति विशेषोपादान एतल्लभ्यते? इत्याह - तदेतत् इत्यादि। अभिधानशक्तिस्वाभाव्याल्लभ्यते। ननु चास्तीति तिङन्तम्, नास्तीति वाक्यम्। अत एताभ्यां न प्राप्नोति प्रत्ययः, प्रातिपदिकाधिकारात् (4.1.1।)? इत्यत आह - अस्तिनास्तिशब्दौ इत्यादि। अभ्युपगम्यापि तिङन्तत्वं वाक्यत्वञ्च परिहारान्तरमाह - वचनादाख्याताद्वाक्याच्च प्रत्ययः इति॥

Prakriyasarvasvam

एभ्यस्तथामतिरस्यास्तीत्यर्थे ठक् । परलोकोऽस्तीति मतिरस्येत्यास्तिकः । स नास्तीति मतिरस्येति नास्तिकः । दैवं शरणमिति मतिरस्य दैष्टिकः ॥

Sutra Prayogas

  • आस्तिक्यशुद्धमवतः (किरातार्जुनीयम्): अस्तिनास्तिदिष्टं मतिः इति ठक्।

  • नैष्ठिकतां (शिशुपालवधम्): अस्तिनास्तिदिष्टं मतिः इति ठक्।