44059: शक्तियष्ट्योरीकक् ======================== **Padacheda:** शक्ति-यष्ट्योः | S | 6 | 2 | ईकक् | S | 1 | 1 | Sutrartha --------- **'अस्य प्रहरणम्' अस्मिन् अर्थे प्रथमासमर्थात् 'शक्ति'शब्दात् 'यष्टि'शब्दात् च ईकक् प्रत्ययः भवति ।** 'प्रहरणम्' इत्युक्ते शस्त्रम् । **प्रहरणम्** (4.4.57) अस्मिन् अर्थे **प्राग्वहतेष्ठक्** (4.4.1) इत्यनेन औत्सर्गकरूपेण ठक्-प्रत्यये प्राप्ते तं बाधित्वा 'शक्ति'शब्दस्य विषये तथा 'यष्टि'शब्दस्य विषये 'ईकक्' प्रत्ययः भवति । यथा - 1. शक्तिः (= 'शूल'सादृशं किञ्चन शस्त्रम्) प्रहरणमस्य सः = शक्ति + ईकक् → शाक्तीक । 2. यष्टिः (- 'दण्ड'सादृशं किञ्चन शस्त्रम्) प्रहरणमस्य सः = यष्टि + ईकक् → याष्टीक । ज्ञातव्यम् - अत्र तद्धितान्तरूपे दीर्घ-ईकारः इष्यते, अतः आचार्येण ठक् (= इकक्) इत्यस्य स्थाने 'ईकक्' इति विधानं कृतमस्ति । Vasu English Summary -------------------- The affix ईकक् comes in the sense of 'this is whose weapon' after the words 1. शक्ति and 2. यष्ट्यि। Vasu English Translation ------------------------ The affix ईकक् comes in the sense of 'this is whose weapon' after the words 1. शक्ति and 2. यष्ट्यि। This debars ठक् ॥ Thus शक्तिः प्रहरणमस्य = शाक्तीकः, So also याष्टीकः ॥ Bhashya ------- शक्तियष्ट्योरीकक् (1797) (ःइर्ककोऽधिकरणम्) (सूत्रन्याससमर्थकं भाष्यम्) किमर्थमीकगुच्यते, न कगेवोच्येत? कारूपसिद्धिः -शाक्तीकः, याष्टीक इति? शक्तियष्ट्योरीकारोऽन्ते, कशब्दश्च प्रत्ययः॥ न सिध्यति। विभाषा चैव हि शक्तियष्ट्योरीकारः, अपि च केऽणः (7.4.13) इति ह्रस्वत्वम् प्रसज्ज्येत। एवं तर्हि -ःइकगुच्यते। का रूपसिद्धिः -शाक्तीको याष्टीक इति। सवर्णदीर्घत्वेन सिद्धम्। न सिध्यति, यस्येति लोपः प्राप्नोति॥ इकारोच्चारणसार्मथ्यान्न भविष्यति॥ यदि तर्हि प्राप्नुवन् विधिरिकारोच्चारणसार्मथ्याद्वाध्यते, सवर्णदीर्घत्वमपि न प्राप्नोति। यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते। यस्य तु विधेर्निमित्तमेव, नासौ बाध्यते। यस्येति लोपं च प्रतीकारोच्चारणमनर्थकम्, सवर्णदीर्घस्य तु निमित्तमेव॥ 4-4-1- आ. 12 (818 विधिसूत्रम् Kashika ------- शक्तियष्टिशब्दाभ्यामीकक् प्रत्ययो भवति तदस्य प्रहरणमित्येतस्मिन् विषये। ठकोऽपवादः। शक्तिः प्रहरणमस्य शाक्तीकः। याष्टीकः॥ Siddhanta Kaumudi ----------------- शाक्तीकः । याष्टीकः ॥ Balamanorama ------------ **शक्तियष्ट्योरीकक्** - शक्तियष्टओरीकक् । शक्तियष्टिशब्दाभ्यां प्रथमान्ताभ्यां प्रहरणवाचिभ्यामस्येत्यर्थे ईकक् स्यादित्यर्थः । Padamanjari ----------- शक्यतेऽनया प्रहर्तुमिति शक्तिः, यष्टिशब्दोऽव्युत्पन्नं प्रातिपदिकम् । किमर्थमीकगुच्यते न कगेवोच्यते, का रूपसिद्धिः ? शक्तियष्टिशब्दाभ्यां बह्वादिङीषन्ताभ्यां लिङ्गविशिष्टपरिभाषया ककि कृते शाक्तीको याष्टीक इति सिद्धम् ; न सिध्यति ?'के' णःऽ इति ह्रस्वत्वं प्राप्नोति । विभाषा ङीबुक्तः, तदभावपक्षे दीर्घस्य शङ्कैव नास्ति ? एवं तर्हि इकगेवोच्येत, इकारेऽपि हि सवर्णदीर्घत्वे सिध्यति, यस्येति लोप इकारोच्चारणसामर्थ्यान्न भविष्यति । पदस्यावग्रहनिवृत्तिरिकारस्य प्रयोजनम् । एवं तर्हि सूत्रारम्भो निष्फलः स्यात्, पूर्वसूत्रविहितेन ठकैवावग्रहनिवृतेः सिद्धत्वात् ? नानर्थकम् ; वाक्यनिवृत्यर्थत्वात् । एवमपि प्रत्ययान्तरमनर्थकं शक्तियष्ट।लेरित्येतावद्वक्तव्यम्, ठक् प्रकृतः, तस्य पुनर्विधानं वाक्यनिवृत्यर्थं भविष्यति, किमीकको विधानेन, तद्विधानातुयस्येति लोपो न भविष्यति । यथैव तर्हि यस्येति लोपो न भवति एवं सवर्णदीर्घत्वमपि न स्यात्; यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते, यस्य तु विधेर्निमितमेव नासौ बाध्यते, यस्येतिलोपं च प्रति इकारोच्चारणमनर्थकं सवर्णदीर्घस्य पुनर्निमितमेव ॥ Nyaas ----- अथ दीर्घोच्चारणं किमर्थम्, इकगेव नोच्येत, इकक्यपि सवर्णदीर्घत्वे कृते शाक्तीको याष्टीक इति सिध्यत्येव? न सिध्यति; इकारस्य **यस्येति च** (6.4.148) इति लोपेन भवितव्यम्। तत्कुतः सवर्णदीर्घत्वम्? इकारोच्चारणसामर्थ्यादेव लोपो न भविष्यति। ननु चावग्रहनिवृत्तिरिकारस्य प्रयोजनं स्यात्? नैतत्; यदि ह्रेतत् प्रयोजनं स्यात् सूत्रारम्भोऽनर्थखः स्यात्; ठकाप्यनवग्रहस्य सिद्धत्वात्? नानर्थकः ; वाक्यनिवृत्त्यर्थत्वात्। एवमपि प्रत्ययग्रहणमनर्थकं स्यात्, ठक्प्रत्ययो हि प्रकृतः , तत्रैतावदेन वक्तव्यम् - शक्कतियष्टओरिति। एवं पुनर्विधानां वाक्यनिवृत्त्यर्थं भविष्यति, किमीकग्विधानेन? तस्मादिकग्ग्रहणसामर्थ्याल्लोपो न भविष्यति। एवमपि ठकैव **यस्येति च** (6.4.148) इति लोपाभावेनानवग्रहे सिद्धे हीकग्ग्रहणमधिकविधानार्थं प्रतीयते। तेन **यस्येति च** (6.4.148) इति लोपो न भवति। यथा तस्मादकः सवर्णे (6.1.97) दीर्घोऽपि न स्यादिति विगृहीतमेव श्रूयेत। तस्मादीकग्वक्तव्यः॥ Prakriyasarvasvam ----------------- शाक्तीकः । याष्टीकः ॥ Sutra Prayogas -------------- * **शक्तिकैर्** (शिशुपालवधम्): `शक्तियष्ट्योरीकक्` इति प्रहरणार्थे ईकक् प्रत्ययः। * **शाक्तिक** (भट्टिकाव्यम्): `शक्ति-यचोरीकक्` इति प्रासः कुन्तः प्रहरणमित्यौत्सर्गिकष्टक् । * **याष्टीक** (भट्टिकाव्यम्): `शक्तियष्टयोरीकक्` इति प्रहरणार्थे ईकक्-प्रत्ययः।